अध्यायः 031
भीष्मेण युधिष्ठिरं प्रति शूद्रोपदेशस्यानर्थहेतुतायां दृष्टान्ततया मुनिशूद्रयोः कथाकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
मित्रसौहार्दयोगेन उपदेशं करोति यः । 001a
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ 001c
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह । 002a
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ 002c
भीष्म उवाच । 003
अत्र ते वर्तयिष्यामि शृणु राजन्यथाक्रमम् ।' 003a
'मदुक्तं वचनं राजन्यथान्यायं यथागमम् ।' 003c
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा पुरा ॥ 003e
उपदेशो न कर्तव्यो जातिहीनस्य कस्य चित् । 004a
उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥ 004c
'नाध्यापयेच्छूद्रमिह तथा नैव च याजयेत्।' 005a
निदर्शनमिदं राजञ्छृणु मे भरतर्षभ ॥ 005c
दुरुक्तवचने राजन्यथापूर्वं युधिष्ठिर । 006a
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ 006c
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । 007a
नानागुल्मलताकीर्णं मृगद्विजनिषेवितम् । 007c
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् ॥ 007e
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् । 008a
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥ 008c
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः । 009a
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ 009c
वेदाध्ययनघोषैश्च नादितं भरतर्षभ । 010a
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ 010c
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः । 011a
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ 011c
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः । 012a
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत ॥ 012c
अथास्य बुद्धिरभावत्तापस्ये भरतर्षभ । 013a
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥ 013c
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ । 014a
तस्मादभिगतं त्वं मां प्रव्राजयितुमर्हसि ॥ 014c
वर्णावरोऽहं भगवञ्छूद्रो जात्याऽस्मि सत्तम । 015a
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥ 015c
कुलपतिरुवाच । 016
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् । 016a
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ 016c
शुश्रूषया पराल्ँलोकानवाप्स्यसि न संशयः ॥ 017a
भीष्म उवाच । 017c
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप । 018a
कथमत्र मया कार्यं श्रद्धा धर्मपरा च मे ॥ 018c
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः । 019a
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः ॥ 019c
तत्र वेदीं च भूमिं च देवतायतनानि च । 020a
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः ॥ 020c
अभिषेकांश्च नियमान्देवतायतनेषु च । 021a
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ 021c
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः । 022a
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा ॥ 022c
अतिथीन्पूजयामास यथावत्समुपागतान् । 023a
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै ॥ 023c
अथास्य मुनिरागच्चत्सङ्गत्या वै तमाश्रमम् । 024a
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत् ॥ 024c
अनूकूलाः कथाः कृत्वा यथागतमपृच्छत । 025a
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः ॥ 025c
एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ । 026a
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥ 026c
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ । 027a
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥ 027c
बाढमित्येव तं विप्र उवाच भरतर्षभ । 028a
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥ 028c
अथ दर्भांश्च वन्यांश्च ओषधीर्भरतर्षभ । 029a
पवित्रमासनं चैव बृसीं च समुपानयत् ॥ 029c
अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम् । 030a
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत् ॥ 030c
कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः । 031a
स च तत्कृतवाञ्छूद्रः सर्वं यदृषिरब्रवीत् ॥ 031c
यथोपदिष्टं मेधावी दर्भार्घादि यथातथम् । 032a
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ 032c
ऋषिणा पितृकार्येषु सदा धर्मपथे स्थितः । 033a
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ 033c
अथ दीर्घस्य कालस्य स तप्यञ्छूद्रतापसः । 034a
वने पञ्चत्वमगमत्सुकृतेन च तेन वै । 034c
अजायत महाराज वंशे स च महाद्युतिः ॥ 034e
तथैव स ऋषिस्तात कालधर्ममवाप ह । 035a
पुरोहितकुले विप्रः स जातोऽस्य वशानुगः ॥ 035c
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा । 036a
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ 036c
अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः । 037a
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः । 037c
साङ्ख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत ॥ 037e
पितर्युपरते चापि कृतशौचस्तु पार्थिवः । 038a
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥ 038c
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ 039ac
स तं पुरोधाय सुखमवसद्भरतर्षभः । 040a
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ 040c
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । 041a
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् । 041c
एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥ 041e
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् । 042a
उत्स्मयन्तं च सततं दृष्ट्वा तं मन्युमानभूत् ॥ 042c
