अध्यायः 045

भीष्मनियोगात्कृष्णेन युधिष्ठिरमं प्रति महादेवमहिमाकथनम् ॥ 1 ॥ युधिष्ठिर उवाच । 001
पितामह महेशाय नामान्याचक्ष्व शम्भवे । 001a
विदुषे विश्वमायाय महाभाग्यं च तत्वतः ॥ 001c
भीष्म उवाच । 002
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि । 002a
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः ॥ 002c
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना । 003a
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराऽभवत् ॥ 003c
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः । 004a
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ 004c
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये । 005a
महाभाग्यं विभोर्ब्रूहि मुण्डिनेऽथ कपर्दिने ॥ 005c
वासुदेव उवाच । 006
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः । 006a
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ॥ 006c
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः । 007a
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः ॥ 007c
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् । 008a
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ 008c
वैशम्पायन उवाच । 009
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः । 009a
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ 009c
वासुदेव उवाच । 010
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर । 010a
त्वं चापगेय नामानि निशामय जगत्पतेः ॥ 010c
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् । 011a
यथावद्भगवान्दृष्टो मया पूर्वं समाधिना ॥ 011c
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता । 012a
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ 012c
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् । 013a
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ 013c
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् । 014a
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ 014c
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन । 015a
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ 015c
त्वया द्वादशवर्षाणि व्रतीभूतेन शुष्यता । 016a
आराध्य पशुभर्तारं रुक्मिण्यां जनिताः सुताः ॥ 016c
चारुदेष्णः सुचारुश्च चारुवेशो यशोधरः । 017a
चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च ॥ 017c
यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः । 018a
तथा ममापि तनयं प्रयच्छ मधुसूदन ॥ 018c
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् । 019a
अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥ 019c
सा च मामब्रवीद्गच्छ शिवाय विजयाय च । 020a
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोऽनुगाः । 020c
क्षेत्रौषध्यो यज्ञवाहाश्छन्दांस्यृषिगणाध्वराः । 021a
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः ॥ 021c
देवपत्न्यो देवकन्या देवमातर एव च । 022a
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ॥ 022c
सावित्री ब्रह्मविद्या च ऋतवो वत्सरास्तथा । 023a
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ॥ 023c
रक्षन्तु सर्वत्र गतं त्वां यादव सुखाय च । 024a
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ 024c
एवं कृतस्वस्त्ययनस्तयाऽहं ततोऽभ्यनुज्ञाय नरेन्द्रपुत्रीम् । 025a
पितुः समीपं नरसत्तमस्य मातुश्च राज्ञश्च तथाऽऽहुकस्य ॥ 025c
गत्वा समावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशर्ता । 026a
तानभ्यनुज्ञाय तदाऽतिदुःखाद्गदं तथैवातिबलं च रामम् । 026c
अथोचतुः प्रीतियुतौ तदानीं ततःसमृद्धिर्भवतोऽस्त्वविघ्नम् ॥ 026e
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् । 027a
सोवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ 027c
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे । 028a
क्षेत्रं च तपसां श्रेष्ठं पश्याम्यद्भुतमुत्तमम् ॥ 028c
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः । 029a
पूजितं देवगन्धर्वैर्ब्राह्मया लक्ष्म्या समावृतम् ॥ 029c
धवककुभकदम्बनारिकेलैः कुरवककेतकजम्बुपाटलाभिः । 030a
वटवरुणकवत्सनाभबिल्वैः सरलकपित्थप्रियालसालतालैः ॥ 030c
बदरीकुन्दपुन्नागरैशोकाम्रातिमुक्तकैः । 031a
मधूकैः कोविदारैश्च चम्पकैः पनसैस्तथा ॥ 031c
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् । 032a
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ 032c
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् । 033a
यथास्थानविनिक्षिप्तैर्भूषितं भस्मराशिभिः ॥ 033c
रुरुवानरशार्दूलसिंहद्वीपिसमाकुलम् । 034a
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् । 034c
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ 034e
सकृत्प्रभिन्नैश्च गजैर्विभूषितं प्रहृष्टनानाविधपक्षिसेवितम् । 035a
सुपुष्पितैरम्बुधरप्रकाशैर्महीरुहाणां च वनैर्विचित्रैः ॥ 035c
नानापुष्परजोमिश्रो गजदानाधिवासितः । 036a
दिव्यस्त्रीगीतबहुलो मारुतोऽभिमुखो ववौ 036c
धारानिनादैर्विहगप्राणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् । 037a
गीतैस्तथा किन्नराणामुदारैः शुभैः स्वनैः सामगानां च वीर ॥ 037c
अचिन्त्यं मनसाऽप्यन्यैः सरोभिः समलङ्कृतम् । 038a
विशालैश्चाग्निशरणैर्भूषितं कुसुमावृतैः ॥ 038c
विभूषितं पुण्ययवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया । 039a
विभूषितं धर्मभृतां वरिष्ठैर्महात्मभिर्वह्निसमानकल्पैः ॥ 039c
वाय्वाहारैरम्बुपैर्जप्यनित्यैः सम्प्रक्षालैर्योगिभिर्ध्याननित्यैः । 040a
धूमप्राशैरूष्मपैः क्षीरपैश्च सञ्जुष्टं च ब्राह्मणेन्द्रैः समन्तात् ॥ 040c
गोचारिणोऽर्थाश्मकुट्टा दन्तोलूखलिकास्तथा । 041a
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ 041c
अश्वत्थफलभक्षाश्च तथा ह्युदकशायिनः । 042a
चीरचर्माम्बरधरास्तथा वल्कलधारिणः ॥ 042c
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोधनान् । 043a
पश्यन्मुनीन्बहुविधान्प्रवेष्टुमुपचक्रमे ॥ 043c
सूपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारतपुण्यकर्मभिः । 044a
रराज तच्चाश्रममण्डलं सदा दिवीव राजञ्शशिमण्डलं यथा ॥ 044c
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् । 045a
प्रभावाद्दीप्ततपसां सन्निकर्षान्महात्मनाम् ॥ 045c
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे । 046a
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ 046c
नानानियमविख्यातैर्ऋषिभिः सुमहान्मभिः । 047a
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥ 047c
तेजसा तपसा चैव दीप्यमानं यथाऽनलम् । 048a
शिष्यैरनुगतं शान्तं युवानं ब्राह्मणर्षभम् ॥ 048c
शिरसा वन्दमानं मामुपमन्युरभाषत ॥ 049ac
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः । 050a
यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि ॥ 050c
'मनुष्यतानुवृत्त्या त्वा ज्ञात्वा तिष्ठाम सर्वगम् ।' 051a
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु । 051c
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ 051e
