अध्यायः 028
गरुडेन नवनीतप्रक्षेपेण मन्दीभूताग्न्युल्लङ्घनपूर्वकममृतरक्षिणां पक्षप्रहारेण निराकरणम् ॥ 1 ॥ तथाऽमृतमाहृत्य विमति समुत्पतनम् ॥ 2 ॥ तथा स्वस्योपरि इन्द्रेण वज्रे विसृष्टे तत्सन्माननायैकतनूरुहविस्रंसनम् ॥ 3 ॥
भीष्म उवाच । 001
पितामहवचः श्रुत्वा गरुडः पततांवरः । 001a
जगाम गोकुलं किञ्चिन्नवनीतजिहीर्षया ॥ 001c
नवनीतं तथाऽपश्यन्मथितं कलशे स्थितम् । 002a
तदादाय ततोऽगच्छद्यतस्तद्रक्ष्यतेऽमृतम् ॥ 002c
स तत्र गत्वा पतगस्तिर्यक्तोयं महाबलः । 003a
हुताशनमपक्रम्य नवनीतमपातयत् ॥ 003c
सोऽर्चिष्मान्मन्दवेगोऽभूत्सर्पिषा तेन तर्पितः । 004a
धूमकेतुर्न जज्वाल धूममेव ससर्ज ह ॥ 004c
तमतीत्याशु गरुडो हृष्टात्मा जातवेदसम् । 005a
रक्षांसि समतिक्रामत्पक्षवातेन पातयन् ॥ 005c
ते पतन्ति शिरोभिश्च जानुभिश्चरणैस्तथा । 006a
उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः ॥ 006c
उत्प्लुत्य चावृतान्नागान्हत्वा चक्रं व्यतीत्य च । 007a
अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् ॥ 007c
स भित्त्वा शिरसा जालं वज्रवेगसमो बली । 008a
उज्जहार ततः शीघ्रममृतं भुजगाशनः ॥ 008c
तदादायाद्रवच्छीघ्रं गरुडः श्वसनो यथा । 009a
अथ सन्नाहमकरोद्वृत्रहा विबुधैः सह ॥ 009c
ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः । 010a
आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् ॥ 010c
सोऽभ्यद्रवत्पक्षिराजं वृत्रहा पाकशासनः । 011a
उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः ॥ 011c
तथैव गरुडो राजन्वज्रहस्तं समाद्रवत् । 012a
ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः ॥ 012c
अथ दिव्यं महाघोरं गरुडाय ससर्ज ह । 013a
वज्रं सहस्रनयनस्तिग्मवेगपराक्रमः ॥ 013c
उत्सिसृक्षन्तमाज्ञाय वज्रं वै त्रिदशेश्वरम् । 014a
तूर्णं वेगपरो भूत्वा जगाम पततांवरः ॥ 014c
पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः । 015a
आयुधानां वरं वज्रमथ शक्रमुवाच ह ॥ 015c
वृत्रहन्नेष वज्रस्ते वरो लब्धः पितामहात् । 016a
अतः सम्मानमाकाङ्क्षन्मुञ्चाम्येकं तनूरुहम् ॥ 016c
एतेनायुधराजेन यदि शक्तोसि वृत्रहन् । 017a
हन्यास्त्वं परया शक्तया गच्छाम्यहमनामयः ॥ 017c
तत्तु तूर्णं तदा वज्रं स्वेन वेगेन भारत । 018a
जघान परया शक्त्या न चैनमदहद्भृशम् ॥ 018c
ततो देवर्षयो राजन्गच्छन्तो वै विहायसा । 019a
दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णेऽब्रुवन्वचः ॥ 019c
सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् । 020a
विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् ॥ 020c
एवं सुपर्णो विहगो वैनतेयः प्रतापवान् । 021a
ऋषयस्तं विजानन्ति चाग्नेयं वैष्णवं पुनः ॥ 021c
वेदाभिष्टुतमत्यर्थं स्वर्गमार्गफलप्रदम् । 022a
तनुपर्णं सुपर्णस्य जगृहुर्बर्हिणस्तथा ॥ 022c
मयूरा विस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् ॥ 023ac
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