अध्यायः 007
भीष्मेण युधिष्ठिरं प्रति विश्वामित्रस्योत्पत्तिप्रकारकथनेनैव ब्राह्मण्यप्राप्तिप्रकारकधनम् ॥ 1 ॥
भीष्म उवाच । kk-13-01-007-001
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा । kk-13-01-007-001a
ब्राह्मणत्वं गतस्तात् ब्रह्मर्षित्वं तथैव च ॥ kk-13-01-007-001c
भरतस्यान्ववाये वै मिथिलो नाम पार्थिवः । kk-13-01-007-002a
बभूव भरतश्रेष्ठ यज्वा धर्मभृतांवरः ॥ kk-13-01-007-002c
तस्य पुत्रो महानासीञ्जह्नुर्नाम नरेश्वरः । kk-13-01-007-003a
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ kk-13-01-007-003c
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः । kk-13-01-007-004a
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ kk-13-01-007-004c
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः । kk-13-01-007-005a
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ kk-13-01-007-005c
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः । kk-13-01-007-006a
अपुत्रः प्रसवेनार्थी वनवासमुपावसत् ॥ kk-13-01-007-006c
कन्या जज्ञे सुतात्तस्य वने निवसतः सतः । kk-13-01-007-007a
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ kk-13-01-007-007c
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः । kk-13-01-007-008a
ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥ kk-13-01-007-008c
स तां न प्रददौ तस्मै ऋचीकाय महात्मने । kk-13-01-007-009a
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ kk-13-01-007-009c
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः । kk-13-01-007-010a
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम् ॥ kk-13-01-007-010c
ऋचीक उवाच । kk-13-01-007-011
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप । kk-13-01-007-011a
दुहितुर्ब्रूह्यसंसक्तो माऽभूत्तत्र विचारणा ॥ kk-13-01-007-011c
गाधिरुवाच । kk-13-01-007-012
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् । kk-13-01-007-012a
एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥ kk-13-01-007-012c
भीष्म उवाच । kk-13-01-007-013
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः । kk-13-01-007-013a
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ kk-13-01-007-013c
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । kk-13-01-007-014a
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ kk-13-01-007-014c
तथेति वरुणो देव आदित्यो भृगुसत्तमम् । kk-13-01-007-015a
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥ kk-13-01-007-015c
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् । kk-13-01-007-016a
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ kk-13-01-007-016c
अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम् । kk-13-01-007-017a
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥ kk-13-01-007-017c
ततो वै गाधये तात सहस्रं वाजिनां शुभम् । kk-13-01-007-018a
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः ॥ kk-13-01-007-018c
ततः स विस्मितो राजा गाधिः शापभयेन च । kk-13-01-007-019a
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥ kk-13-01-007-019c
जग्राह विधिवत्पाणिं तस्या ब्रह्मर्षिसत्तमः । kk-13-01-007-020a
सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ kk-13-01-007-020c
स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत । kk-13-01-007-021a
छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ kk-13-01-007-021c
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम । kk-13-01-007-022a
अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ॥ kk-13-01-007-022c
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति । kk-13-01-007-023a
अपत्यस्य प्रदानेन समर्थश्च महातपाः ॥ kk-13-01-007-023c
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् । kk-13-01-007-024a
मातुश्चिकीर्षितं राजन्ऋचीकस्तामथाब्रवीत् ॥ kk-13-01-007-024c
गुणवन्तञ्च पुत्रं वै त्वञ्च साऽथ जनिष्यथ । kk-13-01-007-025a
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ kk-13-01-007-025c
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान् । kk-13-01-007-026a
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ kk-13-01-007-026c
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम् । kk-13-01-007-027a
परिष्वजेतं कल्याणि तत इष्टमवाप्स्यथः ॥ kk-13-01-007-027c
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते । kk-13-01-007-028a
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः ॥ kk-13-01-007-028c
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत । kk-13-01-007-029a
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ kk-13-01-007-029c
तामुवाच ततो माता सुतां सत्यवतीं तदा । kk-13-01-007-030a
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम ॥ kk-13-01-007-030c
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः । kk-13-01-007-031a
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ kk-13-01-007-031c
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते । kk-13-01-007-032a
यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥ kk-13-01-007-032c
स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम् । kk-13-01-007-033a
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ॥ kk-13-01-007-033c
ततो मे त्वच्चरौ भावः पादपे च समुध्यमे । kk-13-01-007-034a
कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय kk-13-01-007-034c
तथा च कृतवत्यौ ते माता सत्यवती च सा । kk-13-01-007-035a
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥ kk-13-01-007-035c
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः । kk-13-01-007-036a
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥ kk-13-01-007-036c
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति । kk-13-01-007-037a
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ kk-13-01-007-037c
मया हि विश्वं यद्ब्रह्म त्वच्चरौ सन्निवेशितम् । kk-13-01-007-038a
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥ kk-13-01-007-038c
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि । kk-13-01-007-039a
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ kk-13-01-007-039c
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा च ते शुभे । kk-13-01-007-040a
तस्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति ॥ kk-13-01-007-040c
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि । kk-13-01-007-041a
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ kk-13-01-007-041c
सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी । kk-13-01-007-042a
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥ kk-13-01-007-042c
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च । kk-13-01-007-043a
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम् ॥ kk-13-01-007-043c
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदांवर । kk-13-01-007-044a
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥ kk-13-01-007-044c
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति । kk-13-01-007-045a
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥ kk-13-01-007-045c
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः । kk-13-01-007-046a
ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ kk-13-01-007-046c
विश्वामित्रं चाजनयद्गाधिभार्या यशस्विनी । kk-13-01-007-047a
ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम् ॥ kk-13-01-007-047c
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः । kk-13-01-007-048a
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ kk-13-01-007-048c
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः । kk-13-01-007-049a
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥ kk-13-01-007-049c
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् । kk-13-01-007-050a
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ kk-13-01-007-050c
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः । kk-13-01-007-051a
उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ kk-13-01-007-051c
पर्णजङ्घश्च भगवान्गावलश्च महानृषिः । kk-13-01-007-052a
ऋषिर्वज्रस्तथा ख्यातः सालङ्कायन एव च ॥ kk-13-01-007-052c
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः । kk-13-01-007-053a
वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च । kk-13-01-007-053c
आङ्घ्रिको नैकदृक्चैव शिलायूपः सितः शुचिः । kk-13-01-007-054a
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ kk-13-01-007-054c
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा । kk-13-01-007-055a
कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ kk-13-01-007-055c
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः । kk-13-01-007-056a
तथैव चोपगहनस्तथर्षिश्चासुरायणः ॥ kk-13-01-007-056c
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः । kk-13-01-007-057a
भूतिर्विभूतिः सूतश्च सुरकृत्तु तथैव च ॥ kk-13-01-007-057c
अरालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा । kk-13-01-007-058a
नवतन्तुर्बकनखः सेयनो यतिरेव च ॥ kk-13-01-007-058c
अम्भोरुदश्चारुमत्स्यः शिरीषी चाथ गार्दभिः । kk-13-01-007-059a
ऊर्जयोनिरुदापेक्षी नारदी च महानृषिः । kk-13-01-007-059c
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ kk-13-01-007-059e
तथैव क्षत्रियो राजन्विश्वामित्रो महातपाः । kk-13-01-007-060a
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ kk-13-01-007-060c
एतत्ते सर्वमाख्यातं तत्वेन भरतर्षभ । kk-13-01-007-061a
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥ kk-13-01-007-061c
यत्र यत्र च सन्देहो भूयस्ते राजसत्तम । kk-13-01-007-062a
तत्रnतत्र च मां ब्रूहि च्छेत्ताऽस्मि तव संशयान् ॥ kk-13-01-007-062c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
13-7-1 ब्राह्मणेष्वपि ऋषित्वं मन्त्रद्रष्टृत्वं गोत्रप्रवर्तकत्वं वा ॥ 13-7-2 भरतस्यान्वये चैवाजमीढ इति झ.पाठः ॥ 7-7-5 पिप्पलस्तस्य तनय इति य, पाठः । पल्लवस्तस्येति ट. पाठः ॥ 13-7-5 पिप्पलस्तस्य तनय इति थ. पाठः । पल्लवस्तस्येति ट. पाठः ॥ 13-7-6 प्रसवेन सोमाभिषवनिमित्तेन । अर्थी पुत्रार्थी ॥ 13-7-7 सुतात् सोमाभिषवोपलक्षिताद्यज्ञात् ॥ 13-7-8 भार्गवो भृगोर्गोत्रापत्यम् ॥ 13-7-10 वत्स्यसि उद्वाहेन प्राप्स्यसि ॥ 13-7-11 असंसक्तो निःसंशयः ॥ 13-7-13 आदित्यमदितेः पुत्रम् ॥ 13-7-15 छन्द इच्छा ॥ 13-7-29 वरेण पुत्रं ते दास्यामीत्यनुग्रहेण ॥ 13-7-30 पूर्वोपपन्नाया भर्तुः सम्बन्धात्पूर्वमुपपन्नायाः गुरुत्वेन प्राप्तायास्तव भर्त्रपेक्षयाहं गरीयसीत्यर्थः । पुत्रि पूर्वप्रपन्नाया इति ट.ध. पाठः ॥ 13-7-44 क्षत्रियः क्षत्रियवदुग्रक्रमा ॥ 13-7-53 ऊर्घ्वलिर्मुसलश्चेति ट.ध.पाठः