अध्यायः 029

गरुडेन कद्रूं प्रत्यमृतानयनकथनम् ॥ 1 ॥ कद्र्वा विनताया दास्यान्मोचनम् ॥ 2 ॥ गरुडेन पुनरिन्द्रायामृतप्रत्यर्पणम् ॥ 3 ॥

भीष्म उवाच । 001
ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् । 001a
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत् ॥ 001c
न ते सुपर्ण पश्यामि प्रभावं तेन योधये । 002a
इत्युक्ते न मया रक्षा शक्या कर्तुमतोऽन्यथा । 002c
इदं वज्रं मया सार्धं निवृत्तं हि यथागतम् ॥ 002e
ततः सहस्रनयने निवृत्ते गरुडस्तथा । 003a
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः ॥ 003c
गरुड उवाच । 004
तदाहृतं मया शीघ्रममृतं जननीकृते । 004a
अदासी सा भवत्वद्य विनता धर्मचारिणी ॥ 004c
कद्रूरुवाच । 005
स्वागतं स्वाहृतं चेदममृतं विनतात्मज । 005a
अदासी जननी तेऽद्य पुत्र कामवशा शुभा । 005c
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम् ॥ 005e
उपनीय यथान्यायं विहगो बलिनांवरः । 006a
स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च ॥ 006c
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः । 007a
बभूवुरसितप्रख्या निकृत्या वै जितं त्वया ॥ 007c
तामुवाच ततो न्याय्यं विहगो बलिनांवरः । 008a
उज्जहारामृतं तूर्णमुत्पपात च रंहसा ॥ 008c
तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम् । 009a
कद्रूर्भुजङ्गजननी सुपर्णमिदमब्रवीत् ॥ 009c
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम् । 010a
पुनर्हरति दुर्बुद्धे मा जातु वृजिनं कृथाः ॥ 010c
सुपर्णि उवाच । 011
अमृताहरणं मेऽद्य यत्कृतं जननीकृते । 011a
भवत्या वचनादेतदाहरामृतमित्युत ॥ 011c
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम । 012a
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम् ॥ 012c
यदि मां भवती ब्रूयादमृतं मे च दीयताम् । 013a
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा । 013c
मया धर्मेण सत्येन विनता च समुद्धृता ॥ 013e
भीष्म उवाच । 014
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह । 014a
इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम् । 014c
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम् ॥ 014e
माता च मम देवेश दासीत्वमुपजग्मुषी । 015a
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात् ॥ 015c
एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते । 016a
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः ॥ 016c
ऋषयो ये सहस्राक्षमुपासन्ति सुरैः सह । 017a
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च ॥ 017c
ततस्तमृषयः सर्वे देवाश्च भरतर्षभ । 018a
ऊचुः पुरन्दरं हृष्टा गरुडो लभतां वरम् ॥ 018c
ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव । 019a
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट् ॥ 019c
केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि । 020a
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः ॥ 020c
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट् । 021a
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते ॥ 021c
तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम् । 022a
सुपर्णस्य महाबाहो किं भूयः कथयामि ते ॥ 022c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 29 ॥

13-29-1 जितं त्वयेति तां कद्रूमुवाचेत्युत्तरेण सम्बन्धः ॥