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः । 043a
कथाभिरनुकूलाभी राजानं चाभ्योरचयत् ॥ 043c
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ । 044a
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ 044c
राजोवाच । 045
वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम । 045a
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ 045c
पुरोहित उवाच । 046
एकं वै वरमिच्छामि यदि तुष्टिसि पार्थिव । 046a
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम् ॥ 046c
भीष्म उवाचि । 047
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर । 047a
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ 047c
पुरोहित उवाच । 048
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् । 048a
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य मां ॥ 048c
सव्रीडं वै भवति हि मनो मे हसता त्वया । 049a
कामया शापितो राजन्नान्यथावक्तुमर्हसि ॥ 049c
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् । 050a
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ 050c
राजोवाच । 051
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि । 051a
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ 051c
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम । 052a
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥ 052c
शुद्रोऽहमभवं पूर्वं तपसे कृतनिश्चयः । 053a
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम ॥ 053c
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना । 054a
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥ 054c
वृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम । 055a
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥ 055c
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् । 056a
मत्कृतस्योपदेशस्य त्वयाऽवाप्तमिदं फलम् ॥ 056c
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम । 057a
न त्वां परिभवन्ब्रह्मनप्रहसामि गुरुर्भवान् ॥ 057c
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः । 058a
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ 058c
एवं तवोग्रं हि तप उपदेशेन नाशितम् । 059a
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥ 059c
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज । 060a
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ 060c
भीष्म उवाच । 061
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः । 061a
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ 061c
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः । 062a
तीर्थानि चापि गत्वा वै दानानि विविधानि च ॥ 062c
दत्त्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान् । 063a
तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥ 063c
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम । 064a
सम्मतस्चाभवत्तेषामाश्रमे तन्निवासिनाम् ॥ 064c
एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम । 065a
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ 065c
'वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप । 066a
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥ 066c
नेषितव्यं सदा वाचा द्विजेन नृपसत्तम । 067a
न च प्रवक्तव्यमिह किञ्चिद्वर्णावरे नरे ॥' 067c
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । 068a
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥ 068c
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः । 069a
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ 069c
तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः । 070a
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन ॥ 070c
धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः । 071a
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम् ॥ 071c
उपदेशो न कर्तव्यो ह्यज्ञात्वा यस्यकस्य चित् । 072a
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥ 072c
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता । 073a
सत्यानृतेन हि कृत उपदेशो हिनस्ति हि ॥ 073c
वक्तव्यमिह पृष्टेन विनिश्चयविपर्ययम् । 074a
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥ 074c
एतत्ते सर्वमाख्यातमुपदेशकृते मया । 075a
महान्क्लेशो हि भवति तस्मान्नोपदिशेदिह ॥ ॥ 075c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
13-31-1 मित्रमुपकारमपेक्ष्योपकर्ता । सुहृदुपकारमनपेक्ष्योपकर्ता । लोभात् कृपया वेत्यर्थः ॥ 13-31-4 उपाध्यायस्योपदेशकर्तुः ॥ 13-31-6 दुरुक्तं दुःखस्थं नीचं प्रति उक्तं वचनम् ॥ 13-31-8 व्रतिभिर्ब्रह्मचारिभिः । तापसैर्वानप्रस्थैः ॥ 13-31-10 यतिभिः सन्न्यासिभिः ॥ 13-31-11 दयान्वितः सर्वभूताभयदानेन प्रव्रज्यां कृतवानित्यर्थः ॥ 13-31-12 दीक्षां नियमम् ॥ 13-31-13 तापस्ये तपस्वित्वे ॥ 13-31-14 प्रव्रजायितुं विधिवत् स्वोचितं कर्म त्याजयितुम् ॥ 13-31-16 लिङ्गं सन्न्यासिचिह्नम् ॥ 13-31-19 आत्मनः प्रियं विक्षेपकस्य शुश्रूषाख्यस्य स्वधर्मस्य त्यागम् । लिङ्गधारणानधिकारेऽपि त्यागमात्रे सर्वस्याधिकारात् । उटजं पर्णशालाम् ॥ 13-31-20 वेदीं पूजार्थम् । भूमिं शयनाद्यर्थम् ॥ 13-31-21 अभिषेकान् त्रिसन्ध्यं स्रानानि ॥ 13-31-22 सङ्कल्पस्य नियमो निग्रहः । चित्तवृत्तिनिरोध इति यावत् । तेन उपेतः ॥ 13-31-30 बृसीं चरमशैर्षिकीं आसनकूर्चं पश्चिमाग्रम् ॥ 13-31-37 वेदे ऋग्वेदादित्रये । कल्पप्रयोगे सूत्रोक्तयज्ञप्रयोगे ॥ 13-31-56 मत्कृतस्य मह्यं कृतस्य ॥ 13-31-58 विपर्ययेण वैपरीत्येन मन्युर्दैन्यम् ॥ 13-31-59 भवे भवनिमित्तम् ॥ 13-31-63 सत्यानृतेन वाणिज्येन धनलोभेनेत्यर्थः ॥