अध्यायः 032

महीलक्ष्म्या रुक्मिणीं प्रति स्वावासस्थलनिर्देशः ॥ 1 ॥

युधिष्ठिर उवाच । 001
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ । 001a
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच । 002
अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम् । 002a
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत ॥ 002c
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् । 003a
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य ॥ 003c
कानीह भूतान्युपसेवसे त्वं सन्तिष्ठसे कानि च सेवसे त्वम् । 004a
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥ 004c
एवं तदा श्रीराभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य । 005a
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥ 005c
श्रीरुवाच । 006
वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने । 006a
अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्वे ॥ 006c
नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने । 007a
न भिन्नवृत्ते न नृशंसवृत्ते न चाविनीते न गुरुष्वसूयके ॥ 007c
ये चाल्पतेजोबलसत्त्वमानाः क्लिश्यन्ति कुप्यन्ति च यत्र तत्र । 008a
न चैव तिष्ठामि तथाविधेषु नरेषु सङ्गुप्तमनोरथेषु ॥ 008c
यश्चात्मनि प्रार्थयते न किञ्चिद्यश्च स्वभावोपहतान्तरात्मा । 009a
तेष्वल्पसन्तोषपरेषु नित्यं नरेषु नाहं निवसामि स्म्यक् ॥ 009c
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु । 010a
वृद्धसेविषु दान्तेषु सत्वज्ञेषु महात्मसु ॥ 010c
अवन्ध्यकालेषु सदा दानशौचरतेषु च । 011a
ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु च ॥ 011c
स्त्रीषु कान्तासु शान्तासु देवद्विजपरासु च । 012a
विशुद्धगृहभाण्डासु गोधान्याभिरतासु च ॥ 012c
स्वधर्मशीलेषु च धर्मवित्सु वृद्धोपसेवानिरते च दान्ते । 013a
कृतात्मनि क्षान्तिपरे समर्थे क्षान्तासु दान्तासु तथाऽबलासु । 013c
सत्यस्वभावार्जवसंयुतासु वसागि देवद्विजपूजिकासु ॥ 013e
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् । 014a
परस्य वेश्माभिरतामलज्जामेवं विधां तां परिवर्जयामि ॥ 014c
लोलामदक्षामवलेपिनीं च व्यपेतशौचां कलहप्रियां च । 015a
निद्राभिभूतां सततं शयानामेवंविधां स्त्रीं परिवर्जयामि ॥ 015c
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु । 016a
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु ॥ 016c
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु । 017a
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु ॥ 017c
गजेषु गोष्ठेषु तथाऽऽसनेषु सरःसु फुल्लोत्पलपङ्कजेषु । 018a
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु ॥ 018c
विकीर्णकूलद्रुमराजितासु तपस्विसिद्धद्विजसेवितासु । 019a
वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु ॥ 019c
मत्ते गजे गोवृषभे नरेन्द्रे सिम्हासने सत्पुरुषेषु नित्यम् ॥ 020ac
यस्मिञ्जनो हव्यभुजं जुहोति गोब्राह्मणं चार्चति देवताश्च 021a
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् ॥ 021c
स्वाध्यायनित्येषु सदा द्विजेषु क्षत्रे च धर्माभिरते सदैव । 022a
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥ 022c
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता । 023a
तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥ 023c
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् । 024a
भावेन यस्मिन्निवसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥ ॥ 024c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

13-32-2 पर्यपृच्छत श्रियमित्यपकृष्यते ॥ 13-32-4 उपसेवसे गजतुरगादिरूपेण । सन्तिष्ठसे शौर्यादिरूपेण पुरुषे वससि ॥ 13-32-5 देव्या रुक्मिण्या ॥ 13-32-6 प्रगल्भे वाग्मिनि । दक्षे अनलसे । वसामि सत्त्वे इति ट. थ. ध. पाठः ॥ 13-32-8 तेजः शौर्यं । सत्वं बुद्धिः । यत्र तत्र विशिष्टपुरुषे । सङ्गुप्तमनोरथेषु अन्यत् घ्यायन्त्यन्यद्दर्शयन्ति तादृशेषु ॥ 13-32-23 भावेन आदरेण शरीरभूता शरीरवती ॥13-32-24 नारायणादन्यत्र धर्मादिवृद्धिरूपेणैव वसामि न शरीरेणेत्यर्थः ॥ अयमध्यायः दाक्षिणात्यकोशेष्वेव दृश्यन्ते ॥ द्वात्रिंशोऽध्यायः ॥