ततो मां भगवानाह साम्ना परमवल्गुना । 052a
लप्स्यसे तनयं कृष्णि आत्मतुल्यमसंशयम् ॥ 052c
तपः सुमहदास्थाय तोषयेशानमीश्वरम् । 053a
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ 053c
इहैनं दैवतश्रेष्ठं देवाः सर्षिगणाः पुरा । 054a
तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥ 054c
तोषयित्वा शुभान्कामान्प्राप्तवन्तो जनार्दन । 055a
तेजसां तपसां चैव निधिः स भगवानिह ॥ 055c
शुभाशुभान्वितान्भावान्विसृजन्स क्षिपन्नपि । 056a
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ 056c
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः । 057a
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥ 057c
तस्यैव पुत्रप्रवरो दमनो नाम विश्रुतः । 058a
महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥ 058c
विष्णोश्चक्रं च तद्धोरं वज्रमाखण्डलस्य च । 059a
शीर्णं पुराऽभवत्तात ग्रहस्याङ्गेषु केशव ॥ 059c
[यत्तद्भगवता पूर्वं दत्तं चक्रं तवानघ । 060a
जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् ॥ 060c
उत्पादितं वृषाङ्केन दीप्तज्वलनसन्निभम् । 061a
दत्तं भगवता तुभ्यं दुर्धर्षं तेजसाऽद्भुतम् ॥ 061c
न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम् । 062a
सुदर्शनं भवत्येवं भवेनोक्तं तदा तु तत् ॥ 062c
सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् । 063a
तज्जीर्णमभवत्तात ग्रहस्याङ्गेषु केशव । 063c
ग्रहस्यातिवलस्याङ्गे वरदत्तस्य धीमतः । 064a
न शस्त्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि ॥] 064c
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा । 065a
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥ 065c
तृष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतां ददौ । 066a
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥ 066c
ममैवानुचरो नित्यं भवितासीति चाब्रवीत् । 067a
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः ॥ 067c
कुशद्वीपं च स ददौ राज्येन भगवानजः । 068a
[तथा शतमुखो नाम धात्रा सृष्टो महासुरः । 068c
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः । 069a
तं प्राह भगवांस्तुष्टः किङ्करोमीति शङ्करः ॥ 069c
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः । 070a
बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥ 070c
तथेति भगवानाह तस्य तद्वचनं प्रभुः । 071a
स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा ॥ 071c
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि । 072a
तस्य चोपददौ पुत्रान्सहस्रं क्रतुसम्मितान् ।] 072c
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ 072e
याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः । 073a
आराध्य स महादेवं प्राप्तवानतुलं यशः ॥ 073c
वेदव्यासश्च योगात्मा पराशरसुतो मुनिः । 074a
सोऽपि शङ्करमाराध्य प्राप्तवानतुलं यशः ॥ 074c
वालखिल्या मघवता ह्यवज्ञाताः पुरा किल । 075a
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ 075c
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः । 076a
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥ 076c
महादेवस्य रोषाच्च आपो नष्टाः पुराऽभवन् । 077a
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥ 077c
ततः पानीयमभवत्प्रसन्ने त्र्यम्बके भुवि । 078a
अत्रिभार्या सुतं दत्तं सोमं दुर्वाससं प्रभो ॥ 078c
अत्रेर्भार्याऽपि भर्तारं सन्त्यज्य ब्रह्मवादिनी । 079a
नाहं तव मुने भूयो वशगा स्यां कथञ्चन ॥ 079c
इत्युक्त्वा सा महादेवमगमच्छरणं किल । 080a
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि ॥ 080c
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा । 081a
तामब्रवीद्धसन्देवो भविता वै सुतस्तव ॥ 081c
विना भर्त्रा चरुद्रेण भविष्यति न संशयः । 082a
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ 082c
विकर्णश्च महादेवं तथा भक्तसुखावहम् । 083a
प्रसाद्य भगवान्सिद्धिं प्राप्तवान्मधुसूदन ॥ 083c
शाकल्यः संशितात्मा वै नववर्षशतान्यपि । 084a
आराधयामास भवं मनोयज्ञेन केशव ॥ 084c
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि । 085a
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ॥ 085c
अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् । 086a
भविष्यति द्विजश्रेष्ठः सूत्रकर्ता सुतस्तव ॥ 086c
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे । 087a
इह तेन तपस्तप्तं षष्टिवर्षशतान्यथ ॥ 087c
तमाह भगवान्रुद्रः साक्षात्तुष्टोस्मि तेऽनघ । 088a
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ 088c
शक्रेण तु पुरा देवो वाराणस्यां जनार्दन । 089a
आराधितोऽभूद्भक्तेन दिग्वासा भस्मगुष्ठितः ॥ 089c
आराध्य स महादेवं देवराज्यमवाप्तवान् ॥ 089e
नारदेन तु भक्त्याऽसौ भव आराधितः पुरा । 090a
तस्य तुष्टो महादेवो जगौ देवगुरुर्गुरुः ॥ 090c
तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति । 091a
गीतेन वादितव्येन नित्यं मामनुयास्यसि ॥ 091c
'बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् । 092a
लवणोऽवध्यतामन्यैर्दशास्यश्च पुनर्बलम् । 092c
अन्तकोऽन्तमनुप्राप्तस्तस्मात्कोऽन्यः परः प्रभुः ॥ 092e
मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो । 093a
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥ 093c
यदर्थं च मया देवः प्रयतेन तथा विभो । 094a
आराधितो महातेजास्तच्चापि शृणु विस्तरात् ॥ 094c
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् । 095a
तत्सर्वं निखिलेनाद्य कथयिष्यामि तेऽनघ 095c
पुरा कृतयुगे तात ऋषिरासीन्महायशाः । 096a
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः । 096c
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥ 096e
कस्यचित्त्वथ कालस्य धौम्येन सह माधव । 097a
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥ 097c
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी । 098a
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥ 098c
तदाप्रभृति चैवाहमरुदं मधुसूदन । 099a
दीयतां दीयतां क्षीरं मम मातरितीरिता ॥ 099c
अभावाच्चैव दुग्धस्य दुःखिता जननी तदा ॥ 100ac
ततः पिष्टं समालोड्य तोयेन सह माधव । 101a
आवयोः क्षीरमित्येव पानार्थं समुपानयत् ॥ 101c
अथ गव्यं पयस्तात कदाचित्प्राशितं मया । 102ac
पित्राऽहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् । 103a
तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी ॥ 103c
यस्याहं तत्पयः पीत्वा रसेन ह्यमृतोपमम् । 104a
ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि सम्भवम् । 104c
स च पिष्टरसस्तात न मे प्रीतिमुपावहत् ॥ 104e
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा । 105a
नेदं क्षीरोदनं मातर्यत्त्वं मे दत्तवत्यसि ॥ 105c
ततो मामब्रवीन्माता दुःखशोकसमन्विता । 106a
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ 106c
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् । 107a
वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ 107c
आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम् 108a
