अध्यायः 012

भीष्मेण युधिष्ठिरं प्रति ब्राह्मणप्रशंसनम् ॥

युधिष्ठिर उवाच । kk-13-01-012-001
यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद । kk-13-01-012-001a
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः ॥ kk-13-01-012-001c
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः । kk-13-01-012-002a
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥ kk-13-01-012-002c
भीष्म उवाच । kk-13-01-012-003
स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् । kk-13-01-012-003a
येषां सम्प्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम् ॥ kk-13-01-012-003c
येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम् । kk-13-01-012-004a
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् ॥ kk-13-01-012-004c
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् । kk-13-01-012-005a
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम् ॥ kk-13-01-012-005c
संसत्सु वदतां तात हंसानामिव सङ्घशः । kk-13-01-012-006a
माङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ kk-13-01-012-006c
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर । kk-13-01-012-007a
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ kk-13-01-012-007c
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः । kk-13-01-012-008a
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥ kk-13-01-012-008c
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । kk-13-01-012-009a
ददात्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर । kk-13-01-012-009c
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम् ॥ kk-13-01-012-009e
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम् ॥ kk-13-01-012-010ac
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर । kk-13-01-012-011a
तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते ॥ kk-13-01-012-011c
'भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत् । kk-13-01-012-012a
बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात् ॥' kk-13-01-012-012c
धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा । kk-13-01-012-013a
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ kk-13-01-012-013c
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन । kk-13-01-012-014a
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत ॥ kk-13-01-012-014c
यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम । kk-13-01-012-015a
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥ kk-13-01-012-015c
न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत् । kk-13-01-012-016a
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृज्जनाः ॥ kk-13-01-012-016c
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह । kk-13-01-012-017a
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु ॥ kk-13-01-012-017c
कर्मणा मनसा वाऽपि वाचा वाऽपि परन्तप । kk-13-01-012-018a
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम् ॥ kk-13-01-012-018c
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः । kk-13-01-012-019a
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ kk-13-01-012-019c
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणतोषणात् । kk-13-01-012-020a
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ kk-13-01-012-020c
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर । kk-13-01-012-021a
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ kk-13-01-012-021c
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः । kk-13-01-012-022a
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥ kk-13-01-012-022c
नारी तु पत्यभावे वै देवरं कुरुते पतिम् । kk-13-01-012-023a
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ kk-13-01-012-023c
'ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः । kk-13-01-012-024a
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः ॥' kk-13-01-012-024c
पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते । kk-13-01-012-025a
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम् ॥ kk-13-01-012-025c
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् । kk-13-01-012-026a
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा ॥ kk-13-01-012-026c
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर । kk-13-01-012-027a
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ kk-13-01-012-027c
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते । kk-13-01-012-028a
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ kk-13-01-012-028c
'दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया । kk-13-01-012-029a
अकोपनापराधेन भूयो नरकमश्नुते ॥ kk-13-01-012-029c
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् । kk-13-01-012-030a
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥ kk-13-01-012-030c
दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत् । kk-13-01-012-031a
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत् ॥ kk-13-01-012-031c
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः । kk-13-01-012-032a
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम् ॥ ॥ kk-13-01-012-032c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

13-12-2 यदमुत्रेह च हितं तद्वदेति शेषः ॥ 13-12-5 अक्षरं ब्रह्म तद्विदाम् ॥ 13-12-6 हंससादृश्यं क्षीरनीरयोरिव सारासारयोर्विवेचनात् ॥ 13-12-7 नृपतौ नृपतेः समीपे उच्चरिताः ॥ 13-12-8 ये चापि तेषां दातार इति ध. पाठः ॥ 13-12-13 ब्राह्मणकः कुत्सितब्राह्मणोऽपि यद्यहं स्यां तर्हि धन्यः किमुत कुले जातः ॥ 13-12-17 वृजिनं सङ्कटम् । फलाशेतियावत् । पूज्यत्वादेव तान्पूजयामि नतु फलायेत्यर्थः ॥ 13-12-18 तेन ब्राह्मणाराधनेन । न तपामि न व्यथां प्राप्तोमि ॥ 7-12-19 ब्रह्मण्यो ब्रह्मजातौ आसक्तः ॥ 13-12-27 ब्राह्मणाद्बिभ्येत् न तु तत्र तेजस्तपसी स्वीये प्रकाशयेदित्यर्थः । तेजः क्रोधबलम् । तपो योगबलम् ॥ 13-12-28 तयोस्तपस्तेजसोर्ब्रह्मणक्षत्रियस्थयोर्व्यवसायः फलमभिभवरूपं शीघ्रं तीव्रं तथापि तपस्विन एवेतरान् हन्युर्न तेजस्विन इत्यर्थः ॥ 13-12-30 ल्यब्लोपे पञ्चमी । अकोपनं ब्राह्मणं प्राप्य यद्भूयः बहुतरं उभयं तपस्तेजआख्यं स्यात् तद्दत्तं खण्डितं भवतीति शेषः । उभयत उभयं चेत् शेषं कुर्याद् दत्तशेषं शेषयेदित्यन्वयः । द्वाभ्यां अन्योन्यस्मिन्प्रयुक्तं तेजआदिद्वयं न निःशेषं नश्यति किन्तु शेषम् । क्षमावता खण्डितस्य तस्यावशिष्टं तु न शेषयेन्न शिष्यते अपि तु निःशेषमेव नश्यतीत्यर्थः ॥ 13-12-32 अभावे तद्देयमित्यर्थः ॥ द्वादशोऽध्यायः ॥ kk