अध्यायः 016

भीष्मेण युधिष्ठिरं प्रति भगवन्महिमाप्रतिपादकव्यासवचनानुवादः ॥ 1 ॥

भीष्म उवाच । kk-13-01-016-001
द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः । kk-13-01-016-001a
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु ॥ kk-13-01-016-001c
यूपं विष्णुं वासुदेवं विजानन्सर्वान्विप्रान्बोधते तत्वदर्शि । kk-13-01-016-002a
विष्णुं क्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्वदर्शी ॥ kk-13-01-016-002c
विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च । kk-13-01-016-003a
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण एवं जानन्ब्राह्मणो ब्रह्म एति ॥ kk-13-01-016-003c
स्थानं सर्वं वैष्णवं यज्ञमार्गे चातुर्होत्रं वैष्णवं तत्र कृष्णः । kk-13-01-016-004a
सर्वैर्भावैरिज्यते सर्वकामैः पुण्याल्ँलोकान्ब्राह्मणाः प्राप्नुवन्ति ॥ kk-13-01-016-004c
सोमं सद्भावाद्ये च जातं पिबन्ति दीप्तिं कर्म ये विदानाश्चरन्ति । kk-13-01-016-005a
एकान्तमिष्टं चिन्तयन्तो दिविस्थास्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः ॥ kk-13-01-016-005c
ओमित्येतद्ध्यायमानो न गच्छेद्दुर्गं पन्थानं पापकर्मापि विप्रः । kk-13-01-016-006a
सर्वं कृष्णं वासुदेवं हि विप्राः कृत्वा ध्यानं दुर्गतिं न प्रयान्ति ॥ kk-13-01-016-006c
आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता इच्छा पत्नी पत्निशाला हवींषि । kk-13-01-016-007a
इध्माः पुरोडाशं सर्वदा होतृकर्ता कृत्स्नं विष्णुं संविजानंस्तमेति ॥ kk-13-01-016-007c
योगेयोगे कर्मणां चाभिहारे युक्ते वैताने कर्मणि ब्राह्मणस्य । kk-13-01-016-008a
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्' ॥ ॥ kk-13-01-016-008c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशोऽध्यायः ॥ 16 ॥