अध्यायः 041
ब्रह्मणा देवान्प्रति गरुडस्य बदरीनारायणानुगमनादिप्रतिपादकगरुडमुनिगणसंवादानुवादः ॥ 1 ॥
सुपर्ण उवाच । kk-13-01-041-001
सोऽहमामन्त्र्य पितरं तद्भावगतमानसः । kk-13-01-041-001a
स्वमेवालयमासाद्य तमेवार्थमचिन्तयम् ॥ kk-13-01-041-001c
तद्भावगतभावात्मा तद्भूतगतमानसः । kk-13-01-041-002a
गोविन्दं चिन्तयन्नासे शाश्वतं परमव्ययम् ॥ kk-13-01-041-002c
धृतं बभूव हृदयं नारायणदिदृक्षया । kk-13-01-041-003a
सोहं वेगं समास्थाय मनोमारुतवेगवान् । kk-13-01-041-003c
रम्यां विशालां बदरीं गतो नारायणाश्रमम् ॥ kk-13-01-041-003e
ततस्तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम् । kk-13-01-041-004a
गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम् । kk-13-01-041-004c
ऋग्यजुस्सामभिश्चैनं तुष्टाव परया मुदा ॥ kk-13-01-041-004e
अथापश्यं सुविपुलमश्वत्थं देवसंश्रयम् ॥ kk-13-01-041-005ac
चतुर्द्विगुणपीनांसः शङ्कचक्रगदाधरः । kk-13-01-041-006a
प्रादुर्बभूव पुरुषः पीतवासाः सनातनः । kk-13-01-041-006c
मध्याह्नार्कप्रतीकाशस्तेजसा भासयन्दिशः ॥ kk-13-01-041-006e
संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः । kk-13-01-041-007a
प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः । kk-13-01-041-007c
दिशश्च विदिशश्चैव भासयन्स्वेन तेजसा ॥ kk-13-01-041-007e
तमहं पुरुषं दिव्यं व्रजन्तममितौजसम् । kk-13-01-041-008a
अनुवव्राज वेगेन शनैर्गच्छन्तमव्ययम् ॥ kk-13-01-041-008c
योजनानां सहस्राणि षष्टिमष्टौ तथा शतम् । kk-13-01-041-009a
तथा शतसहस्रं च शतं द्विगुणमेव च ॥ kk-13-01-041-009c
स गत्वा दीर्घमध्वानमपश्यमहमद्भुतम् । kk-13-01-041-010a
महान्तं पावकं दीप्तमर्चिष्मन्तमनिन्धनम् ॥ kk-13-01-041-010c
शतयोजनविस्तीर्णं तस्माद्द्विगुणमायतम् । kk-13-01-041-011a
विवेश स महायोगी पावकं पावकद्युतिः ॥ kk-13-01-041-011c
तत्र शम्भुस्तपस्तेपे महादेवः सहोमया । kk-13-01-041-012a
स तेन संविदं कृत्वा पावकं समतिक्रमत् ॥ kk-13-01-041-012c
श्रमाभिभूतेन मया कथञ्चिदनुगम्यते ॥ kk-13-01-041-013ac
गत्वा स दीर्घमध्वानं भास्करेणावभासितम् । kk-13-01-041-014a
अभास्करममर्यादं विवेश सुमहत्तमः ॥ kk-13-01-041-014c
अथ दृष्टिः प्रतिहता मम तत्र बभूव ह । kk-13-01-041-015a
यथास्वभावं भूतात्मा विवेश स महाद्युतिः ॥ kk-13-01-041-015c
ततोऽहमभवं मूढो जडान्धबधिरोपमः । kk-13-01-041-016a
दिशश्च विदिशश्चैव न विजज्ञे तमोवृतः ॥ kk-13-01-041-016c
अविजानन्नहं किञ्चित्तस्मिंस्तमसि संवृते । kk-13-01-041-017a
ससम्भ्रान्तेन मनसा व्यथां परमिकां गतः ॥ kk-13-01-041-017c
सोऽहं प्रपन्नः शरणं देवदेवं सनातनम् । kk-13-01-041-018a
प्राञ्जलिर्मनसा भूत्वा वाक्यमेतत्तदोक्तवान् ॥ kk-13-01-041-018c
भगवन्भूतभव्येश भवद्भूतकृदव्यय । kk-13-01-041-019a
शरणं सम्प्रपन्नं मां त्रातुमर्हस्यरिन्दम ॥ kk-13-01-041-019c
अहं तु तत्त्वजिज्ञासुः कोसि कस्यासि कुत्र वा । kk-13-01-041-020a
सम्प्राप्तः पदवीं देव स मां सन्त्रातुमर्हसि ॥ kk-13-01-041-020c
आविर्भूतः पुराणात्मा मामेहीति सनातनः । kk-13-01-041-021a
ततोपरान्ततो देवो विश्वस्य गतिरात्मवान् । kk-13-01-041-021c
मोहयामास मां तत्र दुर्विभाव्यवपुर्विभुः ॥ kk-13-01-041-021e
स्वभावमात्मनस्तत्र दर्शयन्स्वयमात्मना । kk-13-01-041-022a
