अध्यायः 015
भीष्मेण युधिष्ठिरं प्रति भगवन्महिमप्रतिपादकव्यासवासुदेवसंवादानुवादः ॥ 1 ॥
भीष्म उवाच । kk-13-01-015-001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-015-001a
मद्रराजस्य संवादं व्यासस्य च महात्मनः ॥ kk-13-01-015-001c
वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा । kk-13-01-015-002a
उक्तः स भगवान्यज्ञे तथा तत्राशृणोद्भवान् ॥ kk-13-01-015-002c
मद्रराज उवाच । kk-13-01-015-003
कानि तीर्थानि भगवन्फलार्थाश्चेह केऽऽश्रमाः । kk-13-01-015-003a
क इज्यते कश्च यज्ञः को यूपः क्रमते च कः ॥ kk-13-01-015-003c
कश्चाध्वरे शस्यते गीतिशब्दैः कश्चाध्वरे गीयते वल्गुभाषैः । kk-13-01-015-004a
को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च कस्येह वै हविरध्वर्यवः कल्पयन्ति ॥ kk-13-01-015-004c
वर्णाश्रमे गोफले कश्च सोमेकश्चोङ्कारः कश्च वेदार्थमार्गः । kk-13-01-015-005a
पृष्टस्तन्मे ब्रूहि सर्वं महर्षेलोकज्येष्ठं कस्य विज्ञानमाहुः ॥ kk-13-01-015-005c
द्वैपायन उवाच । kk-13-01-015-006
लोकज्येष्ठं यस्य विज्ञानमाहुर्योनिज्येष्ठं यस्य वदन्ति जन्म । kk-13-01-015-006a
पूतात्मानो ब्राह्मणा वेदमुख्या अस्मिन्प्रश्नो दीयतां केशवाय ॥ kk-13-01-015-006c
ब्राह्मण उवाच । kk-13-01-015-007
बालो जात्या क्षत्रधर्मार्थशीलो जातो देवक्यां शूरपुत्रेण वीर । kk-13-01-015-007a
वेत्तुं वेदानर्हते क्षत्रियो वै दाशार्हाणामुत्तमः पुष्कराक्षः ॥ kk-13-01-015-007c
वासुदेव उवाच । kk-13-01-015-008
पाराशर्य ब्रूहि यद्ब्राह्मणेभ्यः प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः । kk-13-01-015-008a
पृष्टो यज्ञार्थं पाण्डवस्यातितेजा एतच्छ्रेयस्तस्य लोकस्य चैव ॥ kk-13-01-015-008c
व्यास उवाच । kk-13-01-015-009
उक्तं वाक्यं यद्भवान्मामवोचत्प्रश्नं चित्रं नाहमत्रोत्सहेऽद्य । kk-13-01-015-009a
छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै लोकज्येष्ठे विश्वरूपे सुनाभे ॥ kk-13-01-015-009c
वासुदेव उवाच । kk-13-01-015-010
तत्त्वं वाक्यं ब्रूहि यत्त्वं महर्षे यस्मिन्कृष्णः प्रोच्यते वै यथावत् । kk-13-01-015-010a
प्रीतस्तेऽहं ज्ञानशक्त्या यथावत्तस्मान्निर्देशे कर्मणां ब्रूहि सिद्धिम् ॥ kk-13-01-015-010c
वैशम्पायन उवाच । kk-13-01-015-011
उक्तवाक्ये सत्तमे यादवानां कृष्णो व्यासः प्राञ्जलिर्वासुदेवम् । kk-13-01-015-011a
विप्रैः सार्धं पूजयन्देवदेवं कृष्णं विष्णुं वासुदेवं बभाषे ॥ kk-13-01-015-011c
व्यास उवाच । kk-13-01-015-012
आनन्त्यं ते विश्वकर्मंस्तवैवंरूपं पौराणं शाश्वतं च ध्रुवं च । kk-13-01-015-012a
कस्ते बुद्ध्येद्वेदवादेषु चैतल्लोके ह्यस्मिञ्शासकस्त्वं पितेव ॥ kk-13-01-015-012c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशोऽध्यायः ॥ 14 ॥