अध्यायः 037

भीष्मेण युधिष्ठिरं प्रति ब्रह्मादिसर्वजगतामनित्यत्वादिकथनपूर्वकं नारायणस्य नित्यत्वादिकथनेन तदुपासनविधानम् ॥ 1 ॥

भीष्म उवाच । 001
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ॥ 001ac
को राज्यं विपुलं गृह्य स्फीताकारं पुनर्महत् । 002a
निर्जितारातिसामन्तं देवराज्योपमं सुखम् ॥ 002c
राज्ये राज्यगुणा ये च तान्व्युदस्य नराधिप । 003a
दोषं पश्यति राजेन्द्र देहेऽस्मिन्पाञ्चभौतिके ॥ 003c
अतिक्रान्तास्त्वया राजन्वृत्तेन प्रपितामहाः । 004a
धर्मो विग्रहवान्धीरो विदुरश्च महायशाः ॥ 004c
सञ्जयश्च महातेजा ये चान्ये दिव्यदर्शनाः । 005a
प्रवृत्तज्ञानसम्पन्नास्तत्वज्ञानविदो नृप ॥ 005c
तेऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः । 006a
अनित्यं दुःखसन्तप्तं जगदेतन्न संशयः ॥ 006c
एवमेतान्महाबाहो ब्रह्माद्यान्ससुरासुरान् । 007a
अनित्यान्सततं पश्य मनुष्यादिषु का कथा ॥ 007c
नित्यां तु प्रकृतीमाह याऽसौ प्रसवधर्मिणी । 008a
अरूपिणीमनिर्देश्यामकृतां पुरुषातिगाम् ॥ 008c
तामत्यन्तसुखां सौम्यां निर्वाणमिति सञ्ज्ञिताम् । 009a
आहुर्ब्रह्मर्षयो ह्याद्यां भुवि चैव महर्षयः ॥ 009c
तया पुरुषरूपिण्या धर्मप्रकृतिकोऽनघ । 010a
स यात्येव हि निर्वाणं यत्तत्प्रकृतिसञ्ज्ञितम् ॥ 010c
स एष प्राकृतो धर्मो भ्राजत्यादियुगे नृप । 011a
विकारधर्माः शेषेषु युगेषु भरतर्षभ । 011c
भ्राजन्तेऽभ्यधिकं वीर संसारपथगोचराः ॥ 011e
प्रकृतीनां च सर्वासामकृता प्रकृतिः स्मृता । 012a
एवं प्रकृतिधर्मा हि वरां प्रकृतिमाश्रिता ॥ 012c
पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् । 013a
सत्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे ॥ 013c
कामं कामयमानेषु ब्राह्मणेषु तिरोहितः । 014a
कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव । 014c
जातो मन्दप्रचारो हि धर्मः कलियुगे नृप ॥ 014e
नित्यस्तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः । 015a
ब्रह्माद्या अपि देवाश्च यं सदा पर्युपासते ॥ 015c
तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् । 016a
तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् ॥ 016c
कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते । 017a
तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् ॥ 017c
इत्येतद्विष्णुमाश्रित्य संसारग्रहमोक्षणम् । 018a
कथितं ते महाबाहो किं भूयः श्रोतुमिच्छसि ॥' ॥ 018c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

13-37-3 देहेऽस्मिन्पञ्चविंशक इति ट. थ. ध. पाठः ॥