अध्यायः 027

गरुडेन शैलाग्रे उपविश्य गजकच्छपयोर्भक्षणम् ॥ 1 ॥ ततः स्वर्गेऽमृतसमीपं गतेन तेन तत्र परितो ज्वलदग्निदर्शनभयाद्ब्राह्मणं प्रति तच्छमनोपायप्रश्नः ॥ 2 ॥ ब्रह्मणा तम्प्रति नवनीतप्रक्षेपेणाग्निसंशामनचेदना ॥ 3 ॥

भीष्म उवाच । 001
हृत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती । 001a
उपोपविश्य शैलाग्रे भक्षयामास तावुभौ । 001c
वारणं कच्छपं चैव संहृष्टः स पतत्रिराट् ॥ 001e
तयोः स रुधिरं पीत्वा मेदसी च परन्तप । 002a
संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम् । 002c
जगाम देवराजस्य भवनं पन्नगाशनः ॥ 002e
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् । 003a
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह ॥ 003c
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत् । 004a
न तु तोयान्न रक्षिभ्यो भयमस्योपपद्यते ॥ 004c
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् । 005a
पितामहमथो गत्वा ददर्श भुजगाशनः ॥ 005c
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः । 006a
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः ॥ 006c
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम् । 007a
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम् ॥ 007c
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर । 008a
तदा मे जननी देव दासभावात्प्रमोक्ष्यते ॥ 008c
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति । 009a
हिरण्यरेता भगवान्पाकशासनशासनात् ॥ 009c
तत्र मे देवदेवेश भयं तीव्रमथाविशत् । 010a
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो ॥ 010c
समतिक्रमितुं शक्यः कथं स्यात्पावको मया । 011a
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो ॥ 011c
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम् । 012a
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः ॥ 012c
पयसा शाम्यते वत्स सर्पिषा च हुताशनः । 013a
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि ॥ 013c
नवनीतं पयो वाऽपि पावके त्वं समादधेः । 014a
ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः ॥' ॥ 014c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

13-27-7 जानीहीति शेषः ॥