अध्यायः 043

बदरीनारायणेन गरुडं प्रति स्वमहिमोक्तिः ॥ 1 ॥ गरुडेन मुनिगणान्प्रति स्वानुभूतनारायणमहिमोक्तिः ॥ 2 ॥

'भगवानुवाच । 001
मां न देवा न गन्धर्वा नासुरा न च राक्षसाः । 001a
विदुस्तत्वेन सत्वस्थं सूक्ष्मात्मानमवस्थितम् ॥ 001c
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया । 002a
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः ॥ 002c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । 003a
मनो बुद्धिश्च चेतश्च तमः सत्वं रजस्तथा ॥ 003c
प्रकृतिर्विकृतिश्चैव विद्याविद्ये शुभाशुभे । 004a
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन ॥ 004c
यत्किञ्चिच्छ्रेयसा युक्तं श्रेयस्करमनुत्तमम् । 005a
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः ॥ 005c
यत्स्वभावात्मतत्वज्ञैः कारणैरुपलक्ष्यते । 006a
अनादिमध्यनिधनः सोन्तरात्माऽस्मि शाश्वतः ॥ 006c
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः । 007a
गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योस्मि शाश्वतः ॥ 007c
तत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत् । 008a
सोहङ्गतः सर्वसत्वः सर्वस्य प्रभवोऽव्ययः ॥ 008c
मत्तो जायन्ति भूतानि मया धार्यन्त्यहर्निशम् । 009a
मय्येव विलयं यान्ति प्रलये पन्नगाशन ॥ 009c
यो मां यथा वेदयति तथा तस्यास्मि काश्यप । 010a
मनोबुद्धिगतः श्रेयो विदधामि विहङ्गम ॥ 010c
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम । 011a
शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः ॥ 011c
ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः । 012a
अग्निकार्यपरा नित्यं जपहोमपरायणाः ॥ 012c
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः । 013a
अनन्यमनसस्ते मां सर्वे वै समुपासते ॥ 013c
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः । 014a
अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंश्रिताः ॥ 014c
अनन्यकार्याः शुचयो नित्यमग्निपरायणाः । 015a
य एवम्बुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः ॥ 015c
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः । 016a
आत्मन्यग्निं समाधाय निराहारा निराशिषः ॥ 016c
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः । 017a
अनन्यमनसो धीराः स्वभावनियमान्विताः ॥ 017c
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम् । 018a
तत्राग्नयः सन्निहिता दीप्यन्ते स्म निरिन्धनाः ॥ 018c
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः । 019a
उपासीना गृणन्तोऽग्निमस्पष्टाक्षरभाषिणः । 019c
आकाङ्क्षमाणाः शुचयस्तेष्वग्रिषु विहङ्गम ॥ 019e
ये मया भावितात्मानो मय्येवाभिरताः सदा । 020a
उपासते च मामेव ज्योतिर्भूता निरामयाः ॥ 020c
तैर्हि तत्रैव वस्तव्यं नीरागादिभिरच्युतैः । 021a
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः ॥ 021c
निर्मला निरहङ्कारा निरालम्बा निराशिषः । 022a
मद्भक्ताः सततं तेवै भक्तांस्तानपि चाप्यहम् ॥ 022c
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः । 023a
लोकानां धारणार्थाय विधानं विदधामि च ॥ 023c
यथावत्तदशेषेण श्रोतुमर्हति मे भवान् ॥ 024ac
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता । 025a
द्वितीया सृजते तात भूतग्रामं चराचरम् ॥ 025c
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम् । 026a
ज्ञातात्मनिष्ठा क्षपयन्मोहयन्तीव मायया । 026c
क्षपयन्ती मोहयति आत्मनिष्ठा स्वमायया ॥ 026e
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा । 027a
रक्षते चापि नियता सोहमस्मि नभश्चरः ॥ 027c
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम् । 028a
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः ॥ 028c
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः । 029a
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम ॥ 029c
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः । 030a
तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम् । 030c
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः ॥ 031a
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना । 031c
शक्यः समासादयितुमहं वै ज्ञानचक्षुषा ॥ 031e
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् । 032a
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान् ॥ 032c
मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्यिथः । 033a
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः ॥ 033c
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः । 034a
अन्यथा च चतुर्धा यत्सम्यक्त्वं श्रोतुमर्हसि ॥ 034c
यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत । 035a
ब्रह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम् ॥ 035c
शिवात्स्कन्दः संवभूव एतत्सृष्टिचतुष्टयम् । 036a
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः ॥ 036c
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते । 037a
