अध्यायः 009

भीष्मेण युधिष्ठिरं प्रति सदृष्टान्तप्रदर्शनं दैवादपि पुरुषकारस्य प्राबल्यप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच । kk-13-01-009-001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । kk-13-01-009-001a
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत् ॥ kk-13-01-009-001c
भीष्म उवाच । kk-13-01-009-002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-009-002a
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥ kk-13-01-009-002c
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत । kk-13-01-009-003a
पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥ kk-13-01-009-003c
ततः पद्मोद्भवो राजन्देवदेवः पितामहः । kk-13-01-009-004a
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥ kk-13-01-009-004c
'बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः । kk-13-01-009-005a
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते ॥ kk-13-01-009-005c
स्कन्धात्प्रवर्तते पुष्पं पुष्पात्संवर्धते फलम् । kk-13-01-009-006a
फलान्निर्वर्तते बीजं बीजात्स्यात्सम्भवः पुनः' ॥ kk-13-01-009-006c
नाबीजं जायते किञ्चिन्न बीजेने विना फलम् । kk-13-01-009-007a
बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम् ॥ kk-13-01-009-007c
यादृशं वपते बीजं क्षेत्रमासाद्य वापकः । kk-13-01-009-008a
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम् ॥ kk-13-01-009-008c
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । kk-13-01-009-009a
तथा पुरुषकारेण विना दैवं न सिध्यति ॥ kk-13-01-009-009c
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् । kk-13-01-009-010a
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते ॥ kk-13-01-009-010c
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः । kk-13-01-009-011a
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ kk-13-01-009-011c
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा । kk-13-01-009-012a
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥ kk-13-01-009-012c
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षितः । kk-13-01-009-013a
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ kk-13-01-009-013c
तपसा रूपसौभाग्यं रत्नानि विविधानि च । kk-13-01-009-014a
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥ kk-13-01-009-014c
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता । kk-13-01-009-015a
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते ॥ kk-13-01-009-015c
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः । kk-13-01-009-016a
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥ kk-13-01-009-016c
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् । kk-13-01-009-017a
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥ kk-13-01-009-017c
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु । kk-13-01-009-018a
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ kk-13-01-009-018c
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् । kk-13-01-009-019a
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ kk-13-01-009-019c
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः । kk-13-01-009-020a
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ kk-13-01-009-020c
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् । kk-13-01-009-021a
लोको दैवं समालक्ष्य उदासीनो भवेद्यदि ॥ kk-13-01-009-021c
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । kk-13-01-009-022a
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥ kk-13-01-009-022c
न तथा मानुषे लोके फलमस्ति शुभाशुभे । kk-13-01-009-023a
यथा त्रिदशलोके हि फलमल्पेन जायते ॥ kk-13-01-009-023c
कृतः पुरुषकारस्तु दैवमेवानुवर्तते । kk-13-01-009-024a
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥ kk-13-01-009-024c
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि । kk-13-01-009-025a
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः ॥ kk-13-01-009-025c
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् । kk-13-01-009-026a
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥ kk-13-01-009-026c
ऋषीणां देवतानां च सदा भवति विग्रहः । kk-13-01-009-027a
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ kk-13-01-009-027c
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते । kk-13-01-009-028a
एवं त्रिदशलोकेऽपि प्राप्यते परमं सुखम् ॥ kk-13-01-009-028c
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । kk-13-01-009-029a
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ kk-13-01-009-029c
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुकर्मणा । kk-13-01-009-030a
सुकृतं दुष्कृतं कर्म अकृतार्थं प्रपद्यते ॥ kk-13-01-009-030c
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते । kk-13-01-009-031a
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति ॥ kk-13-01-009-031c
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ । kk-13-01-009-032a
