अध्यायः 040

ब्रह्मणा देवान्प्रति नारायणमहिमप्रतिपादकगरुडकश्यपसंवादानुवादः ॥ 1 ॥ kk-13-01-040-0

युधिष्ठर उवाच । kk-13-01-040-001
आत्मन्यग्नौ समाधाय य एते कुरुनन्दन । kk-13-01-040-001a
द्विजातयो व्रतोपेता जपयज्ञपरायणाः ॥ kk-13-01-040-001c
यजन्त्यारम्भयज्ञैश्च मानसं यज्ञमास्थिताः । kk-13-01-040-002a
अग्निभ्यश्च परं नास्ति येषामेषोऽव्यवस्थितः ॥ kk-13-01-040-002c
तेषां गतिर्महाप्राज्ञ कीदृशी किम्पराश्च ते । kk-13-01-040-003a
एतदिच्छामि तत्वेन त्वत्तः श्रोतुं पितामह ॥ kk-13-01-040-003c
भीष्म उवाच । kk-13-01-040-004
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । kk-13-01-040-004a
वैकुण्ठस्य च संवादं सुपर्णस्य च भारत ॥ kk-13-01-040-004c
अमृतस्य समुत्पत्तौ देवानामसुरैः सह । kk-13-01-040-005a
षष्टिवर्षसहस्राणि दैवासुरमवर्तत । kk-13-01-040-005c
तत्र देवास्तु दैतेयैर्वध्यन्ते भृशदारुणैः । kk-13-01-040-006a
त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः ॥ kk-13-01-040-006c
आर्तास्ते देवदेवेशं प्रपन्नाः शरणैषिणः । kk-13-01-040-007a
पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः ॥ kk-13-01-040-007c
ता दृष्ट्वा देवता ब्रह्मा सम्भ्रान्तेन्द्रियमानसः । kk-13-01-040-008a
वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह ॥ kk-13-01-040-008c
ततः स देवैः सहितः पद्मयोनिर्नरेश्वर । kk-13-01-040-009a
तुष्टाव प्राञ्जलिर्भूत्वा नारायणमनामयम् ॥ kk-13-01-040-009c
त्वद्रूपचिन्तनान्नाम्नां स्मरणादर्चनादपि । kk-13-01-040-010a
तपोयोगादिभिश्चैव श्रेयो यान्ति मनीषिणः ॥ kk-13-01-040-010c
भक्तवत्सल पद्माक्ष परमेश्वर पापहन् । kk-13-01-040-011a
परमात्माऽविकाराद्य नारायण नमोस्तु ते ॥ kk-13-01-040-011c
नमस्ते सर्वलोकादे सर्वात्मामितविक्रम । kk-13-01-040-012a
सर्वभूतभविष्येश सर्वभूतमहेश्वर kk-13-01-040-012c
देवानामपि देवस्त्वं सर्वविद्यापरायणः । kk-13-01-040-013a
जगद्वीजसमाहार जगतः परमो ह्यसि ॥ kk-13-01-040-013c
त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः । kk-13-01-040-014a
लोकांश्च लोकपालांश्च ऋषींश्च जयतांवर ॥ kk-13-01-040-014c
वेदाः साङ्गोपनिषदः सरहस्याः ससङ्ग्रहाः । kk-13-01-040-015a
सोङ्काराः सवषट्काराः प्राहुस्त्वां यज्ञमुत्तमम् ॥ kk-13-01-040-015c
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । kk-13-01-040-016a
तपस्विनां तपश्चैव दैवतं देवतास्वपि ॥ kk-13-01-040-016c
एवमादिपुरस्कारैर्ऋक्सामयजुषां गणैः । kk-13-01-040-017a
वैकुण्ठं तुष्टुवुर्देवाः सर्वे ब्रह्मर्षिभिः सह ॥ kk-13-01-040-017c
ततोऽन्तरिक्षे वागासीन्मेघगम्भीरनिस्वना । kk-13-01-040-018a
जेष्यध्वं दानवान्यूयं मयैव सह सङ्गरे ॥ kk-13-01-040-018c
ततो देवगणानां च दानवानां च युध्यताम् । kk-13-01-040-019a
प्रादुरासीन्महातेजाः शार्ङ्गचक्रगदाधरः ॥ kk-13-01-040-019c
सुपर्णपृष्ठमास्थाय तेजसा प्रदहन्निव । kk-13-01-040-020a