कुत क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् ॥ 108c
पावनानां वनाशानां वनाश्रमनिवासिनाम् । 109a
ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम् । 109c
नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते ॥ 109e
नदीगह्वरशैलेषु तीर्थेषु विविधेषु च । 110a
तपसा जप्यनित्यानां शिवो नः परमा गतिः ॥ 110c
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् । 111a
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ 111c
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् । 112a
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ 112c
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् । 113a
[प्राञ्जलिः प्रणतो भूत्वा इदमम्बामवोचयं ॥ 113c
कोऽयमम्ब महादेवः स कथं च प्रसीदति । 114a
कुत्र वा वसते देवो द्रष्टव्यो वा कथञ्चन ॥ 114c
तुष्यते वा कथं शर्वो रूपं तस्य च कीदृशम् । 115a
कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननी मम ॥ 115c
एवमुक्ता तदा कृष्ण माता मे सुतवत्सला । 116a
मूर्घन्याध्राय गोविन्द सबाष्पाकुललोचना ॥ 116c
प्रमार्जन्ती च गात्राणि मम वै मधुसूदन ॥ 117a
दैन्यमालम्ब्य जननी इदमाह सुरोत्तम ॥ 117c
दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः । 118a
दुराबाधश्च दुर्ग्राह्यो दुर्दृश्यो ह्यकृतात्मभिः ॥ 118c
यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः । 119a
स्थानानि च विचित्राणि प्रासादाश्चाप्यनेकशः ॥ 119c
को हि तत्त्वेन तद्वेद ईशस्य चरितं शुभम् । 120a
कृतवान्यानि रूपाणि देवदेवः पुरा किल । 120c
क्रीडते च तथा शर्वः प्रसीदति यथा च वै ॥ 120e
हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः । 121a
भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम् । 121c
मुनीनां ब्रुवतां दिव्यमीशानचरितं शुभम् ॥ 121e
कृतवान्यानि रूपाणि कथितानि दिवौकसः । 122a
अनुग्रहार्थं विप्राणां शृणु वत्स समासतः ॥ 122c
तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि ॥ 123ac
ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि । 124a
विश्वेषामपि देवानां वपुर्धारयते भवः ॥ 124c
नराणां देवनारीणां तथा प्रेतपिशाचयोः । 125a
किरातशबराणां च जलजानामनेकशः ॥ 125c
करोति भगवान्रूपमाटव्यशबराण्यपि । 126a
कूर्मो मत्स्यस्तथा शङ्खः प्रवालाङ्कुरभूषणः ॥ 126c
यक्षराक्षससर्पाणां दैत्यदानवयोरपि । 127a
वपुर्धारयते देवो भूयश्च बिलवासिनाम् ॥ 127c
व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्त्रिणाम् । 128a
उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च ॥ 128c
हंसकाकमयूराणां कृकलासकसारसाम् । 129a
रूपाणि च बलाकानां गृध्रचक्राङ्गयोरपि ॥ 129c
करोति वा स रूपाणि धारयत्यपि पर्वतम् । 130a
गोरूपं च महादेवो हस्त्यश्वोष्ट्रखराकृतिः ॥ 130c
छागशार्दूलरूपश्च अनेकमृगरूपधृक् । 131a
अण्डजानां च दिव्यानां वपुर्धारयते भवः ॥ 131c
दण्डी छत्री च कुण्डी च द्विजानां वारणस्तथा । 132a
षण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः ॥ 132c
अनेककटिपादश्च अनेकोदरवक्त्रधृत् । 133a
अनेकपाणिपार्श्वश्च अनेकगणसंवृतः ॥ 133c
ऋषिगन्धर्वरूपश्च सिद्धचारणरूपधृत् । 134a
भस्मपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः ॥ 134c
अनेकरावसङ्घुष्टश्चानेकस्तुतिसंस्कृतः । 135a
सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः ॥ 135c
सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि । 136a
सर्वत्र भगवान्ज्ञेयो हृदिस्थः सर्वदेहिनाम् ॥ 136c
यो हि यं कामयेत्कामं यस्मिन्नर्थेऽर्च्यते पुनः । 137a
तत्सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि ॥ 137c
नन्दते कुप्यते चापि तथा हुङ्कारयत्यपि । 138a
चक्री शूली गदापाणिर्मुसली खड्गपट्टसी ॥ 138c
भूधरो नागमौञ्जी च नागकुण्डलकुण्डली । 139a
नागयज्ञोपवीती य नागचर्मोत्तरच्छदः ॥ 139c
हसते गायते चैव नृत्यते च मनोहरम् । 140a
वादयत्यपि वाद्यानि विचित्राणि गणैर्युतः ॥ 140c
वल्गते जृम्बते चैव रुदते रोदयत्यपि । 141a
उन्मत्तमत्तरूपञ्च भाषते चापि सुस्वरः ॥ 141c
अतीव हसते रौद्रस्त्रासयन्नयनैर्जनम् । 142a
जागर्ति चैव स्वपिति जृम्भते च यथासुखम् ॥ 142c
जपते जप्यते चैव तपते तप्यते पुनः । 143a
ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च ॥ 143c
वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने । 144a
दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा ॥ 144c
क्रीडते ऋषिकन्याभिर्ऋषिपत्नीभिरेव च । 145a
ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः ॥ 145c
गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः । 146a
विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः ॥ 146c
अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः । 147a
अनाद्यन्तमजस्यान्तं वेत्स्यते कोस्य तत्त्वतः ॥ 147c
हृदि प्राणो मनो जीवो योगात्मा योगसञ्ज्ञितः । 148a
ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः ॥ 148c
वादको गायनश्चैव सहस्रशतलोचनः । 149a
एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः ॥ 149c
तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः । 150a
भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितं ॥ 150c
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।] 151a
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ 151c
ततोऽहं तप आस्थाय तोपयामास शङ्करम् । 152a
दिव्यं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः ॥ 152c
एकं वर्षशतं चैव फलाहारस्ततोऽभवम् । 153a
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥ 153c
शतानि सप्त चैवाहं वायुभक्षस्तदाऽभवम् । 154a
एकं वर्षसहस्रं तु दिव्यमाराधितो मया ॥ 154c
ततस्तुष्टो महादेवः सर्वलोकेश्वरः प्रभुः । 155a
एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा ॥ 155c
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः । 156a
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥ 156c
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् । 157a
आवेष्टितकरं घोरं चतुर्दंष्ट्रं महागजम् ॥ 157c
समास्थितः स भगवान्दीप्यमानः स्वतेजसा । 158a
आजगाम किरीटी तु हारकेयूरभूषितः ॥ 158c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । 159a
सेव्यमानोप्सरोभिश्च दिव्यगन्धर्वनादितैः ॥ 159c
ततो मामाह देवेन्द्रस्तुष्टस्तेऽहं द्विजोत्तम । 160a
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ 160c
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाऽभवम् । 161a
अब्रवं च तदा कृष्ण देवराजमिदं वचः ॥ 161c
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् । 162a
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥ 162c
सत्यं सत्यं हि नः शक्र वाक्यमेतत्सुनिश्चितम् । 163a
न यन्महेश्वरं मुक्त्वा कथाऽन्या मम रोचते ॥ 163c
पशुपतिवचनाद्भवामि सद्यः कृमिरथवा तरुरप्यनेकशाखः । 164a
अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥ 164c
[जन्मश्वपाकमध्येऽपि मेऽस्तु हरचरणवन्दनरतस्य । 165a
मा वाऽनीश्वरभक्तो भवानि भवनेऽपि शक्रस्य ॥ 165c
