अध्यायः 021

वर्षसहस्रान्ते परिणतादण्डाद्विनिर्गतेन गरुडेन मातृपार्श्वं विहाय चिराद्देशान्तरेष्वेव सञ्चरणम् ॥ 1 ॥ कदाचनं कद्रूविनताभ्यां समुद्रान्ते उच्चैरश्रवसो हयस्य दर्शनम् ॥ 2 ॥ कद्र्वा हयस्य वर्णं पृष्टया विनतया सर्वाङ्गश्वेतत्वकथनम् । 'कद्र्वा तु नीलवालत्वकथनम् ॥ 3 ॥ तथा विवदमानाभ्यां ताभ्यां स्वोक्तव्यत्यासे अन्यतरयाऽन्यतरस्या दास्यवहनरूपपणबन्धनम् ॥ 4 ॥

भीष्म उवाच । 001
विनता पुत्रशोकार्ता शापाद्भीता च भारत । 001a
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत् ॥ 001c
ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे । 002a
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली ॥ 002c
बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् । 003a
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः ॥ 003c
यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ । 004a
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि ॥ 004c
पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति । 005a
अरुणोऽरुणसङ्काशो नाम्ना चैवारुणः स्मृतः ॥ 005c
जातमात्रस्तु विहगो गरुडः पन्नगाशनः । 006a
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः ॥ 006c
स तदा ववृधेऽतीव सर्वकामैः सदाऽर्चितः । 007a
पितामहविसृष्टेन भोजनेन विशाम्पते ॥ 007c
तस्मिंश्च विहगे तत्र यथाकामं विवर्धति । 008a
कद्रूश्च विनता चैवागच्छतां सागरं प्रति ॥ 008c
ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात् । 009a
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् ॥ 009c
ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत् । 010a
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे ॥ 010c
विनतोवाच । 011
एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम । 011a
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि ॥ 011c
कद्रूरुवाच । 012
सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः । 012a
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि ॥ 012c
विनतोवाच । 013
यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति । 013a
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया ॥ 013c
कद्रूरुवाच । 014
जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे । 014a
नैकवर्णैकवर्णत्वे विनते रोचते च ते ॥ 014c
रोचते मे पणे राज्ञि दासीत्वेन न संशयः । 015a
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम्' ॥ ॥ 015c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशोऽध्यायः ॥ 21 ॥