व्यधमद्दानवान्सर्वान्बाहुद्रविणतेजसा ॥ kk-13-01-040-020c
तं समासाद्य समरे दैत्यदानवपुङ्गवाः । kk-13-01-040-021a
व्यनश्यन्त महाराज पतङ्गा इव पावकम् ॥ kk-13-01-040-021c
स विजित्यासुरान्सर्वान्दानवांश्च महामतिः । kk-13-01-040-022a
पश्यतामेव देवानां तत्रैवान्तरधीयत ॥ kk-13-01-040-022c
तं दृष्ट्वान्तर्हितं देवा विष्णुं देवामितद्युतिम् । kk-13-01-040-023a
विस्मयोत्फुल्लनयना ब्रह्माणमिदमब्रुवन् ॥ kk-13-01-040-023c
भगवन्सर्वलोकेश सर्वलोकपितामह । kk-13-01-040-024a
इदमत्यद्भुतं वृत्तं तन्नः शंसितुमर्हसि ॥ kk-13-01-040-024c
दैवासुरेऽस्मिन्सङ्ग्रामे त्राता येन वयं विभो । kk-13-01-040-025a
एतद्विज्ञातुमिच्छामः कुतोसौ कश्च तत्वतः ॥ kk-13-01-040-025c
कोऽयमस्मान्परित्राय तूष्णीमेव यथागतम् । kk-13-01-040-026a
प्रतिप्रयातो दिव्यात्मा तं नः शंसितुमर्हसि ॥ kk-13-01-040-026c
एवमुक्तः सुरैः सर्वैर्वचनं वचनार्थवित् । kk-13-01-040-027a
उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो ॥ kk-13-01-040-027c
ब्रह्मोवाच । kk-13-01-040-028
न ह्येनं वेद तत्वेन भुवनं भुवनेश्वरम् । kk-13-01-040-028a
सङ्ख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् ॥ kk-13-01-040-028c
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । kk-13-01-040-029a
सुपर्णस्य च संवादमृषीणां चापि देवताः ॥ kk-13-01-040-029c
पुरा ब्रह्मर्षयश्चैव सिद्दाश्च भुवनेश्वरम् । kk-13-01-040-030a
आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः ॥ kk-13-01-040-030c
तेषां कथयतां तत्र कथान्ते पततां वरः । kk-13-01-040-031a
प्रादुरासीन्महातेजा वाहश्चक्रगदाभृतः ॥ kk-13-01-040-031c
स तानृषीन्समासाद्य विनयावनताननः । kk-13-01-040-032a
अवतीर्य महावीर्यस्तानृषीनभिजग्मिवान् ॥ kk-13-01-040-032c
अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः । kk-13-01-040-033a
उपाविशत तेजस्वी भूमौ वेगवतां वरः ॥ kk-13-01-040-033c
तमासीनं महात्मानं वैनतेयं महाद्युतिम् । kk-13-01-040-034a
ऋषयः परिपप्रच्छुर्महात्मानस्तपस्विनः ॥ kk-13-01-040-034c
कौतूहलं वैनतेय परं नो हृदि वर्तते । kk-13-01-040-035a
तस्य नान्योस्ति वक्तेह त्वामृते पन्नगाशन ॥ kk-13-01-040-035c
तदाख्यातमिहेच्छामो भवता प्रश्नमुत्तमम् । kk-13-01-040-036a
एवमुक्तः प्रत्युवाच प्राञ्जलिर्विनतासुतः ॥ kk-13-01-040-036c
धन्योस्म्यनुगृहीतोस्मि यन्मां ब्रह्मर्षिसत्तमाः । kk-13-01-040-037a
प्रष्टव्यं प्रष्टुमिच्छन्ति प्रीतिमन्तोऽनसूयकाः ॥ kk-13-01-040-037c
किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः । kk-13-01-040-038a
यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुमर्हथ ॥ kk-13-01-040-038c
नमस्कृत्वा ह्यनन्ताय ततस्त ऋषिसत्तमाः । kk-13-01-040-039a
प्रष्टुं प्रचक्रमुस्तत्र वैनतेयं महाबलम् ॥ kk-13-01-040-039c
देवदेवं महात्मानं नारायणमनामयम् । kk-13-01-040-040a
भवानुपास्ते वरदं कुतोऽसौ कश्च तत्वतः ॥ kk-13-01-040-040c
