अध्यायः 008

भीष्मेण युधिष्ठिरं प्रति वीतहव्यस्य ब्राह्मण्यप्राप्तिप्रकारकथनम् ॥ 1 ॥

युधिष्ठिर उवाच । kk-13-01-008-001
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह । kk-13-01-008-001a
सुदुष्प्रापं यद्ब्रवीषि ब्राह्मण्यं वदतांवर ॥ kk-13-01-008-001c
विश्वामित्रो महाराज राजा ब्राह्मणतां गतः । kk-13-01-008-002a
कथितं भवता सर्वं विस्तरेण पितामह ॥ kk-13-01-008-002c
तच्च राजन्मया सर्वं श्रुतं बुद्धिमतांवर । kk-13-01-008-003a
आगमो हि परोऽस्माकं त्वत्तः कौरवनन्दन ॥ kk-13-01-008-003c
वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः । kk-13-01-008-004a
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ kk-13-01-008-004c
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः । kk-13-01-008-005a
वरेण तपसा वाऽपि तन्मे व्याख्यातुमर्हसि ॥ kk-13-01-008-005c
भीष्म उवाच । kk-13-01-008-006
शृणु राजन्यथा राजा वीतहव्यो महायशाः । kk-13-01-008-006a
राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ kk-13-01-008-006c
मनोर्महात्मनस्तात प्रजा धर्मेण शासतः । kk-13-01-008-007a
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ kk-13-01-008-007c
तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः । kk-13-01-008-008a
हैहयस्तालजङ्घश्च वत्सेषु जयतांवर ॥ kk-13-01-008-008c
हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत । kk-13-01-008-009a
शतं बभूव पुत्राणां शूराणामनिवर्तिनाम् । kk-13-01-008-009c
तुल्यरूपप्रभावानां बलिनां युद्धशालिनाम् ॥ kk-13-01-008-009e
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ kk-13-01-008-010ac
काशिष्वपि नृपो राजन्दिवोदासपितामहः । kk-13-01-008-011a
हर्यश्व इति विख्यातो बभूव जयतांवरः ॥ kk-13-01-008-011c
स वीतहव्यदायादैरागत्य पुरुषर्षभ । kk-13-01-008-012a
गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ॥ kk-13-01-008-012c
तं तु हत्वा नरपतिं हैहयास्ते महारथाः । kk-13-01-008-013a
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥ kk-13-01-008-013c
हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यत । kk-13-01-008-014a
सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ॥ kk-13-01-008-014c
स पालयामास महीं धर्मात्मा काशिनन्दनः । kk-13-01-008-015a
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥ kk-13-01-008-015c
तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् । kk-13-01-008-016a
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ॥ kk-13-01-008-016c
दिवोदासस्तु विज्ञाय वीर्यं तेषां यतात्मनाम् । kk-13-01-008-017a
वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥ kk-13-01-008-017c
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् । kk-13-01-008-018a
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥ kk-13-01-008-018c
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम् । kk-13-01-008-019a
गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम् ॥ kk-13-01-008-019c
तत्र तं राजशार्दूलं निवसन्तं महीपतिम् । kk-13-01-008-020a
आगत्य हैहया भूयः पर्यधावन्त भारत ॥ kk-13-01-008-020c
स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः । kk-13-01-008-021a
देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ kk-13-01-008-021c
स तु युद्धे महाराज दिनानां दशतीर्दश । kk-13-01-008-022a
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥ kk-13-01-008-022c
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः । kk-13-01-008-023a
दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत् ॥ kk-13-01-008-023c
गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः । kk-13-01-008-024a
जगाम शरणं राजा कृताञ्जलिररिन्दम ॥ kk-13-01-008-024c
तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः । kk-13-01-008-025a
पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम् ॥ kk-13-01-008-025c
किमागमनकृत्यं ते सर्वं प्रबूहि मे नृप । kk-13-01-008-026a
यत्ते प्रियं तत्करिष्ये न मेऽत्रास्ति विचारणा ॥ kk-13-01-008-026c
राजोवाच । kk-13-01-008-027
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः । kk-13-01-008-027a
अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥ kk-13-01-008-027c
शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि । kk-13-01-008-028a
एकशेषः कृतो वंशो मम तैः पापकर्मभिः ॥ kk-13-01-008-028c
तमुवाच महाभागो भरद्वाजः प्रतापवान् । kk-13-01-008-029a
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ kk-13-01-008-029c
अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते । kk-13-01-008-030a
वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि ॥ kk-13-01-008-030c
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् । kk-13-01-008-031a
अथास्य तनयो जज्ञे दैवोदासः प्रतर्दनः ॥ kk-13-01-008-031c
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश । kk-13-01-008-032a
वेदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत ॥ kk-13-01-008-032c
योगेन च समाविष्टो भरद्वाजेन धीमता । kk-13-01-008-033a
कृत्स्नं हि तेजो यल्लोके तदेतद्देहमाविशत् ॥ kk-13-01-008-033c
ततः स कवची धन्वी स्तूयमानः सुरर्षिभिः । kk-13-01-008-034a
बन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः ॥ kk-13-01-008-034c
स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः । kk-13-01-008-035a
प्रययौ स धनुर्धुन्वन्विवर्षिषुरिवाम्बुदः ॥ kk-13-01-008-035c
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ । kk-13-01-008-036a
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ kk-13-01-008-036c
ततोसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम् । kk-13-01-008-037a
