अध्यायः 019

श्रीकृष्णेन भीष्मं प्रति युधिष्ठिराय गरुडोपाख्यानकथनचोदना ॥ 1 ॥

'युधिष्ठिर उवाच । kk-13-01-019-001
गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह । kk-13-01-019-001a
उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता ॥ kk-13-01-019-001c
अत्र कौतूहल इति श्रवणे जायते मतिः । kk-13-01-019-002a
कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्राप परन्तप ॥ kk-13-01-019-002c
सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम् । kk-13-01-019-003a
किं वीर्यः किम्बलश्चासौ वक्तुमर्हसि भारत ॥ kk-13-01-019-003c
भीष्म उवाच । kk-13-01-019-004
वासुदेव महाबाहो देवकी सुप्रजास्त्वया । kk-13-01-019-004a
श्रुतं ते धर्मराजस्य मम हर्षविवर्धन ॥ kk-13-01-019-004c
सुपर्णं शंस इत्येव मामाह कुरुनन्दनः । kk-13-01-019-005a
अस्य प्रवक्तुमिच्छामि त्वयाऽज्ञप्तो महाद्युते ॥ kk-13-01-019-005c
त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा । kk-13-01-019-006a
अनादिनिधने काले गरुडश्चासि केशव ॥ kk-13-01-019-006c
तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते । kk-13-01-019-007a
गरुडं पततांश्रेष्ठं वक्तुमिच्छामि माधव ॥ kk-13-01-019-007c
वासुदेव उवाच । kk-13-01-019-008
यथैव मां भवान्वेद तथा वेद युधिष्ठिरः । kk-13-01-019-008a
यथा च गरुडो जातस्तथाऽस्मै ब्रूहि तत्वतः' ॥ ॥ kk-13-01-019-008c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