वाय्वम्बुभुजोऽपि सतो नरस्य दुःखक्षयः कुतस्तस्य । 166a
भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः ॥ 166c
अलमन्याभिस्तेषां कथाभिरप्यन्यधर्मयुक्ताभिः । 167a
येषां न क्षणमपि रुचितो हरचरणस्मरणविच्छेदः ॥ 167c
हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य । 168a
संसारभयं न भवति हरभक्तिरसायनं पीत्वा ॥ 168c
दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् 169a
न ह्यलब्धप्रसादस्य भक्तिर्भवति शङ्करे ॥] 169c
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया । 170a
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ 170c
[श्वाऽपि महेश्वरवचनाद्भवामि स हि नः परः कामः । 171a
त्रिदशगणराज्यमपि खलु नेच्छाम्यमहेश्वराज्ञप्तम् ॥ 171c
न नाकपृष्ठं न च देवराज्यं न ब्रह्मलोकं न च निष्कलत्वम् । 172a
न सर्वकामानखिलान्वृणोमिcहरस्य दासत्वमहं वृणोमि ॥] 172c
यावच्छशाङ्कधवलामलबद्धमौलिर्न प्रीयते पशुपतिर्भगवान्ममेशः । 173a
तावज्जरामरणजन्मशताभिघातैर्दुःखानि देहविहितानि समुद्वहामि ॥ 173c
दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारमसारमाद्यमेकम् । 174a
अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम् ॥ 174c
'धिक्तेषां धिक्तेषां पुनरपि च धिगस्तु धिक्तेषाम् । 175a
येषां न वसति हृदयेकुपथगतिविमोक्षको रुद्रः' ॥ 175c
यदि नाम जन्म भूयो भवति मदीयैः पुनर्दोषैः । 176a
तस्मिंस्तस्मिञ्जन्मनिभवे भवेन्मेऽक्षया भक्तिः ॥ 176c
शक्र उवाच । 177
कः पुनर्भवने हेतुरीशे कारणकारणे । 177a
येन शर्वादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥ 177c
[उपमन्युरुवाच । 178
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः । 178a
नित्यमेकमनेकं च वरं तस्माद्वृणीमहे ॥ 178c
अनादिमध्यपर्यन्तं ज्ञानैश्वर्यमचिन्तितम् । 179a
आत्मानं परमं यस्माद्वरं तस्माद्वृणीमहे ॥ 179c
ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम् । 180a
अबीजाद्बीजसम्भूतं वरं तस्माद्वृणीमहे ॥ 180c
तमसः परमं ज्योतिस्तपस्तद्वृत्तिनां परम् । 181a
यं ज्ञात्वा नानुशोचन्ति वरं तस्माद्वृणीमहे ॥ 181c
भूतभावनभावज्ञं सर्वभूताभिभावनम् । 182a
सर्वगं सर्वदं देवं पूजयामि पुरन्दर ॥ 182c
हेतुवादैर्विनिर्मुक्तं साङ्ख्ययोगार्थदं परम् । 183a
यमुपासन्ति तत्त्वज्ञा वरं तस्माद्वृणीमहे ॥ 183c
मघवन्मघवात्मानं यं वदन्ति सुरेश्वरम् । 184a
सर्वभूतगुरुं देवं वरं तस्माद्वृणीमहे ॥ 184c
यत्पूर्वमसृजद्देवं ब्रह्माणं लोकभावनम् । 185a
अण्डमाकाशमापूर्य वरं तस्माद्वृणीमहे ॥ 185c
अग्निरापोऽनिलः पृथ्वी खं बुद्धिश्च मनो महान् । 186a
स्रष्टा चैषां भवेद्योऽन्यो ब्रूहि कः परमेश्वरात् ॥ 186c
मनो मतिरहङ्कारस्तन्मात्राणीन्द्रियाणि च । 187a
ब्रूहि चैषां भवेच्छक्र कोऽन्योस्ति परमं शिवात् ॥ 187c
स्रष्टारं भुवनस्येह वदन्तीह पितामहम् । 188a
आराध्य स तु देवेशमश्नुते महतीं श्रियम् ॥ 188c
भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् । 189a
विद्यते वै महादेवाद्ब्रूहि कः परमेश्वरात् ॥ 189c
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात् । 190a
कोऽन्यः शक्नोति देवेशाद्दितेः सम्पादितुं सुतान् ॥ 190c
दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः । 191a
विद्धि त्वेते महादेवाद्ब्रूहि कः परमेश्वरात् ॥ 191c
अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा । 192a
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः ॥ 192c
किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरन्दर । 193a
सहस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम ॥ 193c
पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा । 194a
देवदेवप्रसादेन तत्सर्वं कुशिकोत्तम ॥ 194c
अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम् । 195a
चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् ॥ 195c
भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च । 196a
द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च । 196c
भगवन्मघवन्देवं वदन्ते तत्त्वदर्शिनः ॥ 196e
यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाकृतिम् । 197a
किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः ॥ 197c
अभिघातेषु देवानां सयक्षोरगरक्षसाम् । 198a
परस्परविनाशीषु स्वस्थानैश्वर्यदो भवः ॥ 198c
अन्धकस्याथ शुक्रस्य दुन्दुभेर्महिषस्य च । 199a
यक्षेन्द्रबलरक्षःसु निवातकवचेषु च । 199c
वरदानावघाताय ब्रूहि कोऽन्यो महेश्वरात् ॥ 199e
सुरासुरगुरोर्वक्त्रे कस्य रेतः पुरा हुतम् । 200a
कस्य वाऽन्यस्य रेतस्तद्येन हैमो गिरिः कृतः ॥ 200c
दिग्वासाः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः । 201a
कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः ॥ 201c
ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते । 202a
श्मशाने कस्य क्रीडार्थं नृत्ते वा कोऽभिभाष्यते ॥ 202c
कस्यैश्वर्यं समानं च भूतैः को वाऽपि क्रीडते । 203a
कस्य तुल्यबला देवगणाश्चैश्वर्यदर्पिताः ॥ 203c
घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम् । 204a
वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः ॥ 204c
कस्मादोषधिसम्पत्तिः को वा धारयते वसु । 205a
प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे ॥ 205c
ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः । 206a
ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम् ॥ 206c
कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः । 207a
नित्यं कर्मफलैर्हीनं तमहं कारणं वदे ॥ 207c
स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम् । 208a
गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् ॥ 208c
विश्वेशं कारणगुरुं लोकालोकान्तकारणम् । 209a
भूताभूतभविष्यच्च जनकं सर्वकारणम् । 209c
अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते । 210a
धर्माधर्मौ यतः शक्र तमहं कारणं ब्रुवे ॥ 210c
प्रत्यक्षमिह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् । 211a
देवदेवेन रुद्रेण सृष्टिसंहारहेतुना ॥ 211c
मात्रा पूर्वं ममाख्यातं कारणं लोकलक्षणम् । 212a
नास्ति चेशात्परं शक्र तं प्रपद्य यदीच्छसि ॥ 212c
प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् । 213a
यद्ब्रह्मेन्द्रहुताशविष्णुसहिता देवाश्च दैत्येश्वरा नान्यत्कामसहस्रकल्पितधियः शंसन्ति ईशात्परं ॥ 213c
तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं कामार्थी वरयामि संयतमना मोक्षाय सद्यः शिवम् 213e
हेतुभिर्वा किमन्यैस्तैरीशः कारणकारणम् । 214a
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्चितं सुरैः ॥ 114c
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् । 215a
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ 215c
यस्य ब्रह्म च विष्णुश्च त्वं चापि सहदैवतैः । 216a
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥ 216c
न पद्माङ्का न चक्राङ्का न वज्राङ्का यतः प्रजाः । 217a
लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा ॥ 217c
देव्याःकारणरूपभावजनिताः सर्वाभगाङ्काः स्त्रियो लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः । 218a
