अध्यायः 022
कद्र्वा स्वपुत्रान्प्रति विनतया सह स्वस्य पणबन्धननिवेदनपूर्वकमुच्चैरश्रवसो वाले स्वाङ्गवेष्टनेन नैल्यसम्पादनचोदना ॥ 1 ॥
भीष्म उवाच । 001
विनता तु तथेत्युक्त्वा कृतसंशयना पणे । 001a
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह ॥ 001c
मया कृतः पणः पुत्रा मिथो विनतया सह । 002a
उच्चैश्श्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः ॥ 002c
अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत् । 003a
जिता दासी भवेत्पुत्राः सा वाऽहं वा न संशयः ॥ 003c
एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः । 004a
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः ॥ 004c
ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः । 005a
सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः ॥ 005c
सर्पा ऊचुः । 006
निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु । 006a
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते ॥ 006c
सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव । 007a
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चन ॥ 007c
यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित् । 008a
त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम् ॥ 008c
सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः । 009a
कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता ॥ 009c
ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश । 010a
यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम् ॥ 010c
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । 011a
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ 011c
कद्रूरुवाच । 012
शृणोमि विविधा वाचो हेतुमत्यः समीरिताः । 012a
वक्रमार्गनिवृत्त्यर्थं तदहं वो न रोचये ॥ 012c
न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्यथा । 013a
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः ॥ 013c
श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः । 014a
शैलूषिणी भविष्यामि विनताया न संशयः ॥ 014c
इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः । 015a
सेयमीहा विपन्ना मे युष्मानासाद्य सङ्गताम् ॥ 015c
इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन् । 016a
नात्र चित्रं भवेत्किञ्चित्पुनातीति च पुत्रकः ॥ 016c
ते यूयं तारणार्थाय मम पुत्रा मनोजवाः । 017a
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः ॥ 017c
जानाम्यधर्मं सकलं विजिता विनता भवेत् । 018a
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत् ॥ 018c
निकृत्या विजयो वेति दासत्वं वा पराभवे । 019a
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः ॥ 019c
यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः । 020a
गुरोर्वचनमास्थाय धर्मो वा सम्भविष्यति' ॥ ॥ 020c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