प्रकृतिर्विकृतिर्वाऽस्य कीदृशी क्वनु संस्थितिः । kk-13-01-040-041a
एतद्भवन्तं पृच्छामो देवोऽयं क्व कृतालयः ॥ kk-13-01-040-041c
एष भक्तप्रियो देवः प्रियभक्तस्तथैव च । kk-13-01-040-042a
त्वं प्रियश्चास्य भक्तश्च नान्यः काश्यप विद्यते ॥ kk-13-01-040-042c
मुष्णन्निव मनश्चक्षूंष्यविभाव्यतनुर्विभुः । kk-13-01-040-043a
अनादिमध्यनिधनो न विद्मैनं कुतो ह्यसौ ॥ kk-13-01-040-043c
वेदेष्वपि च विश्वात्मा गीयते न च विद्महे । kk-13-01-040-044a
तत्वतस्तत्वभूतात्मा विभुर्नित्यः सनातनः ॥ kk-13-01-040-044c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । kk-13-01-040-045a
गुणाश्चैषां यथासङ्ख्यं भावाभावौ तथैव च ॥ kk-13-01-040-045c
तमः सत्वं रजश्चैव भावाश्चैव तदात्मकाः । kk-13-01-040-046a
मनो बुद्धिश्च तेजश्च बुद्धिगम्यानि तत्वतः । kk-13-01-040-046c
जायन्ते तात तस्माद्धि तिष्ठते तेष्वसौ विभुः ॥ kk-13-01-040-046e
सञ्चिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् । kk-13-01-040-047a
तस्य देवस्य तत्वेन तन्नः शंस यथातथम् ॥ kk-13-01-040-047c
एतमेव परं प्रश्नं कौतूहलसमन्विताः । kk-13-01-040-048a
एवं भवन्तं पृच्छामस्तन्नः शंसितुमर्हसि ॥ kk-13-01-040-048c
सुपर्ण उवाच । kk-13-01-040-049
स्थूलतो यस्तु भगवांस्तेनैव स्वेन हेतुना । kk-13-01-040-049a
त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपमास्थितः ॥ kk-13-01-040-049c
मया तु महदाश्चर्यं पुरा दृष्टं सनातने । kk-13-01-040-050a
देवे श्रीवत्सनिलये तच्छृणुध्वमशेषतः ॥ kk-13-01-040-050c
न स्म शक्यो मया वेत्तुं न भवद्भिः कथञ्चन । kk-13-01-040-051a
यथा मां प्राह भगवांस्तथा तच्छ्रूयतां मम ॥ kk-13-01-040-051c
मयाऽमृतं देवतानां मिषतामृषिसत्तमाः । kk-13-01-040-052a
हृतं विपाट्य तं यन्त्रं विद्राव्यामृतरक्षिणः ॥ kk-13-01-040-052c
देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे । kk-13-01-040-053a
उन्मथ्याशु गिरींश्चैव विक्षोभ्य च महोदधिं ॥ kk-13-01-040-053c
तं दृष्ट्वा मम विक्रान्तं वागुवाचाशरीरिणी । kk-13-01-040-054a
प्रीतोस्मि ते वैनतेय कर्मणाऽनेन सुव्रत । kk-13-01-040-054c
अवृथा तेऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते ॥ kk-13-01-040-054e
तामेवंवादिनीं वाचमहं प्रत्युक्तवांस्तदा । kk-13-01-040-055a
ज्ञातुमिच्छामि कस्त्वं हि ततो मे दास्यसे वरम् । kk-13-01-040-055c
प्रकृतिर्विकृतिर्वा त्वं देवो वा दानवोपि वा ॥ kk-13-01-040-055e
ततो जलदगम्भीरं प्रहस्य वदतांवरः । kk-13-01-040-056a
उंवाच वरदः प्रीतः काले त्वं माऽभिवेत्स्यसि ॥ kk-13-01-040-056c
वाहनं भव मे साधो वरं दद्मि तवोत्तमम् । kk-13-01-040-057a
न ते वीर्येण सदृशः कश्चिल्लोके भविष्यति ॥ kk-13-01-040-057c
पतङ्ग पततांश्रेष्ठ न देवो नापि दानवः । kk-13-01-040-058a
मत्सखित्वमनुप्राप्तो दुर्धर्षश्च भविष्यसि ॥ kk-13-01-040-058c
तमब्रवं देवदेवं मामेवंवादिनं परम् । kk-13-01-040-059a
प्रयतः प्राञ्जलिर्भूत्वा प्रणम्य शिरसा विभुम् ॥ kk-13-01-040-059c