श्रमं मे जनयामास भयं चाभयदः प्रभुः ॥ kk-13-01-041-022c
खिन्न इत्येव मां मत्वा भगवानव्ययोऽच्युतः । kk-13-01-041-023a
शब्देनाश्वासयामास जगाहे च तमो महत् ॥ kk-13-01-041-023c
अहं तमेवानुगतः श्रमालसपदश्चरन् । kk-13-01-041-024a
मनसा देवदेवेशं ध्यातुं समुपचक्रमे ॥ kk-13-01-041-024c
तथागतं तु मां ज्ञात्वा भगवानमितद्युतिः । kk-13-01-041-025a
तमः प्रणाशयामास ममानुग्रहकाङ्क्षया ॥ kk-13-01-041-025c
ततः प्रनष्टे तमसि तमहं दीप्ततेजसम् । kk-13-01-041-026a
अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् ॥ kk-13-01-041-026c
स्वयम्प्रभांश्च पुरुषान्स्त्रियश्च परमाद्भुताः । kk-13-01-041-027a
अपश्यमहमव्यग्रस्तस्मिन्देशे सहस्रशः ॥ kk-13-01-041-027c
न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च । kk-13-01-041-028a
न तत्र चन्द्रमा भाति न वायुर्वाति पांसुलः ॥ kk-13-01-041-028c
तत्र तूर्याण्यनेकानि गीतानि मधुराणि च । kk-13-01-041-029a
अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् ॥ kk-13-01-041-029c
स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः । kk-13-01-041-030a
मुक्तासिकतवप्राश्च सरितो निर्मलोदकाः ॥ kk-13-01-041-030c
अगतिस्तत्र देवानामसुराणां तथैव च । kk-13-01-041-031a
गन्धर्वनागयक्षाणां राक्षसानां तथैव च ॥ kk-13-01-041-031c
स्वयम्प्रभास्तत्र नरा दृश्यन्तेऽद्भुतदर्शनाः । kk-13-01-041-032a
येषां न देवतास्तुल्याः प्रभाभिर्भावितात्मनाम् ॥ kk-13-01-041-032c
स च तानप्यतिक्रम्य दैवतैरपि पूजितः । kk-13-01-041-033a
विवेश ज्वलनं दीप्तमनिन्धनमनौपमम् ॥ kk-13-01-041-033c
ज्वालाभिर्मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् । kk-13-01-041-034a
दैत्यदानवरक्षोभिर्दैवतैश्चापि दुस्सहम् ॥ kk-13-01-041-034c
ज्वालामालिनमासाद्य तमग्निमहमव्ययम् । kk-13-01-041-035a
अविषह्यतमं मत्वा मनसेदमचिन्तयम् ॥ kk-13-01-041-035c
मया हि समरेष्वग्निरनेकेषु महाद्युतिः । kk-13-01-041-036a
प्रविष्टश्चापविद्धश्च न च मां दग्धवान्क्वचित् ॥ kk-13-01-041-036c
अयं च दुस्सहः शश्वत्तेजसाऽतिहुताशनः । kk-13-01-041-037a
अत्यादित्यप्रकाशार्चिरनलो दीप्यते महान् ॥ kk-13-01-041-037c
स तथा दह्यमानोपि तेजसा दीप्तवर्चसा । kk-13-01-041-038a
प्रपन्नः शरणं देवं शङ्कचक्रगदाधरम् ॥ kk-13-01-041-038c
भक्तश्चानुगतश्चेति त्रातुमर्हसि मां विभो । kk-13-01-041-039a
यथा मां न दहेदग्निः सद्यो देव तथा कुरु ॥ kk-13-01-041-039c
एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः । kk-13-01-041-040a
मा भैरिति वचः प्राह मेघगम्बीरनिस्वनः ॥ kk-13-01-041-040c
स मामाश्वास्य वचनं प्राहेदं भगवान्विभुः । kk-13-01-041-041a
मम त्वं विदितः सौम्य यथावत्तत्वदर्शने ॥ kk-13-01-041-041c
ज्ञापितश्चापि यत्पित्रा तच्चापि विदितं महत् । kk-13-01-041-042a
वैनतेय ममाप्येवमहं वेद्यः कथञ्चन ॥ kk-13-01-041-042c
महदेतत्स्वरूपं मे न ते वेद्यं कथञ्चन । kk-13-01-041-043a
मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः ॥ kk-13-01-041-043c
निर्ममा निरहङ्कारा निराशीर्बन्धनायुताः ॥ kk-13-01-041-043e
भवांस्तु सततं भक्तो मन्मनाः पक्षिसत्तम । kk-13-01-041-044a
स्थूलं मां वेत्स्यसे तस्माज्जगतः कारणेस्थितम् ॥ kk-13-01-041-044c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