अध्यायः 026
गरुढेन गजकच्छपावासमेत्य चरणाभ्यां तयोर्ग्रहणम् ॥ 1 ॥ तथा तयोर्भक्षणाय नैमिषारण्यस्थमहातरुशाखायां वेगान्निपतनम् ॥ 2 ॥ तथा स्वनिपतनमात्रेण भज्यमानशाखाया अधोभागे लम्बमानमुनिगणावलोकनात्तुण्डेन तच्छाखाग्रहणपूर्वकं पुनरुत्पतनम् ॥ 3 ॥ तथा देवदूतवचनात्समुद्रान्ते शाखाविसर्जनेन तन्निवासिनां कुविन्दानां हननम् ॥ 4 ॥
गरुड उवाच । 001
कथं तौ भगवञ्छक्यौ मया वारणकच्छपौ ॥ 001a
युगपद्गृहीतुं तं मे त्वमुपायं वक्तुमर्हसि ॥ 001c
कश्यय उवाच । 002
योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः । 002a
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः ॥ 002c
जलजं निर्गतं तात प्रमत्तं चैव वारणम् । 003a
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते ॥ 003c
भीष्म उवाच । 004
इत्येवमुक्तो विहगस्तद्गत्वा वनमुत्तमम् । 004a
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् ॥ 004c
तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारत । 005a
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः ॥ 005c
बिभक्षयिषतो राजन्दारुणस्य महात्मनः ॥ 006a
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत् ॥ 006c
अथ वेगेन महता खेचरः स महाबलः । 007a
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत ॥ 007c
तथा गत्वा तमध्वानं वारणप्रवरो बली । 008a
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च ॥ 008c
तस्य निश्वासवातेन मदगन्धेन चैव ह । 009a
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः ॥ 009c
तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः । 010a
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्रादयोरिव ॥ 010c
स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम् । 011a
दन्तैर्नस्तैश्च जलजो वारयामास भारत ॥ 011c
जलजं वारणोऽप्येवं चरणैः पुष्करेण च । 012a
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च ॥ 012c
मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम् । 013a
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः ॥ 013c
स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत । 014a
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः ॥ 014c
तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात् । 015a
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम् ॥ 015c
तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम् । 016a
उभावेव समस्तौ तु जग्राह विनतासुतः ॥ 016c
चरणेन तु सव्येन जग्राह स गजोत्तमम् । 017a
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम् ॥ 017c
उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः । 018a
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः ॥ 018c
तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम् । 019a
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः ॥ 019c
तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ । 020a
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह ॥ 020c
अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते । 021a
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम् ॥ 021c
नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः । 022a
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम् ॥ 022c
हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम् । 023a
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः ॥ 023c
तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम् । 024a
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता ॥ 024c
तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ । 025a
अत्तुकामस्ततः शाखा तस्य वेगादवापतत् ॥ 025c
तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः । 026a
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते ॥ 026c
वैखानसान्नाम यतीन्वालखिल्यगणानपि । 027a
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत ॥ 027c
तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह । 028a
तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः । 028c
तौ च पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत् ॥ 028e
तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम् । 029a
ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह । 029c
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः ॥ 029e
असौ यच्छति धर्मात्मा गुरुभारसमन्वितः । 030a
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः ॥ 030c
एवं ते समयं सर्वे वसवश्च दिवौकसः । 031a
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह ॥ 031c
स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः । 032a
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत ॥ 032c
स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः । 033a
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च ॥ 033c
वैनतेय कुविन्देषु समुद्रान्ते महाबल । 034a
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः ॥ 034c
तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः । 035a
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः ॥ 035c
ततो गत्वा ततः शाखां मुमोच पततांवरः । 036a
तया हता जनपदास्तदा षड्विंशतो नृप ॥ 036c
स देशो राजशार्दूल ख्यातः परमदारुणः । 037a
शाखापतग इत्येव कुविन्दानां महात्मनाम् ॥' ॥ 037c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥
13-26-36 तुण्डेन शाखां गृहीत्वा कश्यपसमीपं गते गरुडे शाखाया अधोभागलम्बिनामृषीणां कश्यपप्रार्थनया शाखाविसर्जनेन हिमवद्गिरिगमनमादिपर्वोक्तमत्रानुसन्धेयम् ॥