अध्यायः 011
भीष्मेण युधिष्ठिरं प्रति शुकवासवसंवादानुवादेनानृशंस्यप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच । kk-13-01-011-001
आनृशंस्यस्य धर्मज्ञ गुणान्भक्तजनस्य च । kk-13-01-011-001a
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह ॥ kk-13-01-011-001c
भीष्म उवाच । kk-13-01-011-002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-011-002a
वासवस्य च संवादं शुकस्य च महात्मनः ॥ kk-13-01-011-002c
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः । kk-13-01-011-003a
सविषं काण्डमादाय मृगयामास वै मृगम् ॥ kk-13-01-011-003c
तत्र चामिषलुब्धेन लुब्धकेन महावने । kk-13-01-011-004a
अविदूरे मृगान्दृष्ट्वा बाणः प्रतिसमाहितः ॥ kk-13-01-011-004c
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा । kk-13-01-011-005a
महान्वनतरुस्तत्र विद्धो मृगजिघांसया ॥ kk-13-01-011-005c
स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः । kk-13-01-011-006a
उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ kk-13-01-011-006c
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः । kk-13-01-011-007a
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ kk-13-01-011-007c
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि । kk-13-01-011-008a
कृतज्ञः सह वृक्षेण धर्मात्मा सोप्यशुष्यत ॥ kk-13-01-011-008c
तमुदारं महासत्वमतिमानुषचेष्टितम् । kk-13-01-011-009a
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः ॥ kk-13-01-011-009c
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः । kk-13-01-011-010a
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः ॥ kk-13-01-011-010c
अथवा नात्र चित्रं हीत्यभवद्वासवस्य तु । kk-13-01-011-011a
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते ॥ kk-13-01-011-011c
ततो ब्राह्मणवेषेणि मानुषं रूपमास्थितः । kk-13-01-011-012a
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ kk-13-01-011-012c
शुक भो पक्षिणांश्रेष्ठ दाक्षेयी सुप्रजास्त्वया । kk-13-01-011-013a
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम् ॥ kk-13-01-011-013c
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् । kk-13-01-011-014a
स्वागतं देवराज त्वं विज्ञातस्तपसा मया ॥ kk-13-01-011-014c
ततो दशशताक्षेण साधुसाध्विति भाषितम् । kk-13-01-011-015a
अहो विज्ञानमित्येवं मनसा पूजितस्ततः ॥ kk-13-01-011-015c
तमेवं शुभकर्माणं शुकं परमधार्मिकम् । kk-13-01-011-016a
जानन्नपि च तत्पापं पप्रच्छ बलसूदनः ॥ kk-13-01-011-016c
निष्पत्रमफलं शुष्कमशरण्यं पतत्त्रिणाम् । kk-13-01-011-017a
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥ kk-13-01-011-017c
अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः । kk-13-01-011-018a
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥ kk-13-01-011-018c
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् । kk-13-01-011-019a
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥ kk-13-01-011-019c
भीष्म उवाच । kk-13-01-011-020
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् । kk-13-01-011-020a
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ kk-13-01-011-020c
अनतिक्रमणीयानि दैवतानि शचीपते । kk-13-01-011-021a
यत्राभवंस्तत्र भवांस्तन्निबोध सुराधिप ॥ kk-13-01-011-021c
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युते । kk-13-01-011-022a
बालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥ kk-13-01-011-022c
किमनुक्रोश्य वैफल्यमुत्पादयसि मेऽनघ ।' kk-13-01-011-023a
अनुरक्तस्य भक्तस्य संस्पृशे न च पावकम् ।' kk-13-01-011-023c
आनृशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च ॥ kk-13-01-011-024a
अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम् । kk-13-01-011-024c
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ kk-13-01-011-024e
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात् । kk-13-01-011-025a
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः ॥ kk-13-01-011-025c
नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् । kk-13-01-011-026a
समस्थमुपजीवन्वै विषमस्थं कथं त्यजेत् ॥ kk-13-01-011-026c
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः । kk-13-01-011-027a
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ kk-13-01-011-027c
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः । kk-13-01-011-028a
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥ kk-13-01-011-028c
विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम् । kk-13-01-011-029a
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ kk-13-01-011-029c
ततः फलानि पत्राणि शाखाश्चापि मनोहराः । kk-13-01-011-030a
शुकस्य दृढभक्तित्वाच्छ्रीमत्तां प्राप स द्रुमः ॥ kk-13-01-011-030c
शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै । kk-13-01-011-031a
आयुषोन्ते महाराज प्राप शक्रसलोकताम् ॥ kk-13-01-011-031c
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः । kk-13-01-011-032a
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ ॥ kk-13-01-011-032c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशोऽध्यायः ॥ 11 ॥
13-11-3 विषये देशे । काण्डं बाणम् ॥ 13-11-4 तत्र मृगयायाम् ॥ 13-11-5 दुर्वारितास्त्रेण दुर्वार्यशस्त्रेण । निमित्ताल्लक्ष्याच्चपलश्चलित इषुर्यस्य तेन । निमित्तविफलेषुणेति ध. पाठः ॥13-11-6 दिग्धेन लिप्तेन ॥ 13-11-10 द्विजः पक्षी । आनृशंस्य परदुःखेन दुःखित्वम् ॥ 13-11-11 सर्वेषां नृतिर्यगादीनाम् । सर्वत्र जातौ । सर्वं कृपाऽनैष्ठुर्यादिकं दृश्यते इति वासवस्य बुद्धिरभवदिति सम्बन्धः ॥ 13-11-13 दाक्षेयो दक्षदौहित्री शुकीनाम ॥ 13-11-14 तपसा ज्ञानदृष्ट्या ॥ 13-11-23 अनुक्रोश्य कृपायित्वा । वैफल्यं जन्मन इति शेषः ॥ 13-11-25 संशयात् संशयं प्राप्य । अतः संशयच्छेत्तृत्वात् ॥ 13-11-28 सम्भवं सम्यगौश्वर्यं वरं वव्रे ॥