अध्यायः 013
भीष्मेण युधिष्ठिरं प्रति क्रमेण क्रोधस्यातिथेश्च निन्दाप्रशंसनपरवेदचतुष्टयसंवादानुवादः ॥
भीष्म उवाच । kk-13-01-013-001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-013-001a
चतुर्णामपि वेदानां संवादं शृणु पुत्रक ॥ kk-13-01-013-001c
ऋग्वेद उवाच । kk-13-01-013-002
गृहानाश्रयमाणस्य अग्निहोत्रं च जुह्वतः । kk-13-01-013-002a
सर्वं सुकृतमादत्ते यः साये नुद्यतेऽतिथिः ॥ kk-13-01-013-002c
न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः । kk-13-01-013-003a
वरिष्ठमग्निहोत्राच्च ब्राह्मणस्य मुखे हुतम् ॥ kk-13-01-013-003c
सामवेद उवाच । kk-13-01-013-004
न चेद्धन्ति पितरं मातरं वा न ब्राह्मणं नापवादं करोति । kk-13-01-013-004a
यत्किञ्चिदन्यद्वृजिनं करोति ।प्रीतोऽतिथिस्तदुपहन्ति पापम् ॥ kk-13-01-013-004c
अथर्ववेद उवाच । kk-13-01-013-005
यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति । kk-13-01-013-005a
वैवस्वतो हरते सर्वमस्य मोघं चेष्टं भवति क्रोधनस्य ॥ ॥ kk-13-01-013-005c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोदशोऽध्यायः ॥
एतदादिसप्तदशाऽध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते । झ. पाठे न दृश्यन्ते ।