अध्यायः 039

सनत्कुमारेण नारदं प्रति प्रलयप्रकारादिकथनम् ॥ 1 ॥ तथा भूतादिनिरूपणम् ॥ 2 ॥

सनत्कुमार उवाच । kk-13-01-038-001
अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि । kk-13-01-038-001a
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च ॥ kk-13-01-038-001c
कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः । kk-13-01-038-002a
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते ॥ kk-13-01-038-002c
मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम् । kk-13-01-038-003a
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम् ॥ kk-13-01-038-003c
भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै । kk-13-01-038-004a
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः ॥ kk-13-01-038-004c
ततः सर्वाणि भूतानि स्थावराणि चराणि च । kk-13-01-038-005a
महाभूतानि दग्धानि स्वां योनिं गमितानि वै ॥ kk-13-01-038-005c
कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका । kk-13-01-038-006a
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा ॥ kk-13-01-038-006c
जगत्प्रलीनं जगति जगच्चापि प्रलीयते । kk-13-01-038-007a
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा ॥ kk-13-01-038-007c
ततो मयूखजालेन सूर्यस्त्वापीयते जलम् । kk-13-01-038-008a
रसात्मा लीयते चार्के तथा ब्राह्मणसत्तम ॥ kk-13-01-038-008c
अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा । kk-13-01-038-009a
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते ॥ kk-13-01-038-009c
तं तथा विस्फुरद्वह्निं वायुर्जरयते महान् । kk-13-01-038-010a
महता बलवेगेन आदत्ते तं हि भानुमान् ॥ kk-13-01-038-010c
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा । kk-13-01-038-011a
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥ kk-13-01-038-011c
तस्य तं निनदं शब्दमादत्ते वै मनस्तदा । kk-13-01-038-012a
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै ॥ kk-13-01-038-012c
भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम् । kk-13-01-038-013a
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते ॥ kk-13-01-038-013c
सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा । kk-13-01-038-014a
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम ॥ kk-13-01-038-014c
विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान् । kk-13-01-038-015a
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः ॥ kk-13-01-038-015c
अभिमाने विनष्टे तु महान्ब्रह्मा विराजते । kk-13-01-038-016a
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम् ॥ kk-13-01-038-016c
येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना । kk-13-01-038-017a
मूर्तं जलेचरमपि व्यवसायगुणात्मकम् । kk-13-01-038-017c
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम् ॥ kk-13-01-038-018a
एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः । kk-13-01-038-018c
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ kk-13-01-038-019a
आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोधिभूतं दिशोधिदैवतं ॥ kk-13-01-038-019c
वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोधिभूतं विद्युदधिदैवतं स्यात् ॥ kk-13-01-038-020A
ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योधिदैवतं स्यात् ॥ kk-13-01-038-021A
आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोधिभूतं वरुणोधिदैवतं स्यात् ॥ kk-13-01-038-022A
पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोधिभूतं वायुरधिदैवतं स्यात् ॥ kk-13-01-038-023A
पाञ्चभौतिकमेतच्चतुष्टयं वर्णितम् । अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः ॥ kk-13-01-038-024A
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात् ॥ kk-13-01-038-025A
हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात् ॥ kk-13-01-038-026A
पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात् ॥ kk-13-01-038-027A
उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात् । kk-13-01-038-028A
वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात् ॥ kk-13-01-038-029A
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात् ॥ kk-13-01-038-030A
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात् । kk-13-01-038-031A
बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं स्यात् ॥ kk-13-01-038-032A
एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च । kk-13-01-038-033A
कस्मात्क्रीडार्थम् ॥ kk-13-01-038-033B
यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च ॥ kk-13-01-038-034A
यथाऽर्णवादूर्मिमालानि च यश्चोर्ध्वमुत्तिष्ठते सम्हरते च । kk-13-01-038-035A
यथा चान्तरिक्षादभ्रमाकाशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत् । kk-13-01-038-035B
एवमव्यक्तो गुणान्सृजति सम्हरति च ॥ kk-13-01-038-035C
यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो भगवान्लोकान्प्रकाशयति प्रवेशयते च ॥ kk-13-01-038-036A
एवं चेतनश्च भगवान्पञ्चविंशः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च । kk-13-01-038-037A
भगवतोऽव्यक्तस्य क्रियावतोक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः ॥ kk-13-01-038-037B
भीष्म उवाच । kk-13-01-038-038
इत्येतन्नारदायोक्तं कुमारेण च धीमता । kk-13-01-038-038a
एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत् ॥ kk-13-01-038-038c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

kk-13-01-038-0