'अध्यायः 042

ब्रह्मणा देवान्प्रति श्रीनारायणमहिमप्रतिपादकगरुडमुनिगणसंवादानुवादः ॥ 1 ॥

सुपर्ण उवाच । kk-13-01-042-001
एवं दत्ताभयस्तेन ततोऽहमृषिसत्तमाः । kk-13-01-042-001a
नष्टखेदश्रमभयः क्षणेन ह्यभवं तदा ॥ kk-13-01-042-001c
स शनैर्याति भगवान्गत्या लघुपराक्रमः । kk-13-01-042-002a
अहं तु सुमहावेगमास्तायानुव्रजामि तम् ॥ kk-13-01-042-002c
स गत्वा दीर्घमध्वानमाकाशममितह्युतिः । kk-13-01-042-003a
मनसाऽप्यगमं देवमाससादात्मतत्ववित् ॥ kk-13-01-042-003c
अथ देवः समासाद्य मनसः सदृशं जवम् । kk-13-01-042-004a
मोहयित्वा च मां तत्र क्षणेनान्तरधीयत ॥ kk-13-01-042-004c
तत्राम्बुधरधीरेण भोशब्देनानुनादिना । kk-13-01-042-005a
अयं भोऽहमिति प्राह वाक्यं वाक्यविशारदः ॥ kk-13-01-042-005c
शब्दानुसारी तु ततस्तं देशमहमाव्रजम् । kk-13-01-042-006a
तत्रापश्यं ततश्चाहं श्रीमद्धंसयुतं सरः ॥ kk-13-01-042-006c
स तत्सरः समासाद्य भगवानात्मवित्तमः । kk-13-01-042-007a
भोशब्दप्रतिसृष्टेन स्वरेण प्रतिवादिना ॥ kk-13-01-042-007c
विवेश देवः स्वां योनिं मामिदं चाभ्यभाषत । kk-13-01-042-008a
विशस्व सलिलं सौम्य सुखमत्र वसामहे ॥ kk-13-01-042-008c
ततश्च प्राविशं तत्र सह तेन महात्मना । kk-13-01-042-009a
दृष्टवानद्भुततरं तस्मिन्सरसि भास्वताम् ॥ kk-13-01-042-009c
अग्नीनामप्रणीतानामिद्धानामिन्धनैर्विना । kk-13-01-042-010a
दीप्तानामाज्यसिक्तानां स्थानेष्वर्चिष्मतां सदा ॥ kk-13-01-042-010c
दीप्तिस्तेषामनाज्यानां प्राप्ताज्यानामिवाभवत् । kk-13-01-042-011a
अनिद्धानामिव सतामिद्धानामिव भास्वताम् ॥ kk-13-01-042-011c
अथाहं वरदं देवं नापश्यं तत्र सङ्गतम् । kk-13-01-042-012a
ततः सम्मोहमापन्नो विषादमगमं परम् ॥ kk-13-01-042-012a
अपश्यं चाग्निहोत्राणि शतशोऽथ सहस्रशः । kk-13-01-042-013a
विधिना सम्प्रणीतानि धिष्ण्येष्वाज्यवतां तदा ॥ kk-13-01-042-013c
असम्भृष्टतलाश्चैव वेदीः कुसुमसंस्तृताः । kk-13-01-042-014a
कुशपद्मोत्पलासङ्गाः कलशांश्च हिरण्मयान् ॥ kk-13-01-042-014c
अग्निहोत्राणि चित्राणि शतशोऽथ सहस्रशः । kk-13-01-042-015a
अग्निहोत्राय योग्यानि यानि द्रव्याणि कानिचित् । kk-13-01-042-015c
तानि चात्र समृद्धानि दृष्टवानस्म्यनेकशः ॥ kk-13-01-042-015e
मनोहृद्यतमश्चाग्निः सुरभिः पुण्यलक्षणः । kk-13-01-042-016a
आज्यगन्धो मनोग्राही घ्राणचक्षुस्सुखावहः ॥ kk-13-01-042-016c
तेषां तत्राग्निहोत्राणामीडितानां सहस्रशः । kk-13-01-042-017a
समीपे त्वद्भुततममपश्यमहमव्ययम् ॥ kk-13-01-042-017c
चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् । kk-13-01-042-018a
विमलादित्यभासानां स्थण्डिलानि सहस्रशः । kk-13-01-042-018c
दृष्टान्यग्निसमीपे तु ध्युतिमन्ति महान्ति च ॥ kk-13-01-042-018e
एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः । kk-13-01-042-019a
प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम् । kk-13-01-042-019c
ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः ॥ kk-13-01-042-019e
सुसम्मृष्टतलैस्तैस्तु बृहद्भिर्दीप्ततेजसैः । kk-13-01-042-020a
पावकैः पावितात्माहमभवं लघुविक्रमः ॥ kk-13-01-042-020c
ततोऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् । kk-13-01-042-021a
तं देशं प्रणमित्वाऽथ अन्वेष्टुमुपचक्रमे ॥ kk-13-01-042-021c
तान्यनेकसहस्राणि पर्यटंस्तु महाजवात् । kk-13-01-042-022a
अपश्यमानस्तं देवं ततोऽहं व्यथितोऽभवम् ॥ kk-13-01-042-022c
ततस्तेष्वग्निहोत्रेषु ज्वलत्सु विमलार्चिषु । kk-13-01-042-023a
