अध्यायः 034
भीष्मेण युधिष्ठिरं प्रति स्त्रीपुंसयोः समायोगे स्त्रिया एव सुखाधिक्ये सवादतया भङ्गास्वनोपाख्यानकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् । 001a
एतस्मिन्संशये राजन्यथावद्वक्तुमर्हसि ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ 002c
पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः । 003a
अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥ 003c
अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः । 004a
प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते ॥ 004c
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः । 005a
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः । 005c
न चैवास्यान्तरं राजन्स ददर्श महात्मनः ॥ 005e
कस्य चित्त्वथ कालस्य मृगयां गतवान्नृपः । 006a
इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ 006c
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः । 007a
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥ 007c
इतश्चेतश्च धावन्वै श्रमतृष्णार्दितो नृप । 008a
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥ 008c
सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥ 009ac
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः । 010a
अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान् ॥ 010c
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः । 011a
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ 011c
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् । 012a
इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम् ॥ 012c
जातं महाबलानां मे तान्प्रवक्ष्यामि किन्न्वहम् । 013a
दारेषु चात्मकीयेषु पौरजानपदेषु च ॥ 013c
मृदुत्वं च तनुत्वं च पराधीनत्वमेव च ।' 014a
हासभावादि लावण्यं स्त्रीगुणाद्वा कुतूहलम् ।' 014c
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥ 014e
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ 015ac
पौरुषं विप्रनष्टं वै स्त्रीत्वं केनापि मेऽभवत् । 016a
स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे ॥ 016c
महता त्वथ खेदेन आरुह्याश्वं नराधिपः । 017a
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः । 017c
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते । 018a
किन्न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ 018c
अथोवाच स राजर्षिः स्त्रीभूतो वदतांवरः । 019a
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् । 019c
उद्भान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ 019e
अटव्यां च सुघोंरायां तृष्णार्तो नष्टचेतनः । 020a
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ 020c
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः । 021a
'अतृप्त एव पुत्राणां दाराणां च धनस्य च ॥' 021c
नामगोत्राणि चाभाव्य दाराणां मन्त्रिणां तथा । 022a
आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्थिवोत्तमः । 022c
सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ॥ 022e
स पुत्राणां शतं राजा अभिषिच्य वनं गतः । 023a
गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत ॥ 023c
तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम् । 024a
अथ साऽऽदाय तान्सर्वान्पूर्वपुत्रानभाषत ॥ 024c
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः । 025a
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ॥ 025c
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥ 026ac
तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम् । 027a
चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः । 027c
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ 027e
ततो ब्राह्मणरुपेण देवराजः शतक्रतुः । 028a
भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ 028c
भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितः सुताः । 029a
कश्यपस्य सुराश्चैव असुराश्व सुतास्तथा । 029c
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ 029e
यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः । 030a
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥ 030c
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् । 031a
तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ॥ 031c
ब्राह्मणच्छद्मनाऽभ्येत्य तामिन्द्रोऽथान्वपृच्छत । 032a
केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ॥ 032c
ब्राह्मणं तं ततो दृष्ट्वा सा स्त्री करणमब्रवीत् । 033a
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ 033c
अहं राजाऽभवं विप्र तत्र पूर्वं शतं मम । 034a
समुत्पन्नं सुरूपाणां पुत्राणां ब्राह्मणोत्तम ॥ 034c
कदाचिन्मृगयां यात उद्धान्तो गहने वने । 035a
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥ 035c
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ 036ac
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना । 037a
आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया ॥ 037c
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज । 038a
एतच्छोचाम्यहं ब्रह्मन्दैवेन समभिप्लुता ॥ 038c
इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः ॥ 039ac
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् । 040a
इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम् । 040c
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया ॥ 040e
इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः । 041a
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः । 041c
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ 041e
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ॥ 042ac
पुत्रास्ते कतमे राजञ्जीवन्त्वेतत्प्रचक्ष्व मे । 043a
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥ 043c
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः । 044a
स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव ॥ 044c
इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः । 045a
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ 045c
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् । 046a
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ 046c
स्त्र्युवाच । 047
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै । 047a
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ 047c
भीष्म उवाच । 048
एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह । 048a
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ 048c
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत । 049a
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसे ॥ 049c
स्त्र्युवाच । 050
स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव । 050a
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ॥ 050c
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो । 051a
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ॥ 051c
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा । 052a
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥ 052c
रमामि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम । 053a
स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप ॥ 053c
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः । 054a
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ ॥ 054c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥
13-34-1 स्पर्शः वैषयिकं सुखम् ॥ 13-34-4 तत्र ह्यग्निदेव स्तूयते । सच पुत्रप्रदः क्रतुः सचेन्द्रद्विष्टस्तत्रेन्द्रस्य प्राधान्याभावात् ॥ 13-34-5 यज्ञं कृतमिति शेषः ॥ 13-34-14 मृदुत्वादयः स्त्रीगुणा आगताः ॥ 13-34-15 कर्कशत्वादयः पुरुषगुणाः नष्टाः ॥ 13-34-23 प्रत्यपद्यत भर्तृत्वेन स्वीकृतवती ॥ 13-34-27 स्त्रीत्वदानेन द्विगुणितपुत्रप्राप्तिरूप उपकार एव जातो न स्त्रीत्वकृतोऽपकार इत्यर्थः ॥ 13-34-40 इन्दद्विष्टेन अग्निष्टुता यज्ञेन । धिष्ठितमधिष्ठितम् । क्रतूनिति शेषः ॥