अध्यायः 035
भीष्मेण युधिष्ठिरं प्रति मनोवाक्कायरूपकरणैर्दुष्कर्मपरित्यागपूर्वकं शुभकर्मकरणस्य भगवत्प्रसादनहेतुत्वोक्तिः ॥ 1 ॥
युधिष्ठिर उवाच । 001
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना । 001a
कथं वै लोकयात्रां तु किं शीलश्च समाचरेत् ॥ 001c
भीष्म उवाच । 002
'देवे नारायणे भक्तिः शङ्करे साधुपूजया । 002a
ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा ॥' 002c
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् । 003a
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥ 003c
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम् । 004a
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥ 004c
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । 005a
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥ 005c
अनभिध्या परखेषु सर्वसत्वेषु सौहृदम् । 006a
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ 006c
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः । 007a
शुभान्येवाचरल्ँलोके भक्तो नारायणस्य हि । 007c
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम् ॥' ॥ 007e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
13-35-1 लोकयात्रां लोकद्वयश्रेयःसाधनम् ॥ 13-35-3 सुभं कर्मफलं चरेदिति ध.पाठः ॥ 13-35-4 प्राणातिपातो हिंसा ॥ 13-35-5 पारुष्यं निष्ठुरभाषणम् । पैशुन्यं राजद्वारादौ परदोषसूचनम् । अनृतं मिथ्यावादः मनसाप्येवं वदिष्यामिति नानुचिन्तयेत् ॥ 13-35-6 अनभिध्येति श्लोकेन परद्रव्येष्वभिध्यानं परस्यानिष्टचिन्तनं वेदबादेषु नास्तिक्यमिति त्रीणि त्याज्यानि लक्षयेत् । त्यजेदित्युपक्रमात् ॥