अध्यायः 036

युधिष्ठिरेण भीष्मं प्रति श्रुतधर्माननूद्य प्राणिनां सांसारिकदुःखानुवर्णनपूर्वकं स्वस्य संसारनिर्वेदनिवेदनेन पुनर्विस्तरेण वैष्णवधर्मकथनप्रार्थना ॥ 1 ॥

'युधिष्ठिर उवाच । 001
चित्तं मे दूयते तात लोके परमविन्दतः ॥ 001ac
अशाश्वतमिदं सर्वं जगत्स्थावरजङ्गमम् । 002a
ऋते नारायणं पुण्यं प्रतिभाति पितामह ॥ 002c
नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः । 003a
तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयाऽनघ ॥ 003c
भीष्म उवाच । 004
युधिष्ठिर महाप्राज्ञ मया दृष्टं च सङ्गरे ॥ 004ac
युधिष्ठिर उवाच । 005
त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः । 005a
श्रुतं पुराणमखिलं नारदेन निवेदितम् । 005c
गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् ॥ 005e
एकान्तिधर्मनियमाः समासव्यासकल्पिताः । 006a
कथिता वै महाभाग त्वया वै मदनुग्रहात् ॥ 006c
लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः । 007a
आतिथेयविधिश्चैव तपांसि नियमाश्च ये ॥ 007c
वेदवादप्रसिद्धाश्च वाजपेयादयो मखाः । 008a
यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः ॥ 008c
जपयज्ञाश्च विविधा ब्राह्मणानां तपस्विनाम् । 009a
एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् ॥ 009c
तेषां फलविशेषाश्च उञ्छधर्मास्तथैव च । 010a
अहन्यहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् ॥ 010c
वेदश्रवणधर्माश्च ब्रह्मयज्ञफलं तथा । 011a
वेदव्रतविधानं च नियमाश्चैव वैदिकाः ॥ 011c
स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा । 012a
उत्तरोत्तरसेवायामाश्रमाणां च यत्फलम् ॥ 012c
प्रत्येकशश्च निष्ठायामाश्रमाणां महामते । 013a
मासपक्षोपवासानां सम्यगुक्तफलं च यत् ॥ 013c
अनाशितानां ये लोका ये च पञ्चतपा नराः । 014a
वीराध्वानं प्रपन्नानां या गतिश्चाग्निहोत्रिणाम् ॥ 014c
ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् । 015a
वर्षे स्थण्डिलशायीनां फलं यत्परिकीर्तितम् ॥ 015c
लोके चक्रचराणां च द्विजानां यत्फलं स्मृतम् । 016a
अन्नादीनां च दानानां यत्फलं परिकीर्तितम् ॥ 016c
सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः । 017a
राज्ञां धर्माश्च ये लोके सम्यक्पालयतां प्रजाः ॥ 017c
ये च सत्यव्रता लोके ये च तीर्थे कृतश्रमाः । 018a
मातापितृपरा ये च गुरुवृत्तीश्च संश्रिताः ॥ 018c
गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा । 019a
त्यजन्त्यभिमुखाः प्राणान्निर्भयाः सत्वमाश्रिताः ॥ 019c
सहस्रदक्षिणानां च या गतिर्वदतां वर । 020a
ये च सनध्यामुपासन्ते सम्यगुक्ता महाव्रताः ॥ 020c
तथा योगविधानं च यद्ग्रन्थेष्वभिशब्दितम् । 021a
वेदाद्याः श्रुतयश्चापि श्रुता मे गुरुसत्तम ॥ 021c
सिद्धान्तनिर्णयाश्चापि द्वैपायनमुखोद्गताः । 022a
श्रुताः पञ्च महायज्ञा येषु सर्वं प्रतिष्ठितम् ॥ 022c