कृतकृत्यं तदाऽऽत्मानं स राजा प्रत्यपद्यत ॥ kk-13-01-008-037c
ततस्तु वैतहव्यानां वधाय स महीपतिः । kk-13-01-008-038a
पुत्रं प्रस्थापयासास प्रतर्दनमरिन्दमम् ॥ kk-13-01-008-038c
सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी । kk-13-01-008-039a
प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः ॥ kk-13-01-008-039c
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् । kk-13-01-008-040a
निर्ययुर्नगराकारै रथैः पररथारुजैः ॥ kk-13-01-008-040c
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः । kk-13-01-008-041a
प्रतर्दनं समाजग्मुः शरवर्षैरुदायुधाः ॥ kk-13-01-008-041c
शस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर । kk-13-01-008-042a
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ kk-13-01-008-042c
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः । kk-13-01-008-043a
जघान तान्महातेजा वज्रानलसमैः शरैः ॥ kk-13-01-008-043c
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः । kk-13-01-008-044a
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ kk-13-01-008-044c
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ । kk-13-01-008-045a
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ kk-13-01-008-045c
ययौ भृगुं च शरणं वीतहव्यो नराधिपः । kk-13-01-008-046a
अभयं च ददौ तस्मै वीतहव्याय भार्गवः । kk-13-01-008-046c
आसनं शिष्यमध्ये च भृगुरन्यत्समादिशत् ॥ kk-13-01-008-046e
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः । kk-13-01-008-047a
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ kk-13-01-008-047c
भो भो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः । kk-13-01-008-048a
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ kk-13-01-008-048c
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा । kk-13-01-008-049a
पूजयामास च ततो विधिना नृपसत्तमम् ॥ kk-13-01-008-049c
उवाच चैनं राजेन्द्र किं कार्यं ब्रूहि पार्थिव । kk-13-01-008-050a
स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ kk-13-01-008-050c
राजोवाच । kk-13-01-008-051
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् । kk-13-01-008-051a
अस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन्वंशः प्रणाशितः ॥ kk-13-01-008-051c
उत्सादितश्च विषयः काशीनां रत्नसञ्चयः । kk-13-01-008-052a
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया । kk-13-01-008-052c
अस्येदानीं वधादद्य भविष्याम्यनृणः पितुः ॥ kk-13-01-008-052e
तमुवाच कृपाविष्टो भृगुर्धर्मभृतांवरः । kk-13-01-008-053a
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ kk-13-01-008-053c
एतत्तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः । kk-13-01-008-054a
पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत् ॥ kk-13-01-008-054c
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः । kk-13-01-008-055a
य एष राजा वीर्येण स्वजातिं त्याजितो मया ॥ kk-13-01-008-055c
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् । kk-13-01-008-056a
त्याजितो हि मया जातिमेव राजा भृगूद्वह ॥ kk-13-01-008-056c
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः । kk-13-01-008-057a
यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ kk-13-01-008-057c
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः । kk-13-01-008-058a
वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥ kk-13-01-008-058c
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः । kk-13-01-008-059a
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ kk-13-01-008-059c
ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः । kk-13-01-008-060a
यत्र गृत्समदो राजन्ब्राह्मणैः स महीयते ॥ kk-13-01-008-060c
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् । kk-13-01-008-061a
पुत्रो गृत्समदस्यापि विप्रः सावैनसोऽभवत् ॥ kk-13-01-008-061c
सावैनसस्य पुत्रो वै वितस्त्यस्तस्य चात्मजः । kk-13-01-008-062a
वितस्त्यस्य सुतस्तस्य शिवस्तश्चात्मजोऽभवत् ॥ kk-13-01-008-062c
श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः । kk-13-01-008-063a
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः ॥ kk-13-01-008-063c
प्रकाशस्य च वागिन्द्रो बभूव जयतांवरः । kk-13-01-008-064a
तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः ॥ kk-13-01-008-064c
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत । kk-13-01-008-065a
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत । kk-13-01-008-065c
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ kk-13-01-008-065e
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः । kk-13-01-008-066a
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥ kk-13-01-008-066c
एष ते कथितो वंशो राजन्गार्त्समदो मया । kk-13-01-008-067a
विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ kk-13-01-008-067c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

अयमध्यायः झ. पाठे ३० अध्यायतया वर्तते ॥13-8-7 शय्यातिरिति विश्रुत इति ट.घ.पाठः ॥ 13-8-10 ते चेति शेषः ॥ 13-8-12 वीतहव्यदायादैः । हैहयस्यैव नामान्तरं वीतहव्य इति तत्पुत्रैः ॥ 13-8-13 वत्सानां वत्सवंश्यानां राज्ञाम् ॥ 13-8-19 वप्रान्ते तटसमीपे ॥ 13-8-22 दशतीर्दश सहस्रमित्यर्थः ॥ 13-8-27 परिद्यूनः सर्वतो निरस्तः ॥ 13-8-32 सद्यो ववृधे त्रयोदशवार्षिकोऽभूत् सद्यश्च वेदान् जगौ ॥ 13-8-33 योगेन योगबलेन ॥13-8-48 तस्य तम्प्रति मां आगतं आचक्षत कथयत ॥ 13-8-58 आख्यायिकातात्पर्थमाह भृगोरिति ॥ 13-8-60 यत्र गार्त्समदं ब्रह्म ब्राह्मणैः समुदाहृतम् । इति ध.पाठः ॥