अध्यायः 038
भीष्मेण युधिष्ठिरं प्रति तत्वसृष्ट्यादिप्रतिपादकनारदसनत्कुमारसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
क्लिश्यमानेषु भूतेषु जातीमरणसागरे । 001a
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
सनत्कुमारस्य सतः संवादं नारदस्य च ॥ 002c
सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः । 003a
पूर्वजातास्त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः ॥ 003c
सनकः सनन्दनश्चैव तृतीयश्च सनातनः । 004a
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः ॥ 004c
चतुर्थश्चैव तेषां स भगवान्योगवित्तमः । 005a
सनत्कुमार इति वै कथयन्ति महर्षयः ॥ 005c
हैरण्यगर्भः स मुनिर्वसिष्ठः पञ्चमः स्मृतः । 006a
षष्ठः स्थाणुः स भगवानमेयात्मा त्रिशूलधृत् ॥ 006c
ततोऽपरे समुत्पन्नाः पावकादारुणे क्रतौ । 007a
मनसा स्वयम्भुवो हीमे मरीचिप्रमुखास्तथा ॥ 007c
भुगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा । 008a
अनुजोङ्गिरसोऽथात्रिः पुलस्त्योत्रेस्तथाऽनुजः ॥ 008c
पुलस्त्यस्यानुजो विद्वान्पुलहो नु महाद्युतिः । 009a
पठ्यन्ते ब्रह्मजा ह्येते विद्वद्बिरमितौजसः ॥ 009c
सर्वमेतन्महाराज कुर्वन्नादिगुरुर्महान् । 010a
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः ॥ 010c
मूर्तिमन्तोऽमृतीभूतास्तेजसाऽतितपोन्विताः । 011a
सनकप्रभृतयस्तत्र ये च प्राप्ताः परं पदम् । 011c
कृत्स्नं क्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात् ॥ 011e
सनत्कुमारस्तु विभुर्योगमास्थाय योगवित् । 012a
त्रील्ँलोकानचरच्छश्वदैश्वर्येण परेण हि ॥ 012c
रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः । 013a
सूक्ष्ममष्टगुणं राजन्नितरे नृपसत्तम ॥ 013c
मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते । 014a
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे ॥ 014c
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः । 015a
सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः ॥ 015c
इतिहासपुराणे च श्रुतिरेषा सनातनी । 016a
ब्राह्मणा वरदानेतान्प्राहुर्वेदान्तपारगाः ॥ 016c
एतेषां पितरस्तात पुत्रा इत्यनुचक्षते । 017a
गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा ॥ 017c
पितृणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः । 018a
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम ॥ 018c
कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव च । 019a
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतम् ॥ 019c
गौतमादपि कौण्डिन्याद्बारद्वाजात्तथैव च । 020a
मार्कण्डेयात्तथैवैतदृषेर्देवमतादपि ॥ 020c
पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् । 021a
परं रहस्यं वेदान्तं प्रियं हि परमात्मनः ॥ 021c
अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारतः । 022a
तदिहैकमनोबुद्धिः शृणुष्वावहितो नृप । 022c
स्वायम्भुवस्य संवादं नारदस्य च धीमतः ॥ 022e
सनत्कुमारो भगवान्दिव्यं जज्वाल तेजसा । 023a
अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः ॥ 023c
स कदाचिन्महाभागो मेरुपृष्ठं समागमत् । 024a
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना ॥ 024c
जिज्ञासमानावन्योन्यं सकाशे ब्रह्मणस्ततः । 025a
ब्रह्म भागवतौ तात परमार्थार्थचिन्तकौ ॥ 025c
मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम् । 026a
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानमत्तमम् ॥ 026c
सनत्कुमारं तत्वज्ञं भगवन्तमरिन्दम । 027a
लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम् । 027c
सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् ॥ 027e
साङ्ख्ययोगं च यो वेद पाणावामलकं यथा । 028a
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः ॥ 028c
नारद उवाच । 029
त्रयोविंशतितत्वस्य अव्यक्तस्य महामुने । 029a
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्वतः ॥ 029c
अध्यात्ममधिभूतं च अधिदैवं तथैव च । 030a
कालसङ्ख्याश्च सर्गञ्च स्रष्टारं पुरुषं प्रभुम् । 030c