तत्प्रभेदेषु ये धर्मास्तेऽपि वै कृत्स्नशः श्रुताः । 023a
न च दूषयितुं शक्याः सद्भिरुक्ता हि ते तथा ॥ 023c
एतेषां किल धर्माणामुत्तमो वैष्णवो विधिः । 024a
रक्षते भगवान्विष्णुर्भक्तमात्मशरीरवत् ॥ 024c
कर्मणो हि कृतेस्येह कामितस्य द्विजोत्तम । 025a
फलं ह्यवश्यं भोक्तव्यमृषिर्द्वैपायनोऽब्रवीत् ॥ 025c
भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता । 026a
न मे प्रीतिकरास्त्वेते विषोदर्का हि मे मताः ॥ 026c
वधात्कृष्टतरं मन्ये गर्भवासं महाद्युते । 027a
दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो । 027c
ततः कष्टतराणीह गर्भवासे हि विन्दति ॥ 027e
ततश्चाभ्याधिकां तीव्रां वेदनां लभते नरः । 028a
गर्भापक्रमणे तात कर्मणासुपसर्पणे ॥ 028c
तस्मान्मे निश्चयो जातो धर्मेष्वेतेषु भारत । 029a
तदिच्छामि कुरुश्रेष्ठ त्वत्प्रसादान्महामते । 029c
तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा ॥ 029e
येनोष्णदा वैतरणी असिपत्रवनं च तत् । 030a
कुण्डानि चाग्नितप्तानि क्षुरधारापथस्तथा । 030c
शाल्मलीं च महाघोरामायसीं घोरकण्टकाम् ॥ 030e
मातापितृकृते चापि सुहृन्मित्रार्थकारणात् । 031a
आत्महेतोश्च पापानि कृतानीह नरैश्च यैः । 031c
तेषां फलोदयं कष्टमृषिर्द्वैपायनोऽब्रवीत् ॥ 031e
कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् । 032a
रौरवे क्षिप्यमाणानां प्रहारैर्मथितात्मनाम् ॥ 032c
स्तनतामपकृत्तानां पिबतामात्मशोणितम् । 033a
तेषामेव प्रवदतां कारुण्यं नास्ति यन्त्रतः ॥ 033c
तृष्णाशुष्कोष्ठकण्ठानां विह्वलानामचेतसाम् । 034a
सर्वदुःखाभिभूतानां रुजार्तानां च क्रोशताम् ॥ 034c
वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश ॥ 035ac
एकः करोति पापानि सहभोज्यानि बान्धवैः । 036a
तेषामेकः फलं भुङ्क्ते कष्टं वैवस्वते गृहे ॥ 036c
येन नैतां गतिं गच्छेन्न विण्मूत्रास्थिपिच्छिले । 037a
विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते ॥ 037c
को गर्भवासात्परतो नरकोऽन्यो विधीयते । 038a
यत्र वासकृतो योगः कुक्षौ वासो विधीयते ॥ 038c
जातो विस्तीर्णशोकः स्याद्भवेत विगतज्वरः । 039a
न चैष लभ्यते कामो जातमात्रं हि मानवम् । 039c
आविशन्तीह दुःखानि मनोवाक्कायिकानि तु ॥ 039e
तैरस्वतन्त्रो भवति पीड्यमानो भयानकैः । 040a
तैर्गर्भवासं गच्छति अवशो जायते तथा ॥ 040c
अवशश्चेहते जन्तुर्व्रजत्यवश एव हि । 041a
जरसा रूपविध्वंसं प्राप्नोत्यवश एव तु ॥ 041c
शरीरभेदमाप्नोति जीर्यतेऽवश एव तु । 042a
एवं ह्यनियतो मृत्युर्भवत्येव सदा नृषु ॥ 042c
गर्भेषु म्रियते कश्चिज्जायमानस्तथाऽपरः । 043a
जाता म्रियन्ते बहवो यौवनस्थास्तथाऽपरे । 043c
मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु ॥ 043e
को जन्मनो नोद्विजते स्वयम्भूरपि यो भवेत् । 044a
कुतस्त्वस्मद्विधस्तात मरणस्य वशानुगः ॥ 044c
नित्याविष्टो भयेनाहं मनसा कुरुसत्तम । 045a
