अध्यायः 025

कद्र्वाऽमृताहरणं चोदितेन गरुडेन स्वपितरि कश्यपे तन्निवेदनम् ॥ 1 ॥ तेन तस्य दुष्करत्वकथने गरुडेन स्वेन तस्य सुकरत्वोक्तिः ॥ 2 ॥ कश्यपेन गरुडं प्रति गजकच्छपवृत्तान्तकथनपूर्वकं तयोर्भक्षणाद्बलाप्यायनसम्पादनेनामृताहरणचोदना ॥ 3 ॥

भीष्म उवाच । 001
तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः । 001a
अमृताहरणे वाचं ततः पितरमब्रवीत् ॥ 001c
कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः । 002a
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते ॥ 002c
सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै । 003a
भगवन्विनता दासी मम माता महाद्युते ॥ 003c
कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत् । 004a
आहरामृतमित्येव मोक्ष्यते विनता ततः ॥ 004c
सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन् । 005a
अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै ॥ 005c
पितोवाच । 006
अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया । 006a
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे ॥ 006c
गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम् । 007a
अनन्तरमथो गुप्तं ज्वलता जातवेदसा ॥ 007c
ततः शतसहस्राणि अयुतान्यर्बुदानि च । 008a
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः ॥ 008c
तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा । 009a
आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा ॥ 009c
ततो जालेन महता अवनद्धं समन्ततः । 010a
अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् ॥ 010c
तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम् । 011a
सुरक्षितं वज्रभृतां वैनतेय विहङ्गम । 011c
इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः ॥ 011e
गरुड उवाच । 012
पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम् । 012a
बलवानुपायवानस्मि भूयः किं करवाणि ते ॥ 012c
तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः । 013a
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ ॥ 013c
तथा बलममेयं ते भविता तन्न संशयः । 014a
अमृतस्यैव चाहर्ता भविष्यसि न संशयः ॥ 014c
गरुड उवाच । 015
क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ । 015a
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति ॥ 015c
कश्यप उवाच । 016
पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेव तिष्ठति । 016a
उरगो नाम दुष्प्रापः पुरा देवगणैरपि ॥ 016c
गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान् । 017a
तत्र पन्थाः कृतस्तात कुञ्जरेण बलीयसा ॥ 017c
गोरुतान्युच्छ्रयस्तस्य नव सप्त च पुत्रक । 018a
गच्छताऽगच्छता चैव क्षपितः स महागिरिः ॥ 018c
तावान्भूमिसमस्तात कृतः पन्थाः समुत्थितः । 019a
तेन गत्वा स मातङ्गः पिपासुर्युद्धमिच्छति ॥ 019c
तमतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः । 020a
कनकेति च विख्यातस्तत्र कूर्मो महाबलः ॥ 020c
गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश्च सः । 021a
आयामतश्चापि समौ तेजोबलसमन्वितौ ॥ 021c
पुनरावृत्तिमापन्नौ तावेतौ मधुकैटभौ । 022a
जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ ॥ 022c
यदा स नागो व्रजति पिपासुस्तं जलाशयम् । 023a
तदैनं कच्छपो रोषात्प्रतियाति महाबलः ॥ 023c
नखैश्च दशनैश्चापि निमज्योन्मज्य वाऽसकृत् । 024a
विददाराग्रहस्तेन कुञ्जरं तं जलेचरः ॥ 024c
नागराडपि तोयार्थी पिपासुश्चरणैरपि । 025a
अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम् ॥ 025c
स तु तोयादनुत्तिष्ठन्वारिजो गजयूथपम् । 026a
नखैश्च दशनैश्चैव द्विरदं प्रतिषेधति ॥ 026c
निवारितो गजश्रेष्ठः पुनर्गच्छति स्वं वनम् । 027a
पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः ॥ 027c
तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय । 028a
न तौ पृथक्तया शक्यावप्रमत्तौ बले स्थितौ' ॥ ॥ 028c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

13-25-17 गोरुतानि गव्यूतीः ॥