अध्यायः 010
भीष्मेण युधिष्ठिरं प्रति शुभाशुभकर्मफलप्रतिपादनम् ॥
युधिष्ठिर उवाच । kk-13-01-010-001
कर्मणां च समस्तानां फलिनां भरतर्षभ । kk-13-01-010-001a
फलानि महतां श्रेष्ट प्रब्रूहि परिपृच्छतः ॥ kk-13-01-010-001c
भीष्म उवाच । kk-13-01-010-002
हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत । kk-13-01-010-002a
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर । kk-13-01-010-002c
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ kk-13-01-010-002e
येन येन शरीरेण यद्यत्कर्म करोति यः । kk-13-01-010-003a
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ kk-13-01-010-003c
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । kk-13-01-010-004a
तस्यांcतस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ kk-13-01-010-004c
न नश्यति कृतं कर्म चित्तपञ्चेन्द्रियैरिह । kk-13-01-010-005a
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा शुभाशुभे ॥ kk-13-01-010-005c
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । kk-13-01-010-006a
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ kk-13-01-010-006c
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । kk-13-01-010-007a
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ kk-13-01-010-007c
स्थण्डिलेषु शयानानां गृहाणि शयनानि च । kk-13-01-010-008a
चीरवल्कलसंवीते वासांस्याभरणानि च ॥ kk-13-01-010-008c
वाहनानि च यानानि योगात्मनि तपोधने । kk-13-01-010-009a
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ॥ kk-13-01-010-009c
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति । kk-13-01-010-010a
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ kk-13-01-010-010c
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् । kk-13-01-010-011a
मण्डूकशायी च नरो लभते चेप्सितां गतिम् ॥ kk-13-01-010-011c
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् । kk-13-01-010-012a
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ kk-13-01-010-012c
वीरासनं वीरशय्यां वीरस्थानमुपासतः । kk-13-01-010-013a
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ kk-13-01-010-013c
धनं लभेत दानेन मौनेनाज्ञां विशाम्पते । kk-13-01-010-014a
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ kk-13-01-010-014c
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते । kk-13-01-010-015a
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ kk-13-01-010-015c
प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते । kk-13-01-010-016a
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ॥ kk-13-01-010-016c
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् । kk-13-01-010-017a
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥ kk-13-01-010-017c
सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः । kk-13-01-010-018a
मरुत्साधयतो राज्यं नाकपृष्ठमनाशिने ॥ kk-13-01-010-018c
उपवासं च दीक्षायामभिषेकं च पार्थिव । kk-13-01-010-019a
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ kk-13-01-010-019c
अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते । kk-13-01-010-020a
'तत्पाठधारणात्स्वर्गमर्थज्ञानात्परां गतिम् ॥ kk-13-01-010-020c
वितृष्णानां वेदजपात्स्वर्गमोक्षफलं स्मृतम् ।' kk-13-01-010-021a
मानसं हि चरन्धर्मं स्वर्गलोकमुपाश्नुते ॥ kk-13-01-010-021c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । kk-13-01-010-022a
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं ॥ kk-13-01-010-022c
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । kk-13-01-010-023a
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ kk-13-01-010-023c
अचोद्यमानानि यथा पुष्पाणि च फलानि च । kk-13-01-010-024a
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ kk-13-01-010-024c
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । kk-13-01-010-025a
चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥ kk-13-01-010-025c
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः । kk-13-01-010-026a
माता च येन प्रीणाति पृथिवी तेन पूजिता । kk-13-01-010-026c
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ॥ kk-13-01-010-026e
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । kk-13-01-010-027a
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ kk-13-01-010-027c
वैशम्पायन उवाच । kk-13-01-010-028
भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः । kk-13-01-010-028a
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ kk-13-01-010-028c
यन्मन्त्रे भवति वृथोपयुज्यमाने यत्सोमे भवति वृथाऽभिषूयमाणे । kk-13-01-010-029a
यच्चाग्नौ भवति वृथाऽभिहूयमाने तत्सर्वं भवति वृथाऽभिधीयमाने ॥ kk-13-01-010-029c
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि भारत । kk-13-01-010-030a
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ kk-13-01-010-030c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशमोऽध्यायः ॥ 10 ॥
13-10-2 गतिः फलम् । येन कर्मणा । प्रेत्यभावे मरणोत्तरं देहान्तरप्राप्तौ ॥ 13-10-5 अस्य कर्तुः ॥ 13-10-6 दद्यादभ्यागतायेति शेषः ॥ 13-10-8 वानप्रस्थधर्माणां फलान्याह स्थण्डिलेष्वित्यादिना ॥ 13-10-9 योगात्मनि योगयुक्तचित्ते ॥ 13-10-11 सततं चैकशायी यः स इति झ.पाठः । तत्र एकशायी ब्रह्मचर्यवान् ॥ 13-10-13 वीरा आसतेऽस्मिन्निति वीरासनं रणदेशं उपेत्य वीरशय्यां तत्र दीर्घनिद्रां च प्राप्य वीरस्थानं स्वर्गलोकम् ॥ 13-10-14 आज्ञामविच्छिन्नामिति शेषः । तपसा कृच्छ्रादिना जीवितमायुः ॥ 13-10-16 शाकदीक्षायां शाकमात्राशननियमे ॥ 13-10-17 क्रतुं सङ्कल्पं सत्यसङ्कल्पत्वमिति यावत् । दीक्षया यज्ञेन ॥ 13-10-18 सदाग्निः अविच्छिन्नाग्निहोत्रः ॥ 13-10-19 अभिषेकं तीर्थाटनम् । वीरस्थानात्स्वर्गादपि विशिष्यते ॥ 13-10-22 मानसं धर्मं विवृणोति येति ॥ 13-10-29 एतैस्त्रिभिर्यत्पापं तत्सर्वं मिथ्यावादिनो भवतीत्यर्थः ॥