अध्यायः 044
भीष्मेण युधिष्ठिरं प्रति ब्रह्मणा देवान्प्रत्यनूदितसुपर्णोपाख्यानकथनसमापनम् ॥ 1 ॥
ऋषय ऊचुः । 001
अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् । 001a
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥ 001c
एतत्पवित्रं देवानामेतद्गुह्यं परन्तप । 002a
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा ॥ 002c
य इमां श्रावयेद्विद्वान्कथां पर्वसु पर्वसु 003a
स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान् ॥ 003c
श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः । 004a
न तत्र रक्षसां भागो नासुराणां च विद्यते ॥ 004c
अनसूयुर्जितक्रोधः सर्वसत्वहिते रतः । 005a
यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम् ॥ 005c
वेदान्पारयते विप्रो राजा विजयवान्भवेत् । 006a
वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात् ॥ 006c
भीष्म उवाच । 007
ततस्ते मुनयः सर्वे सम्पूज्य विनतासुतम् । 007a
स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः ॥ 007c
स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः । 008a
एषा श्रुतिर्महाराज धर्म्या धर्मभृतांवर ॥ 008c
सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परन्तप । 009a
मयाप्येषा कथा तात कथिता मातुरन्तिके । 009c
वसुभिः सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते ॥ 009e
तदग्निहोत्रपरमा जपयज्ञपरायणाः । 010a
निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसात्मतां ॥ 010c
आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः । 011a
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् ॥ 011c
तदेष परमो मोक्षो मोक्षद्वारं च भारत । 012a
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् ॥ ॥ 012c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44