यं विश्वमुपजीवन्ति येन सर्वमिदं ततम् । 031a
यं प्राप्य न निवर्तन्ते तद्भवान्वक्तुमर्हति ॥ 031c
सनत्कुमार उवाच । 032
यं विश्वमुपजीवन्ति यमाहुः पुरुषं परम् । 032a
तं वै शृणु महाबुद्धे नारायणमनामयम् ॥ 032c
एष नारायणो नाम यं विश्वमुपजीवति । 033a
एष स्रष्टा विधाता च भर्ता पालयिता प्रभुः ॥ 033c
प्राप्यैनं न निवर्तन्ते यतयोऽध्यात्मचिन्तकाः । 034a
एतावदेव वक्तव्यं मया नारद पृच्छते ॥ 034c
परं न वेद्मि तत्सर्गं यावांश्चायं यथाप्यहम् । 035a
श्रूयतामानुपूर्व्येण न च सर्गः प्रयत्नतः ॥ 035c
यथा कालपरीमाणं तत्वानामृषिसत्तम । 036a
अध्यात्ममधिभूतं च अधिदैवं तथैव च । 036c
कालसङ्ख्यां च सर्गञ्च सर्वमेव महामुने ॥ 036e
तमसः कुर्वतः सर्गं तामसो ह्यभिधीयते । 037a
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः ॥ 037c
पर्यायनामान्येतस्य कथयन्ति मनीषिणः । 038a
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ 038c
महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा । 039a
वेदास्तपांसि यज्ञाश्च धर्माश्च भगवान्विभुः । 039c
प्राणः सांवर्तकोग्निश्च व्योम कालस्तथैव च ॥ 039e
नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै । 040a
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुसारतः ॥ 040c
चतुर्युगसहस्राणि चतुर्युगमरिन्दम । 041a
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्वदर्शिनः ॥ 041c
दशकल्पसहस्राणि अव्ययस्य महानिशा । 042a
तथैव दिवसं प्राहुर्योगाः साङ्ख्याश्च तत्वतः ॥ 042c
निशासुप्तोथ भगवान्क्षपान्ते प्रत्यबुध्यत । 043a
पश्चाद्बुद्ध्वा ससर्जापस्तासु वीर्यमवासृजत् ॥ 043c
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । 044a
अहङ्कृत्वा ततस्तस्मिन्ससर्ज प्रभुरीश्वरः ॥ 044c
हिरण्यगर्भं विश्वात्मा ब्रह्माणां जलवन्मुनिम् । 045a
भूतभव्यभविष्यस्य कर्तारमनघं विभुम् । 045c
मूर्तिमन्तं महात्मानं विश्वशम्भुं स्वयम्भुवम् ॥ 045e
अणिमा लघिमा प्राप्तिरीशानो ज्योतिषां नरम् । 046a
चक्रे तिरोधां भगवानेत्कृत्वा महायशाः ॥ 046c
एतस्यापि निशामाहुर्वेदवेदाङ्गपारगाः । 047a
पञ्चकल्पसहस्राणि अहरेतावदेव च ॥ 047c
स सर्गं कुरुत ब्रह्मा तामसश्चानुपूर्व्यशः । 048a
सृजतेऽहं त्वहङ्कारं परमेष्ठिनमव्ययम् ॥ 048c
अहङ्कारेणैव लोका व्याप्ताः साहङ्कृतेन वै । 049a
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे ॥ 049c
देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः । 050a
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च ॥ 050c
एतस्यापि निशामाहुस्तृतीयामथ कुर्वतः । 051a
त्रीणि कल्पसहस्राणि अहरेतावदेव तु ॥ 051c
अहङ्कारस्तु सृजति महाभूतानि पञ्च वै । 052a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 052c
एतेषां गुणतत्वानि पञ्च प्राहुर्द्विजातयः । 053a
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च ॥ 053c
गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः । 054a
नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे ॥ 054c
एतेषामिह वै सर्वं चतुर्थमिह कुर्वतः । 055a
चतुर्युगसहस्रे वै अहोरात्रास्तथैव च ॥ 055c
अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते । 056a
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् ॥ 056c
मनः सर्वमिदं तात विश्वं सर्वमिदं जगत् । 057a
न तथान्यानि भूतानि बलवन्ति यथा मनः ॥ 057c
एतस्यापि ह वै सर्गं षष्ठमाहुर्द्विजातयः । 058a
अहः कल्पसहस्रं वै रात्रिरेतावती तथा ॥ 058c
ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्रह्मणो विदुः । 059a
अष्टमं चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः ॥ 059c
एतानि नव सर्गाणि तत्वानि च महामुने । 060a
चतुर्विंशतितत्वानि तत्वसङ्ख्यानि तेऽनघ ॥ 060c
सर्वस्य प्रभवः पूर्वमुक्तो नारायणः प्रभुः । 061a
अव्ययः प्रभवश्चैव अव्यक्तस्य महामुने । 061c
प्रवक्ष्याम्यपरं तत्वं यस्य यस्येश्वरश्च यः ॥ 061e
अध्यात्ममधिभूतं च अधिदैवं तथैव च । 062a
यथाश्रुतं यथादृष्टं तत्वतो वै निबोध मे ॥ 062c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