अध्यायः 023

कद्र्वा स्ववचनतिरस्कारिणः कांश्चन पुत्रान्प्रति जनमेजयसर्पसत्रे निधनरूपशापदानम् ॥ 1 ॥ कैश्चन सर्पैरुच्चैरश्रवसो वाले स्वाङ्गवेष्टनेन नैल्यसम्पादनम् ॥ 2 ॥ ततः कद्रूचोदनया हयवाले नैल्यदर्शिन्या विनतया तद्दास्याङ्गीकरणम् ॥ 3 ॥

भीष्य उवाच । 001
श्रुत्वा तु वचनं मातुः क्रुद्धायास्ते भुजङ्गमाः । 001a
कृच्छ्रेणैवान्वमोदन्त केचिद्धित्वा दिशो गताः ॥ 001c
ये प्रतस्थुर्दिशस्तत्र क्रुद्धा तानशपद्भृशम् । 002a
भुजङ्गमानां माताऽसौ कद्रूर्वैरकरी तदा ॥ 002c
उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः । 003a
चतुर्थो धन्विनां श्रेष्ठात्कुन्तीपुत्राद्धनञ्जयात् ॥ 003c
स सर्पसत्रमाहर्ता क्रुद्धः कुरुकुलोद्वहः । 004a
तस्मिन्सत्रेऽग्निना युष्मान्पञ्चत्वमुपनेष्यति ॥ 004c
एवं क्रुद्धाऽशपन्माता पन्नगान्धर्मचारिणः । 005a
गुरोः परित्यागकृतं नैतदन्यद्भविष्यति ॥ 005c
एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः । 006a
विहाय मातरं क्रुद्धा गता वैरकरीं तदा ॥ 006c
तत्र ये वृजिनं तस्या अनापन्ना भुजङ्गमाः । 007a
ते तस्य वाजिनो वाला बभूवुरसितप्रभाः ॥ 007c
तान्दृष्ट्वा वालधिस्थांश्च पुत्रान्कद्रूरथाब्रवीत् । 008a
विनतामथ संहृष्टा हयोसौ दृश्यतामिति ॥ 008c
एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः । 009a
उदकादुत्तरन्तं तं हयं चैव च भामिनि ॥ 009c
सा त्ववक्रमतिर्देवी विनता जिह्मगामिनीम् । 010a
अब्रवीद्भगिनीं किञ्चिद्विहसन्तीव भारत ॥ 010c
हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे । 011a
दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि ॥ 011c
एवं स्थिरं पणं कृत्वा हयं ते तं ददर्शतुः । 012a
कृत्वा साक्षिणमात्मानं भगिन्यौ कुरुसत्तम ॥ 012c
सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता । 013a
श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् ॥ 013c
तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका । 014a
उवाच कालवालोऽयं तुरगो विजितं त्वया ॥ 014c
दासी मां प्रेषय स्वार्थे यथा कामवशां शुभे । 015a
दास्यश्च कामकारा हि भर्तृणां नात्र संशयः' ॥ ॥ 015c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥ 0

13-23-9 हयमुद्दिश्य नौ पणः सुव्यवस्थित इति शेषेणान्वयः ॥