योऽन्यत्कारणमीश्वरात्प्रवदते देव्या च यन्नाङ्कितं त्रैलोक्ये सचराचरे स तु पुमान्बाह्यो भवेद्दुर्मतिः ॥ 218c
पुल्लिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्युमाम् । 219a
द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् ॥] 219c
तस्माद्वरमहं काङ्क्षे निधनं वाऽपि कौशिक । 220a
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ 220c
काममेष वरो मेस्तु शापो वाऽथ महेश्वरात् । 221a
न चान्यां देवतां काङ्क्षे सर्वकामफलामपि ॥ 221c
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः । 222a
न प्रसीदति मे देवः किमेतदिति चिन्तयन् ॥ 222c
अथापश्यं क्षणेनैव तमेवैरावतं पुनः । 223a
हंसकुन्देन्दुसदृशं मृणालरजतप्रभम् ॥ 223c
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् । 224a
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥ 224c
वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः । 225a
सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥ 225c
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् । 226a
सुवक्त्रखुरनासं च सुकर्णं सुकटीतटम् । 226c
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ 226e
ककुदं तस्य चाभाति स्कन्धमापूर्य धिष्ठितम् । 227a
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥ 227c
तभास्थितश्च भगवान्देवदेवः सहोमया । 228a
अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥ 228c
'किरीटं च जटाभारः सर्पाद्याभरणानि च । 229a
वज्रादिशूलमातङ्गगम्भीरस्मितमागतम् ॥' 229c
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् । 230a
सहस्रमिव सूर्याणां सर्वमापूर्य धिष्ठितः ॥ 230c
ईश्वरः सुमहातेजाः संवर्तक इवानलः । 231a
युगान्ते सर्वभूतानां दिधक्षुरिव चोद्यतः ॥ 231c
तेजसा तु तदा व्याप्तं दुर्निरीक्ष्यं समन्ततः । 232a
पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥ 232c
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश । 233a
प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ 233c
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् । 234a
'सौरभेयगतं सौम्यं विधूममिव पावकम् ॥ 234c
प्रशान्तमनसं देवं त्रिनेत्रमपराजितम् । 235a
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥' 235c
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् । 236a
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ 236c
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । 237a
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ 237c
गायद्भिर्नृत्यमानैश्च वादयद्भिश्च सर्वशः । 238a
वृतं पार्श्वचरैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ 238c
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् । 239a
त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिः सूर्यैरिवोदितैः ॥ 239c
'सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् । 240a
नयनाह्लादसौम्योऽहमपश्यं परमेश्वरम् ॥' 240c
अशोभतास्य देवस्य माला गात्रे सितप्रभे । 241a
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥ 241c
मूर्तिमन्ति तथाऽस्त्राणि सर्वतेजोमयानि च । 242a
मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ 242c
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः । 243a
पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ 243c
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्वणः । 244a
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ 244c
शरश्च सूर्यसङ्काशो दृष्टः पाशुपताह्वयः । 245a
'सहस्रभुजजिह्वास्यो भीषणो नागविग्रह ॥ 245c
शङ्खशूलासिभिश्चैव पट्टसै रूपवान्स्थितः । 246a
येन च त्रिपुरं दग्धं सर्वदेवमयः शरः ॥ 246c
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् । 247a
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥ 247c
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् । 248a
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥ 248c
ब्राह्मान्नारायणाच्चैन्द्रादाग्नेयादपि वारुणात् । 249a
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ 249c
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा । 250a
शरेणैकेन गोविन्द महादेवेन लीलया ॥ 250c
निर्दहेत च यत्कृत्स्नं त्रैलोक्यं सचराचरम् । 251a
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ 251c
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि । 252a
तदहं दृष्टवांस्तत्र आश्चर्यमिदमुत्तमम् ॥ 252c
गुह्यमस्त्रवरं नान्यत्तत्तुल्यमधिकं हि वा । 253a
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः 253c
दारयेद्द्यां मही कृत्स्नां शोषयेद्वा महोदधिम् । 254a
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥ 254c
यौवनाश्वो हतो येन मान्धाता सबलः पुरा । 255a
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ 255c
महाबलो महावीर्यः शक्रतुल्यपराक्रमः । 256a
करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ 256c
तच्छूलमतितीक्ष्णाग्रं सुभीमं रोमहर्षणम् । 257a
त्रिशिखां भ्रुकुटिं कृत्वा तर्जमानमिव स्थितम् ॥ 257c
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् । 258a
सर्पहस्तमनिर्देश्यं पाशहस्तामिवान्तकम् ॥ 258c
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ । 259a
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुराः ॥ 259c
महादेवेन तुष्टेन दत्तं भृगुसुताय च । 260a
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ 260c
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता । 261a
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ 261c
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रधिष्ठितः ॥ 262a
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशतोपमः । 262c
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः । 263a
प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ 263c
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः । 264a
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ 264c
वामपार्श्वगतश्चापि तथा नारायणः स्थितः । 265a
वैनतेयं समारुह्य शङ्खचक्रगदाधरः ॥ 265c
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः । 266a
शक्तिघण्टे समादाय द्वितीय इव पावकः ॥ 266c
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् । 267a
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥ 267c
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा । 268a
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ 268c
सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः । 269a
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः ॥ 269c
अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा । 270a
'जगन्मूर्ति महालिङ्गं तन्मध्ये स्फीतरूपिणम् ॥ 270c
ब्रह्मा भवं तदाऽस्तौवीद्रथन्तरमुदीरयन् । 271a
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥ 271c
गृणन्ब्रह्म परं शक्रः शतरुद्रियमुत्तमम् । 272a
