अध्यायः 020
कश्यपेन स्वभार्ययोः कद्रूविनतयोः क्रमेण पुत्रसहस्रतद्द्वयलाभरूपवरदानम् ॥ 1 ॥ कद्र्वा अण्डसहस्रात्सर्पसहस्रविनिर्गमे उत्कण्ठितया विनतया स्वीयाण्डद्वये एकतराण्डविभेदनम् ॥ 2 ॥ अकालेऽण्डभेदनादसमग्राङ्गतया जातेनारूपेण विनतायै दास्यप्राप्तिरूपशापदानम् ॥ 3 ॥
'भीष्म उवाच । 001
युधिष्ठिर महाबाहो शृणु राजन्यथा तथम् । 001
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् ॥ 001c
तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत् । 002a
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु ॥ 002c
पुराऽहं तात रामेणि जामदग्न्येन धीमता । 003a
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः ॥ 003c
तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः । 004a
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् ॥ 004c
तमहं कथान्ते वरदं सुपर्णस्य बलौजसी । 005a
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर ॥ 005c
कद्रूश्च विनता चास्तां प्रजापतिसुते उभे । 006a
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः ॥ 006c
प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः ॥ 007ac
तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम् । 008a
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् ॥ 008c
विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम । 009a
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ ॥ 009c
स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः । 010a
जनयामास तान्पुत्रांस्ताभ्यामासीद्यथा पुरा ॥ 010c
कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम् । 011a
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे ॥ 011c
तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः । 012a
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः ॥ 012c
निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः । 013a
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः ॥ 013c
विनता तेषु जातेषु पन्नगेषु महात्मसु । 014a
विपुत्रा पुत्रसनतापाद्दण्डमेकं बिभेद ह ॥ 014c
किमनेन करिष्येऽहमिति वाक्यमभाषत । 015a
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा ॥ 015c
सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम् । 016a
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह ॥ 016c
दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम् । 017a
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः ॥ 017c
अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा । 018a
मातरं च पलाशी ह हतोऽहमिति चासकृत् ॥ 018c
न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा । 019a
आवां भवाव पुत्रौ ते श्वसनाद्बलवत्तरौ ॥ 019c
ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया । 020a
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि ॥ 020c
पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह । 021a
दासी तस्या भवित्रीति साश्रुपातमुवाच ह ॥ 021c
एष चैव महाभागे बली बलवतांवरः । 022a
मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः ॥' ॥ 022c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशोऽध्यायः ॥ 20 ॥
13-20-3 रामेण सङ्गत इति शेषः ॥