अध्यायः 033
भीष्मेण युधिष्टिरं प्रति कृतघ्नस्य प्रायश्चित्तविषये दृष्टान्ततया वत्सनाभमुनिचरित्रकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
प्रायश्चित्तं कृतघ्नानां प्रति ब्रूहि पितामह । 001a
मातॄः पितॄन्गुरुंश्चैव येऽवमन्यन्ति मोहिताः ॥ 001c
ये चाप्यन्ते परे तात कृतघ्ना निरपत्रपाः । 002a
तेषां गतिं महाबाहो श्रोतुमिच्छामि तत्वतः ॥ 002c
भीष्म उवाच । 003
कृतघ्नानां गतिस्तात नरके शाश्वतीः समाः । 003a
मातापितृगुरूणां च ये न तिष्ठन्ति शासने । 003c
क्रिमिकीटपिपीलेषु जायन्ते स्थावरेषु च ॥ 003e
दुर्लभो हि पुनस्तेषां मानुष्ये पुनरुद्भवः । 004a
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ 004c
वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः । 005a
वल्मीकभूतो ब्रह्मर्षिस्तप्यते सुमहत्तपः ॥ 005c
तस्मिंश्च तप्यति तपो वासवो भरतर्षभ । 006a
ववर्ष समुहद्वर्षं सविद्युत्स्तनयित्नुमान् ॥ 006c
तत्र सप्ताहवर्षन्तु मुमुचे पाकशासनः । 007a
निमीलिताक्षस्तद्वर्षं प्रत्यगृह्यत वै द्विजः ॥ 007c
तस्मिन्पतति वर्षे तु शीतवातसमन्विते । 008a
विशीर्णध्वस्तशिखरो वल्मीकोऽशनिताडितः ॥ 008c
ताड्यमाने ततस्तस्मिन्वत्सनाभे महात्मनि । 009a
कारुण्यात्तस्य धर्मः स्वमानृशंस्यमथाकरोत् ॥ 009c
चिन्तयानस्य ब्रह्मर्षि तपन्तमतिधार्मिकम् । 010a
अनुरूपा मतिः क्षिप्रमुपजाता स्वभावजा ॥ 010c
स्वं रूपं माहिषं कृत्वा सुमहान्तं मनोहरम् । 011a
रक्षार्थं वत्सनाभस्य चतुष्पादुपरिस्थितः ॥ 011c
यदा त्वपगतं वर्षं वृष्टिवातसमन्वितम् । 012a
ततो महिषरुपेण धर्मो धर्मभृतांवर । 012c
शनैर्वल्मीकमुत्सृज्य प्राद्रवद्भरतर्षभ ॥ 012e
स्थितेऽस्मिन्वृष्टिसम्पाते वीक्षते स्म महातपाः । 013a
दिशश्च विपुलास्तत्र गिरीणां शिखराणि च ॥ 013c
दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् । 014a
जलाशयान्स तान्दृष्ट्वा विप्रः प्रमुदितोऽभवत् ॥ 014c
अचिन्तयद्विस्मितश्च वर्षात्केनाभिरक्षितः । 015a
ततोऽपश्यत्स महिषमवस्थितमदूरतः ॥ 015c
तिर्यग्योनावपि कथं दृश्यते धर्मवत्सलः ॥ 016ac
अतो नु भद्रमहिषः शिलापट्टमवस्थितः । 017a
पीवरश्चैव बल्यश्च बहुमांसो भवेदयम् ॥ 017c
तस्य बुद्धिरियं जाता धर्मसंसक्तजा मुनेः । 018a
कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः ॥ 018c
निष्कृतिं नैव पश्यामि कृतघ्नानां कथञ्चन । 019a
ऋते प्राणिपरित्यागाद्धर्मज्ञानां वचो यथा ॥ 019c
अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम् । 020a
कृतघ्नतां च सम्प्राप्य मरणान्ता च निष्कृतिः ॥ 020c
आकाङ्क्षायामुपेक्षायां चोपपातकमुत्तमम् । 021a
तस्मात्प्राणान्परित्यक्ष्ये प्रायश्चित्तार्थमित्युत ॥ 021c
स मेरुशिखरं गत्वा निस्सङ्गेनान्तरात्मना । 022a
प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुमुद्यतः । 022c
निगृहीतश्च धर्मात्मा हस्ते धर्मेण धर्मवित् ॥ 022e
धर्म उवाच । 023
वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष । 023a
परितुष्टोस्मि त्यागेन निस्सङ्गेन तथाऽऽत्मनः ॥ 023c
एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् । 024a
न कश्चिद्वत्सनाभस्य यस्य नोपहतं मनः ॥ 024c
यश्चानवद्यश्चरति शक्तो धर्मं च सर्वशः । 025a
निवर्तस्व महाप्राज्ञ पूतात्मा ह्यसि शाश्वतः' ॥ ॥ 025c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
13-33-17 बल्यः बलिकर्मार्हः । पीवरश्चैव वध्यश्वेति पाठान्तरम् ॥