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः । 272c
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ 272e
तेषां मध्यगतो देवो रराज भगवाञ्छिवः । 273a
शरदभ्रविनिर्मुक्तः परिधिस्थ इवांशुमान् ॥ 273c
अयुतानि च चन्द्रार्कानपश्यं दिवि केशव । 274a
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रत ॥ 274c
उपमन्युरुवाच । 275
नमो देवाधिदेवाय महादेवाय ते नमः । 275c
शक्ररूपाय शक्राय शक्रवेषधराय च ॥ 276a
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च । 276c
पिनाकपाणये नित्यं शङ्खशूलधराय च ॥ । 277a
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धज । 277c
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ 277c
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च । 278a
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ 278c
नमोस्तु रक्तवर्णाय रक्ताम्बरधराय च । 279a
रक्तध्वजपताकाय रक्तस्रगनुलेपिने ॥ 279c
नमोस्तु पीतवर्णाय पीताम्बरधराय च ॥ 280ac
नमोस्तूच्छ्रितच्छत्राय किरीटवरधारिणे । 281a
अर्धहारार्दकेयूर अर्धकुण्डलकर्णिने ॥ 281c
नमः पवनवेगाय नमो देवाय वै नमः । 282a
सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोस्तु ते ॥ 282c
नमः पद्मार्धमालाय उत्पलैर्मिश्रिताय च । 283a
अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने ॥ 283c
नम आदित्यवक्त्राय आदित्यनयनाय च । 284a
नम आदित्यवर्णाय आदित्यप्रतिमाय च ॥ 284c
नमः सोमाय सौम्याय सौम्यवक्त्रधराय च । 285a
सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषिणे ॥ 285c
नमः श्यामाय गौराय अर्धपीतार्धपाण्डवे । 286a
नारीनरशरीराय स्त्रीपुंसाय नमोस्तु ते ॥ 286c
नमो वृषभवाहाय गजेन्द्रगमनाय च । 287a
दुर्गमाय नमस्तुभ्यमगम्यागमनाय च ॥ 287c
नमोस्तु गणनीताय गणवृन्दरताय च । 288a
गुणानुयातमार्गाय गणनित्यव्रताय च ॥ 288c
नमः श्वेताभ्रवर्णाय सन्ध्यारागप्रभाच य । 289a
अनुद्दिष्टामभिधानाय स्वरूपाय नमोस्तु ते ॥ 289c
नमो रक्ताग्रवासाय रक्तसूत्रधराय च । 290a
रक्तमालाविचित्राय रक्ताम्बरधराय च ॥ 290c
मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे । 291a
विचित्रमणिमूर्धाय कुसुमाष्टधराय च ॥ 291c
नमोऽग्निमुखनेत्राय सहस्रशशिलोचने । 292a
अग्निरूपाय कान्ताय नमोस्तु गहनाय च ॥ 292c
खचराय नमस्तुभ्यं गोचराभिरताय च । 293a
भूचराय भुवनाय अनन्ताय शिवाय च ॥ 293c
नमो दिग्वाससे नित्यमधिवाससुवाससे । 294a
नमो जगन्निवासाय प्रतिपत्तिसुखाय च ॥ 294c
नित्यमुद्बद्धमुकुटे महाकेयूरधारिणे । 295a
सर्पकण्ठोपहाराय विचित्राभरणाय च ॥ 295c
नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने । 296a
स्त्रीपुंसाय नपुंसाय नमः साङ्ख्याय योगिने ॥ 296c
शंयोरभिस्रवन्ताय अथर्वाय नमोनमः । 297a
नमः सर्वार्तिनाशाय नमः शोकहराय च ॥ 297c
नमो मेघनिनादाय बहुमायाधराय च । 298a
बीजक्षेत्राभिपालाय स्रष्टाराय नमोनमः ॥ 298c
नमः सुरासुरेशाय विश्वेशाय नमोनमः । 299a
मनः पवनवेगाय नमः पवनरूपिणे ॥ 299c
नमः काञ्चनमालाय गिरिमालाय वै नमः । 300a
नमः सुरारिमालाय चण्डवेगाय वै नमः ॥ 300c
ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः । 301a
नमः स्त्रीरूपधाराय यज्ञविध्वंसनाय च ॥ 301c
नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च । 302a
नमः कामाङ्गनाशाय कालदण्डधराय च ॥ 302c
नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः । 303a
नमो भवाय शर्वाय विश्वरूपाय वै नमः ॥ 303c
ईशानाय भवघ्नाय नमोस्त्वन्धकघातिने । 304a
नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः ॥ 304c
त्वं नो गतिश्च श्रेष्ठश्च त्वमेव हृदयं तथा ।] 305a
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ 305c
आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यते । 306a
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः ॥ 306c
गृहस्थस्त्वमाश्रमिणामीश्वराणां महेश्वरः । 307a
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यते ॥ 307c
पर्वतानां भवान्मेरुर्नक्षत्राणां च चन्द्रमाः । 308a
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते ॥ 308c
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः । 309a
ग्राम्याणां गोवृषश्चासि भवाल्ँलोकप्रपूजितः ॥ 309c
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः । 310a
पक्षिणां वैनतेयस्त्वमनन्तो भुजगेषु च ॥ 310c
सामवेदश्च वेदानां यजुषां शतरुद्रियम् । 311a
सनत्कुमारो योगानां साङ्ख्यानां कपिलो ह्यसि ॥ 311c
शक्रोसि मरुतां देव पितॄणां हव्यवाडसि ॥ 312a
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥ 312c
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः । 313a
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥ 313c
आदिस्त्वमसि लोकानां संहर्ता काल एव च 314a
यच्चान्यदपि लोके वै सर्वतेजोधिकं स्मृतम् । 314c
तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥ 314e
नमस्ते भगवन्देव नमस्ते भक्तवत्सलः । 315a
योगेश्वर नमस्तेऽस्तु नमस्ते विशवसम्भव ॥ 315c
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च । 316a
अनैश्वर्येण युक्तस्य गतिर्भव सनातन ॥ 316c
यच्चापराधं कृतवानज्ञात्वा परमेश्वर । 317a
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ 317c
मोहितश्चास्मि देवेश त्वया रूपविपर्ययात् । 318a
नार्घ्यं तेन मया दत्तं पाद्यं चापि महेश्वर ॥ 318c
एवं स्तुत्वाऽहमीशानं पाद्यमर्घ्यं च भक्तितः । 319a
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥ 319c
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता । 320a
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ 320c
दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिङ्करैः । 321a
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ 321c
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः । 322a
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ 322c
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः । 323a
मयि भक्तिं परां नित्यमेकभावादवस्थिताम् ॥ 323c
एवमुक्तास्तदा कृष्ण सुरास्ते शूलपाणिना । 324a
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ 324c
भगवन्देवदेवेश लोकनाथ जगत्पते । 325a
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ 325c
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा । 326a
आह मां भगवानीशः प्रहसन्निव शङ्करः ॥ 326c
भगवानुवाच । 327
वत्सोपमन्यो तुष्टोस्मि पश्य मां मुनिपुङ्गव । 327a
दृढभक्तोसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ 327c
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् । 328a
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथोप्सितान् ॥ 328c
एवमुक्तस्य चैवाथ महादेवेन धीमता । 329a
हर्षादश्रूण्यवर्तन्त रोमहर्षस्त्वजायत ॥ 329c
अब्रवं च तदा देव हर्षगद्गदया गिरा । 330a
जानुभ्यामवनीं गत्वा प्रणम्य च पुनःपुनः ॥ 330c
अद्य जातो ह्यहं देव सफलं जन्म चाद्य मे । 331a
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ 331c
यं न पश्यन्ति चैवाद्धा देवा ह्यमितविक्रमम् । 332a
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥ 332c