भानुमत्सु न पश्यामि देवदेवं सनातनम् ॥ kk-13-01-042-023c
ततोऽहं तानि दीप्तानि परीय व्यस्थितेन्द्रियः । kk-13-01-042-024a
नान्तं तेषां प्रपश्यामि खेदश्च सहसाभवत् ॥ kk-13-01-042-024c
विसृत्य सर्वतो दृष्टिं भयमोहसमन्वितः । kk-13-01-042-025a
श्रमं परममापन्नश्चिन्तयानस्त्वचेतनः ॥ kk-13-01-042-025c
तस्मिन्न खलु वर्तेऽहं लोके यत्रैतदीदृशम् । kk-13-01-042-026a
ऋग्यजुस्सामनिर्घोषः श्रूयते न च दृश्यते ॥ kk-13-01-042-026c
न च पश्यामि तं देवं येनाहमिह चोदितः । kk-13-01-042-027a
एवं चिन्तासमापन्नः प्रध्यातुमुपचक्रमे ॥ kk-13-01-042-027c
ततश्चिन्तयतो मह्यं मोहेनाविष्टचेतसः । kk-13-01-042-028a
महाशब्दः प्रादुरासीत्सुभृशं मे व्यथाकरः ॥ kk-13-01-042-028c
अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् । kk-13-01-042-029a
अपश्यं च सुपर्णानां सहस्राण्ययुतानि च ॥ kk-13-01-042-029c
अभ्यद्रवन्त मामेव विपुलद्युतिरंहसः । kk-13-01-042-030a
तेषामहं प्रभावेण सर्वथैवावरोऽभवम् ॥ kk-13-01-042-030c
सोऽहं समन्ततः सर्वैः सुपर्णैरतितेजसैः । kk-13-01-042-031a
दृष्ट्वाऽऽत्मानं परिगतं सम्भ्रमं परमं गतः ॥ kk-13-01-042-031c
विनयावनतो भूत्वा नमश्चक्रे महात्मने । kk-13-01-042-032a
अनादिनिधनायैभिर्नामभिः परमात्मने ॥ kk-13-01-042-032c
नारायणाय शुद्धाय शाश्वताय ध्रुवाय च । kk-13-01-042-033a
भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥ kk-13-01-042-033c
शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च । kk-13-01-042-034a
घोररूपाय महते युगान्तकरणाय च ॥ kk-13-01-042-034c
विश्वाय विश्वदेवाय विश्वेशाय महात्मने । kk-13-01-042-035a
सहस्रोदरपादाय सहस्रनयनाय च ॥ kk-13-01-042-035c
सहस्रबाहवे चैव सहस्रवदनाय च । kk-13-01-042-036a
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥ kk-13-01-042-036c
ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः । kk-13-01-042-037a
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥ kk-13-01-042-037c
बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे । kk-13-01-042-038a
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥ kk-13-01-042-038c
हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे । kk-13-01-042-039a
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥ kk-13-01-042-039c
गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते । kk-13-01-042-040a
सम्म्राडुग्रे सङ्कृतये विरजे सम्भवे भवे ॥ kk-13-01-042-040c
वृषाय वृषरूपाय विभवे भूर्भुवाय व । kk-13-01-042-041a
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥ kk-13-01-042-041c
अच्युताय तुषाराय वीराय च समाय च । kk-13-01-042-042a
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥ kk-13-01-042-042c
सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने । kk-13-01-042-043a
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥ kk-13-01-042-043c
किरीटिने सुकेशाय वासुदेवाय शुष्मिणे । kk-13-01-042-044a
बृहदुक्थ्यसुषेणाय युग्ये दुन्दुभये तथा ॥ kk-13-01-042-044c
भयेसखाय विभवे भरद्वाजेऽभयाय च । kk-13-01-042-045a
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥ kk-13-01-042-045c
पुनर्वसुभृतत्वाय जीवप्रभविषाय च । kk-13-01-042-046a
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥ kk-13-01-042-046c
ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः । kk-13-01-042-047a
