अध्यायः 017

भीष्मेण युधिष्ठिरं प्रति भक्तिश्रद्धादीनां भुक्तिसाधनताप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥

'द्वैपायन उवाच । kk-13-01-017-001
श्रद्दात्यागं निर्वृतिं चापि पूजां सत्यं धर्मं यः कृतं चाभ्युपैति । kk-13-01-017-001a
कामद्वेषौ त्यज्य सर्वेषु तुल्यः श्रद्धापूतः सर्वयज्ञेषु योग्यः ॥ kk-13-01-017-001c
यस्मिन्यज्ञे सर्वभूताः प्रहृष्टाः सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः । kk-13-01-017-002a
धर्म्यैरर्थ्यैर्ये यजन्ते ध्रुवं ते पूतात्मानो धर्ममेकं भजन्ते ॥ kk-13-01-017-002c
एकाक्षरं द्व्यक्षरमेकमेव सदा यजन्ते नियताः प्रतीताः । kk-13-01-017-003a
दृष्ट्वा मनागर्चयित्वा स्म विप्राः सतां मार्गं तं ध्रुवं सम्भजन्ते ॥ kk-13-01-017-003c
पापात्मानः क्रोधरागाभिभूताः कृष्णे भक्ता नाम सङ्कीर्तयन्तः । kk-13-01-017-004a
पूतात्मानो यज्ञशीलाः सुमेधा यज्ञस्यान्ते कीर्तिलोकान्भजन्ते ॥ kk-13-01-017-004c
एको वेदो ब्राह्मणानां बभूव चतुष्पादस्त्रिगुणो ब्रह्मशीर्षः । kk-13-01-017-005a
पादं पादं ब्राह्मणा वेदमाहुस्त्रेताकाले तं च तं विद्धि शीर्षम् ॥' ॥ kk-13-01-017-005c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