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् । 333a
तद्विशेषमतिख्यातं यदजं ज्ञानमक्षरम् ॥ 333c
स एष भगवान्देवः सर्वसत्त्वादिरव्ययः । 334a
सर्वतत्त्वविधानज्ञः प्रधानपुरुषः परः ॥ 334c
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् । 335a
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥ 335c
युगान्ते चैव सम्प्राप्ते रुद्रमीशोऽसृजत्प्रभुः । 336a
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् ॥ 336c
कालो भूत्वा परं ब्रह्म याति संवर्तकानलः । 337a
युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः ॥ 337c
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् । 338a
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥ 338c
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः । 339a
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥ 339c
यदि देयो वरो मह्यं यदि तुष्टोऽसि मे प्रभो । 340a
भक्तिर्भवतु मे नित्यं त्वयि देव सुरेश्वर ॥ 340c
अतीतानागतं चैव वर्तमानं च यद्विभो । 341a
जानीयामिति मे बुद्धिः प्रसादात्सुरसत्तम ॥ 341c
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः । 342a
आश्रमे च सदाऽस्माकं सान्निध्यं परमस्तु ते ॥ 342c
एवमुक्तः स मां प्राह भगवाल्ँलोकपूजितः । 343a
महेश्वरो महातेजाश्चराचरगुरुः शिवः ॥ 343c
श्रीभगवानुवाच । 344
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः । 344a
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ 344c
ऋषीणामभिगम्यश्च मत्प्रसादाद्भविष्यसि । 345a
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥ 345c
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् । 346a
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसि प्रियम् ॥ 346c
तत्र ते भविता कामं सान्निध्यं पयसोनिधेः । 347a
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥ 347c
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि । 348a
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ 348c
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती । 349a
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ 349c
तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यति । 350a
स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् ॥ 350c
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः । 351a
ईशानः स वरान्दत्त्वा तत्रैवान्तरधीयत ॥ 351c
एवं दृष्टो मया कृष्ण देवदेवः समाधिना । 352a
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ 352c
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् । 353a
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥ 353c
पश्य वृक्षलतागुल्मान्सर्वपुष्पफलप्रदान् । 354a
सर्वर्तुकुसुमैर्युक्तान्सुखपत्रान्सुगन्धिनः ॥ 354c
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् । 355a
प्रसादाद्देवदेवस्य ईश्वरस्य महात्मनः ॥ 355c
वासुदेव उवाच । 356
एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम् । 356a
विस्मयं परमं गत्वा अब्रवं तं महामुनिम् ॥ 356c
धन्यस्त्वमसि विप्रेन्द्र कस्त्वदन्योस्ति पुण्यकृत् । 357a
यस्य देवाधिदेवस्ते सान्निध्यं कुरुतेऽऽश्रमे ॥ 357c
अपि तावन्ममाप्येवं दद्यात्स भगवाञ्शिवः । 358a
दर्शं मुनिशार्दूल प्रसादं चापि शङ्करः ॥ 358c
उपमन्युरुवाच । 359
[द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः । 359a
अचिरेणैव कालेन यथा दृष्टो मयाऽनघ ॥ 359c
चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम् । 360a
षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम ॥ 360c
षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात् । 361a
सपत्नीकाद्यदुश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 361c
अतीतानागतं चैव वर्तमानं च नित्यशः । 362a
विदितं मे महाबाहो प्रसादात्तस्य धीमतः ॥] 362c
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः । 363a
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥ 363c
त्वादृशेन हि देवानां श्लाघनीय समागमः । 364a
ब्रह्मणअयेनानृशंसेन श्रद्दधानेन चाप्युत । 364c
जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ॥ 364e
श्रीकृष्ण उवाच । 365
अब्रवं तमहं ब्रह्मन्त्वत्प्रसादान्महामुने । 365a
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ॥ 365c
एवं कथयतस्तस्य महादेवाश्रितां कथाम् । 366a
दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत ॥ 366c
दिनेऽष्टमे तु विप्रेणि दीक्षितोऽहं यथाविधि । 367a
दण्डी मुण्डी कुशी चीरि घृताक्तो मेखलीकृतः ॥ 367c
मासमेकं फलाहारो द्वितीयं सलिलाशनः । 368a
तृतीयं च चतुर्थं च पञ्चमं चानिलानशः ॥ 368c
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः । 369a
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ 369c
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन । 370a
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् । 370c
नीलसैलचयप्रख्यं बलाकाभूषिताम्बरम् ॥ 370e
तत्र स्थितश्च भगवान्देव्या सह महाद्युतिः । 371a
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ 371c
रराज भगवांस्तत्र देव्या सह महेश्वरः । 372a
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥ 372c
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः । 373a
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ॥ 373c
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् । 374a
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ 374c
दिव्यां मालामुरसाऽनेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् । 375a
चन्द्रं यथा परिविष्टं ससन्ध्यं वर्षात्यये तद्वदपश्यमेनम् ॥ 375c
प्रमथानां गणैश्चैव समन्तात्परिवारितम् । 376a
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ 376c
एकादशशतान्येवं रुद्राणां वृषवाहनम् । 377a
अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम् ॥ 377c
आदित्या वसवः साध्या विश्वेदेवास्तथाऽश्विनौ । 378a
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥ 378c
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ । 379a
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ 379c
योगीश्वराः सुबहवो योगदं पितरं गुरुम् । 380a
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ 380c
पृथिवीं चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा । 381a
मासार्धमासा क्रतवो रात्रिः संवत्सराः क्षणाः ॥ 381c
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः । 382a
दिव्या राजन्नमस्यन्ति विद्याः सत्वविदस्तथा ॥ 382c
सनत्कुमारो देवाश्च इतिहासास्तथैव च । 383a
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ 383c
मनवः सप्त सोमश्च अर्थवा सबृहस्पतिः । 384a
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ 384c
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः । 385a
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥ 385c
प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः । 386a