श्रीपद्मायात्मसदृशे धरणीधारिणे परे ॥ kk-13-01-042-047c
सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः । kk-13-01-042-048a
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥ kk-13-01-042-048c
केशवाय सुकेशाय रश्मिकेशाय भूरिणे । kk-13-01-042-049a
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥ kk-13-01-042-049c
नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे । kk-13-01-042-050a
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे । kk-13-01-042-050c
मुनये ज्वरमुक्ताय ज्वराधिपतये नमः ॥ kk-13-01-042-050e
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे । kk-13-01-042-051a
तपोब्रह्मनिधानाय युगपर्यायिणे नमः ॥ kk-13-01-042-051c
शरणाय शरण्याय भक्तेष्टशरणाय च । kk-13-01-042-052a
नमः सर्वभवेशाय भूतभव्यभवाय च ॥ kk-13-01-042-052c
पाहि मां देवदेवेश कोप्यजोसि सनातनः । kk-13-01-042-053a
एवं गतोस्मि शरणं शरण्यं ब्रह्मयोनिनम् ॥ kk-13-01-042-053c
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत । kk-13-01-042-054a
भयं च मे व्यपगतं पक्षिणोऽन्तर्हिताऽभवन् ॥ kk-13-01-042-054c
शृणोमि च गिरं दिव्यामन्तर्धानगतां शिवाम् । kk-13-01-042-055a
मा भैर्गरुत्मन्दान्तोसि पुनः सेन्द्रान्दिवौकसः । kk-13-01-042-055c
स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् ॥ kk-13-01-042-055e
ततस्तस्मिन्क्षणेनैव सहसैव महाद्युतिः । kk-13-01-042-056a
प्रत्यदृश्यत तेजस्वी पुरस्तात्स ममान्तिके ॥ kk-13-01-042-056c
समागम्य ततस्तेन शिवेन परमात्मना । kk-13-01-042-057a
अपश्यं चाहमायान्तं नरनारायणाश्रमे । kk-13-01-042-057c
चतुर्द्विगुणविन्यासं तं च देवं सनातनम् ॥ kk-13-01-042-057e
यजतस्तानृषीन्देवान्वदतो ध्यायतो मुनीन् । kk-13-01-042-058a
युक्तान्सिद्धान्नैष्ठिकांश्च जपतो यजतो गृहे ॥ kk-13-01-042-058c
पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् । kk-13-01-042-059a
वन्दितं सिक्तसम्मृष्टं नरनारायणाश्रमम् ॥ kk-13-01-042-059c
तदद्भुतमहं दृष्ट्वा विस्मितोस्मि तदाऽनघाः । kk-13-01-042-060a
जगाम शिरसा देवं प्रयतेनान्तरात्मना ॥ kk-13-01-042-060c
तदत्यद्भुतसङ्काशं किमेतदिति चिन्तयन् । kk-13-01-042-061a
नाध्यगच्छं परं दिव्यं तस्य सर्वभवात्मनः ॥ kk-13-01-042-061c
प्रणिपत्य सुदुर्धर्षं पुनः पुनरुदीक्ष्य च । kk-13-01-042-062a
शिरस्यञ्जलिमाधाय विस्मयोत्फुल्ललोचनः । kk-13-01-042-062c
अवोचं तमदीनार्थं श्रेष्ठानां श्रेष्ठमुत्तमम् ॥ kk-13-01-042-062e
नमस्ते भगवन्देव भूतभव्यभवत्प्रभो । kk-13-01-042-063a
यदेतदद्भुतं देव मया दृष्टं त्वदाश्रयम् ॥ kk-13-01-042-063c
अनादिमध्यपर्यन्तं किं तच्छंसितुमर्हसि । kk-13-01-042-064a
यदि जानासि सां भक्तं यदि वाऽनुग्रहो मयि । kk-13-01-042-064c
शंस सर्वमशेषेण श्रोतव्यं यदि चेन्मया ॥ kk-13-01-042-064e
स्वभावस्तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च । kk-13-01-042-065a
भवद्भूतभविष्येश सर्वथा गहनं भवान् ॥ kk-13-01-042-065c
ब्रूहि सर्वमशेषेण तदाश्चर्यं महामुने । kk-13-01-042-066a
किं तदत्यद्भुतं वृत्तं तेष्वग्निषु समन्ततः ॥ kk-13-01-042-066c
कानि तान्यग्निहोत्राणि केषां शब्दः श्रुतो मया । kk-13-01-042-067a
शृण्वतां ब्रह्म सततमदृश्यानां महात्मनाम् ॥ kk-13-01-042-067c
एतन्मे भगवन्कृष्ण ब्रूहि सर्वमशेषतः । kk-13-01-042-068a
गृणन्त्यग्निसमीपेषु के च ते ब्रह्मराशयः ॥' kk-13-01-042-068c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