मुहूर्तमप्यहं शर्म न विन्दामि महामते ॥ 045c
कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः । 046a
अन्नैर्बहुविधैः पुष्टं वस्त्रैर्नानाविधैर्वृतम् ॥ 046c
चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् । 047a
यानैर्बहुविधैर्यातमेकान्तेनैव लालितम् ॥ 047c
यौवनोद्धतरूपाभिर्मन्दविह्वलगामिभिः । 048a
इष्टिभिरभिरामाभिर्वरस्त्रीभिरयन्त्रितम् ॥ 048c
रमितं सुचिरं कालं शरीरममितप्रभम् । 049a
अवितृप्ता गमिष्यन्ति हित्वा प्राणांस्तथाऽपरे ॥ 049c
स्वर्गेऽप्यनियता भूतिस्तथैवाकाशसंश्रये । 050a
देवाऽप्यधिष्ठानवशास्तस्माद्देवं न कामये ॥ 050c
कामानां नास्त्यधिष्ठानमकामस्तु निवर्तते । 051a
लोकसङ्ग्रहधर्मास्तु सर्व एव न संशयः ॥ 051c
डोलासधर्मा धर्मज्ञ ऋषिर्द्वैपायनोऽब्रवीत् । 052a
अस्मात्को विषमं दुःखमारोहेत विचक्षणः ॥ 052c
विद्यमाने समे मार्गे डोलाधर्मविवर्जिते । 053a
को ह्यात्मानं प्रियं लोके डोलासाधर्म्यतां नयेत् ॥ 053c
चराचरैः सर्वभूतैर्गन्तव्यमविशङ्कया । 054a
अस्माल्लोकात्परं लोकमपाथेयमदैशिकम् । 054c
घोरं तमः प्रवेष्टव्यमत्रातारमबान्धवम् ॥ 054e
ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् । 055a
अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः ॥ 055c
ततस्तेनैव पश्यन्ति प्राप्नुवन्ति परं पदम् । 056a
रक्षते भगवान्विष्णुर्भक्तानात्मशरीरवत् ॥ 056c
कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु । 057a
मातापितृसहस्राणि सम्प्राप्तानि मया गुरो ॥ 057c
स्नेहापन्नेन पीतास्तु मातॄणां विविधाः स्तनाः ॥ 058a
पुत्रदारसहस्राणि इष्टानिष्टशतानि च । 058c
प्राप्तान्यधिष्ठानवशादतीतानि तथैव च । 059a
न क्वचिच्च सुखं प्राप्तं न क्वचिच्छाश्वती स्थितिः ॥ 059e
स्थानैर्महद्भिर्विभ्रंशो दुःखलब्धैः पुनः पुनः । 060a
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् । 060c
अध्वगानामिव पथि च्छायामाश्रित्य सङ्गमः ॥ 060e
एवं कर्मवशो लोको ज्ञातीनां हितसङ्गमः । 061a
विश्रम्य च पुनर्याति कर्मभिर्दर्शितां गतिम् ॥ 061c
एतदीदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् । 062a
को न बिभ्येत्कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् ॥ 062c
बुद्धिश्च मे समुत्पन्ना वैष्णवे धर्मविस्तरे । 063a
तदेष शिरसा पादौ गतोऽस्मि भगवंस्तव । 063c
शरणं च प्रपन्नोऽस्मि गन्तव्ये शरणे ध्रुवे ॥ 063e
जन्ममृत्युजराखिन्नस्त्रिभिर्दुःखैर्निपीडितः । 064a
इच्छामि भवता त्रातुमेभ्यस्त्वत्तो महामते । 064c
तस्याद्य युगधर्मस्य श्रवणात्कुरुपुङ्गव ॥ 064e
एतदाद्ययुगोद्भूतं त्रेतायां तत्तिरोहितम् । 065a
स एव धर्ममखिलमृषिर्द्वैपायनोऽब्रवीत् ॥' ॥ 065c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशोऽध्यायःठ ॥ 36 ॥

13-36-3 पुरुषः पुष्करो विभुरिति ट.थ.ध. पाठः ॥ एतदादिन्वाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते ॥