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥ kk-13-01-009-032c
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा । kk-13-01-009-033a
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥ kk-13-01-009-033c
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः । kk-13-01-009-034a
महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ kk-13-01-009-034c
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ । kk-13-01-009-035a
न गच्छतः स्वर्गलोकं वेददृष्टेन कर्मणा ॥ kk-13-01-009-035c
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः । kk-13-01-009-036a
मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ kk-13-01-009-036c
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः । kk-13-01-009-037a
विष्णोः पुरुषकारेण पातालसदनः कृपः ॥ kk-13-01-009-037c
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः । kk-13-01-009-038a
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ kk-13-01-009-038c
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च । kk-13-01-009-039a
वैशम्पायनविप्रर्षिः किं दैवेन न वारितः ॥ kk-13-01-009-039c
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे । kk-13-01-009-040a
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥ kk-13-01-009-040c
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः । kk-13-01-009-041a
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ kk-13-01-009-041c
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः । kk-13-01-009-042a
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ kk-13-01-009-042c
तपोनियमसंयुक्ता मुनयः संशितव्रताः । kk-13-01-009-043a
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ kk-13-01-009-043c
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् । kk-13-01-009-044a
लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ kk-13-01-009-044c
यथाऽऽग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान्भवेत् । kk-13-01-009-045a
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥ kk-13-01-009-045c
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति । kk-13-01-009-046a
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥ kk-13-01-009-046c
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनो हि भोक्तुम् । kk-13-01-009-047a
सुविहितमपि चार्थं दैवते रक्ष्यमाणं पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः ॥ kk-13-01-009-047c
व्ययगुणमपि साधुं कर्मणा संश्रयन्ते भवति मनुजलोकाद्दैवलोको विशिष्टः । kk-13-01-009-048a
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि पितृवनभवनाभं दृश्यते चामराणाम् ॥ kk-13-01-009-048c
न च फलति विकर्मा जीवलोके न दैवं व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम् । kk-13-01-009-049a
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं नयति पुरुषकारः सञ्चितस्तत्र तत्र ॥ kk-13-01-009-049c
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम । kk-13-01-009-050a
फलं पुरुषकारस्य सदा सन्दृश्य तत्त्वतः ॥ kk-13-01-009-050c
अभ्युत्थानेन दैवस्य समारब्धेन केनचित् । kk-13-01-009-051a
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ ॥ kk-13-01-009-051c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवमोऽध्यायः ॥ 9 ॥

13-9-13 नाकृती लभतेऽभीष्टं क्षितिः क्षीरावसेचनमिति ध.पाठः ॥ 13-9-16 चन्द्रार्कतारका इति ध.पाठः ।मनुष्यात् मानुष्यमुल्लङ्घ्य ॥ 13-9-18 लभते श्रियमिति सर्वत्र सम्बन्धः ॥ 13-9-24 अकृते कर्माभावे सति ॥ 13-9-26 व्यापारं पुण्यरूपं यान्ति अनुमोदन्ते । उग्रं धर्मविघ्नकरम् । एवं सञ्जनयन्त्युग्रा आत्मनिर्भयशङ्कयेति ध.पाठः ॥ 13-9-27 यद्यप्येवं कर्मपरत्वं देवर्षीणामस्ति तथापि अदैवं दैवाभावो न वक्तुं शक्य इत्यर्थः ॥ 13-9-28 यतो यस्माद्दैवं प्रवर्तते तस्य कर्मणोऽपि दैवं विना कथमुत्पत्तिः स्यान्न कथमपि ॥ 13-9-38 पापमपि तेजीयसां न दोषायेत्याह 13-9-40 पुण्यमपि केषाञ्चिन्न त्राणायेत्याह गोप्रदानेनेति । कृकालस्त्वं सरटत्वम् ॥13-9-41 प्रीतिदायं देवैर्दत्तं वरम् । सुष्वाप सत्रफलं नाप्तवानित्यर्थः प्रतिरङ्गं परित्यज्येति ट. थ. ध. पाठः ॥ 13-9-42 न दैवाट प्रत्याहृतमपि तु भुजसंश्रयादेवेत्यर्थः ॥ 13-9-43 अपि तु कर्मणैवोत्सृजन्ते न तु दैवबलादित्यर्थः ॥ 13-9-44 पापं पापिनं प्रति सर्वमैश्वर्यादिकं गुणजातं लोके प्राप्य उपेत्यापि तमुत्सृजते इति योजना । एतदेव स्पष्टयति लोभेति । पापमुत्सृजतां नॄणां धर्मं प्राहुः सुदुर्लभमिति थ. ध. पाठः ॥ 13-9-48 व्यय एव गुणः स्वभावो यस्य तं रिक्तम् । साधु कर्मणा सदाचारेण निमित्तेन श्रद्धैकप्रिया देवाः संश्रयन्ते । ततश्च श्रेष्ठैः फलैरेनं योजयनतीत्याह भवतीति । समृद्ध्या उपेतम् । गृहाणि गृहम् | बहुत्वमार्षम । पितृवनभवनाभं श्मशानगृहतुल्यम । अमराणाम् अमरैः ॥ 13-9-49 विकर्मा कर्महीनः । न च फलति फलं तृप्त्यादिकं न प्राप्नोति । नापि केवलं दैवं विमार्गगामिनं नरं व्यपनयति विमारगादन्यत्र नयति । अत एव दैवे प्रभुत्वं नास्ति । किन्तु दैवं कर्तृकर्म संयाति पुरुषकारमनुसरति । गुरुं शिष्य इवेत्यर्थः । अत एव पुरुषकारो यत्र यत्र विषये सञ्चितः सम्यगनुतिष्ठतस्तत्र तत्र दैवं नयति ॥ 13-9-50 सन्दृश्य सम्यक् योगजदृष्ट्याऽनुभूय ॥