देवानां मातरः सर्वादेवपत्न्य सकन्यकाः ॥ 386c
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च । 387a
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥ 387c
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः । 388a
दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम् ॥ 388c
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा । 389a
सर्वाणि चैव भूतानि स्तावराणि चराणि च । 389c
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ॥ 390a
पुरस्ताद्धिष्ठितः शर्वो ममासीस्त्रिदशेश्वरः ॥ 390c
पुरस्तद्धिष्ठितं दृष्ट्वा ममेशानं च भारत । 391a
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥ 391c
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा । 392a
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥ 392c
त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः । 393a
त्वत्समो नास्ति मे कश्चित्त्रिषु लोकषु वै प्रियः ॥ 393c
शिरसा वन्दिते देवे देवी प्रीता ह्युमा तदा । 394a
ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥ 394c
कृष्ण उवाच । 395
नमोस्तु ते शाश्वत सर्वयोने ब्राह्माधिपं त्वामृषयो वदन्ति । 395a
तपश्च सत्वं च रजस्तमश्चत्वामेव सत्यं च वदन्ति सन्तः ॥ 395c
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः । 396a
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ 396c
त्वत्तो जातानि भूतानि स्थावराणि चराणि च । 397a
त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम् ॥ 397c
यानीन्द्रियाणीह मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्नयः । 398a
ये देवसंस्थास्तव देवताश्च तस्मात्परं त्वामृषयो वदन्ति ॥ 398c
वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः । 399a
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ॥ 399c
इष्टं दत्तमधीतं व्रतानि नियमाश्च ये । 400a
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी ॥ 400c
कामः क्रोधो भयं लोभो मदः स्तम्भोथ मत्सरः । 401a
आधयो व्याधयश्चैव भगवंस्तनवस्तव ॥ 401c
कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम् । 402a
मनसः परमा योनिः प्रभावश्चापि शाश्वतः ॥ 402c
अव्यक्तः पावनोऽचिन्त्यः सहस्रांशुर्हिरण्मयः । 403a
आदिर्गणानां सर्वेषां भवान्वैजीविताश्रयः ॥ 403c
महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः । 404a
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ॥ 404c
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते । 405a
त्वां बुद्ध्वा ब्राह्मणो वेदात्प्रमोहं विनियच्छति ॥ 405c
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः ॥ 406ac
सर्वतः पाणिपादस्त्वं सर्वतोक्षिशिरोमुखः । 407a
सर्वतः श्रुतिमाल्ँलोके सर्वमावृत्य तिष्ठसि ॥ 407c
फलं त्वमसि दिग्मांशोर्निमेषादिषु कर्मसु । 408a
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संश्रितः । 408c
अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 408e
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये । 409a
ध्यानिनो नित्ययोगाश्च सत्यसत्वा जितेन्द्रियाः ॥ 409c
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् । 410a
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ 410c
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः । 411a
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ 411c
एवमुक्ते मया पार्थ भवे चार्तिविनाशने । 412a
चराचरं जगत्सर्गं सिंहनादं तदाऽकरोत् ॥ 412c
तं विप्रसङ्घाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि । 413a
रक्षोगणा भूतगणाश्च सर्वेमहर्षयश्चैव तदा प्रणेमुः ॥ 413c
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् । 414a
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ 414c
निरीक्ष्य भगवान्देवीं ह्युमां मां च जगद्धितः । 415a
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥ 415c
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् । 416a
क्रियतामात्मनः श्रेयः प्रीतिर्हि त्वयि मे परा ॥ 416c
वृणीष्वाष्टौ वरान्कृष्ण दाताऽस्मि तव सत्तम । 417a
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ ॥ 417c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

13-45-2 शिवाय विष्णुरूपायेति झ.पाठः ॥ 13-45-3 तण्डिना ब्रह्मयोनिनेति झ.पाठः ॥ 13-45-18 ते त्वया ॥ 13-45-21 यज्ञवाहा इति छन्दसामेव विशेषणम् । छन्दांसि वै देवेभ्यो हव्यमूढ्वेति ब्राह्मणात् तेषां यज्ञवाहत्वसिद्धिः । स्तोभाः सामपूरणान्यक्षराणि हुम्मा इत्यादीनि ॥ 13-45-25 नरेन्द्रपुत्रीं ऋक्षराजस्य जाम्बवतो दुहितरम् ॥ 13-45-26 अभ्यनुज्ञाय स्थितं मामिति शेषः । अथोचतुरित्यर्धः ॥ 13-45-33 भस्मराशिभिरिति भस्मच्छन्नैरग्निभिः ॥ 13-45-40 सम्प्रक्षालैः मैत्र्यादिभिश्चित्तशोधनं कुर्वद्भिः ॥ 13-45-41 गोचारिणो गोवन्मुखेनैव चरन्तो हस्तव्यापारशून्या इत्यर्थः । मरीचिपाश्चन्द्ररश्मि पानेनैव जीवन्तः ॥ 13-45-47 नियमाः अम्बुपानादयस्तैरेवाम्बुपैः क्षीरपैरित्यादिनामभिः ख्यातैः । प्रविशन्नेवापश्यमुपमन्युमिति शेषः ॥ 13-45-58 समानां संवत्सराणामर्बुदं समार्बुदम् ॥ 13-45-59 प्रहस्य मन्दारनाम्नः ॥ 13-45-60 भगवता महादेवेन ॥ 13-45-61 उत्पादितं तस्यैव दैत्यस्य हननार्थम् ॥ 13-45-63 जीर्णं जीर्णतृणवद्व्यर्थमित्यर्थः ॥ 13-45-64 वरदत्तस्य सर्वशस्त्रावध्यस्त्वं भवेति दत्तवरस्य ॥ 13-45-77 सप्तकपालेन त्र्यम्बकदैवत्येन हेतुना । देवैः सप्तकपालेन रुद्रमिष्ट्वा आपो निर्मिता इत्यर्थः ॥ 13-45-78 रुद्रप्रसादाज्जनयामासेति शेषः ॥ 13-45-81 मुसलेष्वयोग्रेषु काष्ठकीलेषु ॥ 13-45-82 चरुद्रः चरोर्द्रवः मण्ड इति यावत् । चरुशब्दपूर्वाद्द्रवतेरन्येभ्योपि दृश्यत इति डः । भर्तारं विनापि चरुद्रवपानमात्रेण तव पुत्रो भविष्यतीत्यर्थः ॥ 13-45-96 धूम्रश्चापि ममानुज इति ट.थ.पाठः ॥ 13-45-109 पावनानां पवनाशिनाम् । वनाशानां अब्भक्षाणाम् ॥ 13-45-112 प्रवद्य प्रपन्नो भव ॥ 13-45-118 दुराधारः मनसि धर्तुमशक्यः 13-45-126 प्रवालाङ्कुरभूषणो वसन्तस्तेन कालोप्ययमेवेत्यर्थः 13-45-139 भूधरः शेषनागः ॥ 13-45-146 सर्ववासकः सर्वस्याच्छादकः 13-45-161 अभवं सन्धिरार्षः ॥ 13-45-165 भावा मैव । भवानि भूयासम् ॥ 13-45-168 अनार्जवं वक्रम् । युगं कलियुगम् ॥ 13-45-174 असारं नास्ति सारो यस्मादन्यस्तम् ॥ 13-45-177 ईशे ईशस्य । भवने सत्तायाम् । को हेतुः का युक्तिः । ईशसत्त्वे प्रमाणं नास्तीत्यर्थः ॥ 13-45-271 रथन्तरज्येष्ठे सामनी ॥ 13-45-278 शुक्लं कर्म हिंसारहितो ध्यानादिधर्मः ॥ 13-45-283 मिश्रिताय मिश्रितमालाय ॥ 13-45-295 मुकुटे मुकुटाय ॥ 13-45-296 त्रीणि नेत्राणीव नेत्राणि लोकयात्रानिर्वाहकाण्यग्निचन्द्रसूर्याख्यानि नेत्राणि यस्य तस्यै त्रिनेत्रनेत्राय । लोचने लोचनाय ॥ 13-45-298 स्रष्टाराय औणादिकः सृजेस्तारन् । स्रष्ट्रे इत्यर्थः ॥ 13-45-304 मायाय मायाविने ॥ 13-45-325 कामेभ्यः कामान् काम्यमानान् अर्थान् ॥ 13-45-333 षड्विंशकमिति ख्यातमिति ट.थ.पाठः ॥ 13-45-336 तं त्वां प्रणम्य शिरसा प्रसाद्य प्रार्थये प्रभो इति ट.थ.पाठः ॥ 13-45-375 परिविष्टं परिवेषवन्तम् ॥