एवमेतन्महाबाहो सर्वमेतद्भविष्यति । kk-13-01-040-060a
वाहनं ते भविष्यामि यथा वदति मां भवान् ॥ kk-13-01-040-060c
मम चापि महाबुद्धे निश्चयं श्रूयतामिति । kk-13-01-040-061a
ध्वजस्तेऽहं भविष्यामि रथस्थस्य न संशयः ॥ kk-13-01-040-061c
तथास्त्विति स मामुक्त्वा भूयः प्राह महामनाः । kk-13-01-040-062a
न ते गतिविघातोऽद्य भविष्यत्यमृतं विना ॥ kk-13-01-040-062c
एवं कृत्वा तु समयं देवदेवः सनातनः । kk-13-01-040-063a
मामुक्त्वा साधयस्वेति यथाऽभिप्रायतो गतः ॥ kk-13-01-040-063c
ततोऽहं कृतसंवादो येन केनापि सत्तमाः । kk-13-01-040-064a
कौतूहलसमाविष्टः पितरं कश्यपं गतः ॥ kk-13-01-040-064c
सोहं पितरमासाद्य प्रणिपत्याभिवाद्य च । kk-13-01-040-065a
सर्वमेतद्यथातथ्यमुक्तवान्पितुरन्तिके ॥ kk-13-01-040-065c
श्रुत्वा तु भगवान्मह्यं ध्यानमेवान्वपद्यत । kk-13-01-040-066a
स मुहूर्तमिव ध्यात्वा मामाह वदतां वरः ॥ kk-13-01-040-066c
धन्योस्यनुगृहीतश्च यत्त्वं तेन महात्मना । kk-13-01-040-067a
संवादं कृतवांस्तात गुह्येन परमात्मना ॥ kk-13-01-040-067c
स्थूलदृश्यः स भगवांस्तेन तेनैव हेतुना । kk-13-01-040-068a
दृश्यतेऽव्यक्तरूपस्थः प्रधानप्रभवाप्ययः ॥ kk-13-01-040-068c
मया हि स महातेजा नान्ययोगसमाधिना । kk-13-01-040-069a
तपसोग्रेण तेजस्वी तोषितस्तपसान्निधिः ॥ kk-13-01-040-069c
ततो मे दर्शयामास तोषयन्निव पुत्रक । kk-13-01-040-070a
श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः ॥ kk-13-01-040-070c
रक्तनीलासितनिभः सहस्रोदरपाणिमान् । kk-13-01-040-071a
द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः ॥ kk-13-01-040-071c
अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा । kk-13-01-040-072a
तमुपासन्ति परमं गुह्यमक्षरमव्ययम् ॥ kk-13-01-040-072c
समासाद्य तु तं विश्वमहं मूर्ध्ना प्रणम्य च । kk-13-01-040-073a
ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः ॥ kk-13-01-040-073c
महामेघौघधीरेण स्वरेण जयतांवरः । kk-13-01-040-074a
आभाष्य पुत्र पुत्रेति इदमाह धृतं वचः ॥ kk-13-01-040-074c
त्वयाऽभ्युदयकामेन तपश्चीर्णं महामुने । kk-13-01-040-075a
अमुक्तस्त्वं समासङ्गैरविमुक्तोऽद्य पश्यसि ॥ kk-13-01-040-075c
यदा सङ्गैर्विमुक्तश्च गतमोहो गतस्पृहः । kk-13-01-040-076a
भविष्यसि सदा ब्रह्म मामनुध्यास्यसे द्विज ॥ kk-13-01-040-076c
ऐकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः । kk-13-01-040-077a
ज्ञास्यसे मां ततो ब्रह्मन्वीतमोहश्च तत्वतः ॥ kk-13-01-040-077c
तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा । kk-13-01-040-078a
विश्वरूपेण देवेन पुरुषेण महात्मना । kk-13-01-040-078c
तमेवाराधय क्षिप्रं तमाराध्य न सीदसि ॥ kk-13-01-040-079a
सोहमेवं भगवता पित्रा ब्रह्मर्षिसत्तमाः । kk-13-01-040-079c
अनुनीतो यथान्यायं स्वमेव भवनं गतः ॥ kk-13-01-040-080a

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

13-40-13 जगद्बीजसमारम्भेति पाठान्तरम् ॥