अध्यायः 018
भीष्मेण युधिष्ठिरं प्रति श्रीकृष्णमहिमप्रतिपादकव्यासमद्रराजसंवादानुवादः ॥ 1
'द्वैपायन उवाच । kk-13-01-018-001
सर्वे वेदाः सर्ववेद्याः सशास्त्राः सर्वे यज्ञाः सर्व इज्यश्च कृष्णः । kk-13-01-018-001a
विदुः कृष्णं ब्राह्मणास्तत्वतो ये तेषां राजन्सर्वयज्ञः समाप्तः ॥ kk-13-01-018-001c
ज्ञेयो योगी ब्राह्मणैर्वेदतत्वैरारण्यकैः सैष कृष्णः प्रभुत्वात् । kk-13-01-018-002a
सर्वान्यज्ञान्ब्राह्मणान्ब्रह्म चैव व्याप्यातिष्ठद्देवदेवस्त्रिलोके ॥ kk-13-01-018-002c
स एष देवः शक्रमीशं यजानं प्रीत्या प्राह क्रतुयष्टारमग्र्यम् kk-13-01-018-003a
न मा शक्रो वेदवेदार्थतत्वाद्भक्तो भक्त्या शुद्धभावप्रधानः ॥ kk-13-01-018-003c
मा जानन्ते ब्रह्मशीर्षं वरिष्ठंविश्वे विश्वं ब्रह्मयोनिं ह्ययोनिम् । kk-13-01-018-004a
सर्वत्राहं शाश्वतः शाश्वतेशःकृत्स्नो वेदोऽग्निर्निर्गुणोऽनन्ततेजाः ॥ kk-13-01-018-004c
सर्वे देवा वासुदेवं यजन्ते ततो बुद्ध्या मार्गमाणास्तनूनाम् । kk-13-01-018-005a
सर्वान्कामान्प्राप्नुवन्ते विशालांस्त्रैलोक्येऽस्मिन्कृष्णनामाभिधानात् ॥ kk-13-01-018-005c
कृष्णो यज्ञैरिज्यते यायजूकैः कृष्णो वीर्यैरिज्यते विक्रमद्भिः । kk-13-01-018-006a
कृष्णो वाक्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः ॥ kk-13-01-018-006c
विद्यावन्तः सोमपा ये विपापा इष्ट्वा यज्ञेर्गोचरं प्रार्थयन्ते । kk-13-01-018-007a
भवगानुवाच । kk-13-01-018-007
सर्वं क्रान्तं देवलोकं विशालमन्ते गत्वा मुक्तिलोकं भजन्ति ॥ kk-13-01-018-007c
एवं सर्वे त्वाश्रमाः सुव्रता ये मां जानन्तो यान्ति लोकानदीनान् । kk-13-01-018-008a
ये ध्यानदीक्षामुद्वहन्तो विपापा ज्योतिर्भूत्वा देवलोकं भजन्ति ॥ kk-13-01-018-008c
पूज्यन्ते मां पूजयन्तः प्रहृष्टा मां जानन्तः श्रद्धया वासुदेवम् । kk-13-01-018-009a
भक्त्या तुष्टोऽहं तस्य सत्त्वं प्रयच्छे सत्वस्पृष्टो वीतमोहोऽयमेति ॥ kk-13-01-018-009c
द्वैपायन उवाच । kk-13-01-018-010
ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयश्च । kk-13-01-018-010a
त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव ॥ kk-13-01-018-010c
भीष्म उवाच । kk-13-01-018-011
व्यासस्यैतद्वचः श्रुत्वा मद्रराजः सहर्षिभिः । kk-13-01-018-011a
व्यासं कृष्णं च विधिवत्प्रीतात्मा प्रत्यपूजयत् ॥ kk-13-01-018-011c
वैशम्पायन उवाच । kk-13-01-018-012
कविः प्रयातस्तु महर्षिपुत्रो द्वैपायनस्तद्वचनं निशम्य । kk-13-01-018-012a
जगाम पृथ्वीं शिरसा महात्मा नमश्च कृष्णाय चकार भीष्मः ॥' kk-13-01-018-012c
इति श्रीमन्महाभारते अनुशासनपर्वणी दानधर्मपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