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशुग ॥ 037c
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः । 038a
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा ॥ 038c
पञ्चभिः सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः । 039a
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम् ॥ 039c
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः ॥ 040ac
खं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम् । 041a
तदात्मकोऽस्मि विज्ञेयो न चान्योस्मीति निश्चितम् । 041c
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम् । 042a
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम् ॥ 042c
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता । 043a
ते न पश्यन्ति मे तत्वं तपसा महता ह्यपि ॥ 043c
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि । 044a
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः ॥ 044c
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः । 045a
एकान्तिनो ध्यानपरा यतिभावाद्व्रजन्ति माम् ॥ 045c
सत्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता । 046a
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम् ॥ 046c
अहिंसा सर्वभूतेषु तेष्ववस्तितमार्जवम् । 047a
तेष्वेव च समाधाय सम्यगेति च मामजम् ॥ 047c
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम् । 048a
यत्तेन तदशेषेण यथावच्छ्रोतुमर्हसि ॥ 048c
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः । 049a
ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि ॥ 049c
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा । 050a
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम् ॥ 050c
ये तु साङ्ख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः । 051a
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम् ॥ 051c
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः । 052a
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति ॥ 052c
शुद्धाभिजनसम्पन्नाः श्रद्धायुक्तेन चेतसा । 053a
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिं ॥ 053c
यद्गुह्यं परमं बुद्धेरलिङ्गग्रहणं च यत् । 054a
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः ॥ 054c
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः । 055a
न चापः पृथिवी चैव नाकाशं न मनोगतिः ॥ 055c
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम । 056a
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः ॥ 056c
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ । 057a
एतत्सूक्ष्मस्य तद्द्वारं कार्याणां कारणं त्वहम् ॥ 057c
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम । 058a
ब्रह्मणो यदहोरात्रसङ्ख्याभिज्ञैर्विभाव्यते ॥ 058c
एष कालस्त्वया तत्र सरस्यहमुपागतः । 059a
मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः । 059c
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते ॥ 059e
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः । 060a
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः ॥ 060c
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत् । 061a
ज्ञात्वा मामेव चैवान्ते निःसङ्गेनान्तरात्मना ॥ 061c
अहं तेजो द्विजातीनां मम तेजो द्विजातयः । 062a
मम यस्तेजसो देहः सोग्निरित्यवगम्यताम् ॥ 062c
प्राणपालः शरीरेऽहं योगिनामहमीश्वरः । 063a
साङ्ख्यानामिदमेवाग्रे मयि सर्वमिदं जगत् ॥ 063c
धर्ममर्थं च कामं च मोक्षं चैवार्जवं जपम् । 064a
तमः सत्वं रजश्चैव कर्मजं च भवाप्ययम् ॥ 064c
स तदाऽहं तथारूपस्त्वया दृष्टः सनातनः । 065a
ततस्त्वहं परतरः शक्यः कालेन वेदितुम् ॥ 065c
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम् । 066a
तदेवं परमो गुह्यो देवो नारायणो हरिः । 066c
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः ॥ 066e
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा । 067a
गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् ॥ 067c
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ । 068a
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन ॥ 068c
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा । 069a
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् ॥ 069c
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम् । 070a
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम् ॥ 070c
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत । 071a
पश्यतो मे महायोगी जगामात्मगतिर्गतिम् ॥ 071c
एतदेवंविधं तस्य महिमानं महात्मनः । 072a
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा ॥ 072c
एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः । 073a
मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः ॥' 073c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