अध्यायः 014
भीष्मेण युधिष्ठिरं प्रति ब्राह्मणानां पतिव्रतानां च महिमाप्रतिपादकेन्द्राग्न्यादिसंवादानुवादः ॥ 1 ॥
भीष्म उवाच । kk-13-01-014-001
भूयस्तु शृणु राजेन्द्र धर्मान्धर्मभृतांवर ॥ kk-13-01-014-001a
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-014-001c
इन्द्राग्न्योः सूर्यशच्योश्च तन्मे निगदतः शृणु ॥ kk-13-01-014-002a
इन्द्र उवाच । kk-13-01-014-002c
राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान् । kk-13-01-014-003a
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥ kk-13-01-014-003c
अग्निरुवाच । kk-13-01-014-004
यथाऽहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः। kk-13-01-014-004a
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥ kk-13-01-014-004c
सूर्य उवाच । kk-13-01-014-005
यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् । kk-13-01-014-005a
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥ kk-13-01-014-005c
शच्युवाच । kk-13-01-014-006
कर्मणा मनसा वाचा नावमन्ये पुरन्दरम् । kk-13-01-014-006a
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥ ॥ kk-13-01-014-006c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
13-14-3 यथा राज्यं प्रपास्यामि कामकोधविवर्जित इति पाठान्तरम् । पास्यामि पालयिष्यामि । पा पालन इति धातोः । पादः कुम्भस्य पूर्यतामिति । चतुर्भागादेको भागः पादः । कुम्भे एकपादोनतयोदकपूरिते सति चतुर्थः पादः स्वयमेव पूर्यतामित्यर्थः । यथा सत्यबलेनाग्निरनुष्णो भवति तद्वदित्यर्थः ॥ kk-13-01-014-0