अध्यायः 030
भीष्मेण युधिष्ठिरं प्रति ब्राह्मणाय प्रतिश्रुतार्थाप्रदानस्यानर्थहेतुतायां दृष्टान्ततया सृगालवानरसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह । 001a
न प्रयच्छन्ति लोभात्ते के भवन्ति महामते ॥ 001c
एतन्मे तत्वतो ब्रूहि धर्मे धर्मभृतांवर । 002a
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥ 002c
भीष्म उवाच । 003
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु । 003a
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ 003c
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति । 004a
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ॥ 004c
यच्च तस्य हुतं किञ्चिद्दत्तं वा भरतर्षभ । 005a
तपस्तप्तमथो वाऽपि सर्वं तस्योपहन्यते ॥ 005c
अथैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः । 006a
निशास्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ 006c
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः । 007a
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥ 007c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 008a
सृगालस्य च संवादं वानरस्य च भारत ॥ 008c
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप । 009a
अन्यां योनिं समापन्नौ सृगालीं वानरीं तथा । 009c
सम्भाषणात्ततः सख्यं तत्रतत्र परस्परम् ॥ 009e
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् । 010a
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ 010c
किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम् । 011a
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ 011c
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा । 012a
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम् ॥ 012c
तत्कृते पापिकां योनिमापन्नोस्मि प्लवङ्गम । 013a
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ 013c
भीष्म उवाच । 014
सृगालो वानरं प्राह पुनरेव नरोत्तम । 014a
किं त्वया पातकं कर्म कृतं येनासि वानरः ॥ 014c
वानर उवाच । 015
स चाप्याह फलाहारो ब्राह्मणानां प्लवङ्गमः । 015a
तस्मान्न ब्राह्मणस्वं तु हर्त्तव्यं विदुषा सदा । 015c
सीमाविवादे मोक्तव्यं दातव्यं च प्रतिश्रुतम् ॥ 015e
भीष्म उवाच । 016
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् । 016a
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ 016c
श्रुतं चापि मया भूयः कृष्णस्यापि विशाम्पते । 017a
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ 017c
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः । 018a
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि ॥ 018c
एवमेव च मां नित्यं ब्राह्मणाः सन्दिशन्ति वै । 019a
प्रतिश्रुतं भवेद्देयं नाशा कार्या द्विजोत्तमे ॥ 019c
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते । 020a
सुसमिद्धो यता दीप्तः पावकस्तद्विधः स्मृतः ॥ 020c
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया । 021a
प्रदहेच्च हितं राजन्कक्षमक्षय्यभुग्यथा ॥ 021c
स एव हि यदा तुष्टो वचसा प्रतिनन्दति । 022a
भवत्यगदसङ्काशो विषये तस्य भारत ॥ 022c
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा । 023a
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत् ॥ 023c
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते । 024a
सहस्रकिरणस्येव सवितुर्धरणीतले ॥ 024c
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर । 025a
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥ 025c
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः । 026a
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया ॥ 026c
इतो दत्तेन जीवन्ति देवताः पितरस्था । 027a
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥ 027c
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते । 028a
वेलायां न तु कस्यां चिद्गच्छेद्विप्रो ह्यपूजितः ॥ ॥ 028c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥
13-30-6 निशाम्य विचार्य ॥ 13-30-10 ततः पुरा सखायं तं सृगालमिति थ.ध.पाठः ॥ 13-30-16 ब्रुवतोऽध्यापकस्य कथां कथयतो मुखात् श्रुतम् ॥ 13-30-17 कृष्णस्य व्यासस्य । नृगकथां कथयतो वासुदेवस्य वा मुखात् ॥ 13-30-19 आशा वन्ध्याशा ॥ 13-30-21 अक्षय्यं पित्रर्थमुद्दिष्टं दानं भुङ्क्ते इत्यक्षय्यभुगग्निः ॥13-30-22 अगदसङ्काशः चिकित्सकतुल्यः ॥ 13-30-23 शान्तिरिष्टेन शान्त्याहितेन क्षेमेण ॥