अध्यायः 006
युधिष्ठिरेण भीष्मं प्रति सविस्तरं विश्वामित्रचरित्रानुवादपूर्वकं तस्य ब्राह्मण्यप्राप्तिहेतुप्रश्नः ॥ 1 ॥
युधिष्ठिर उवाच । kk-13-01-006-001
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप । kk-13-01-006-001a
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥ kk-13-01-006-001c
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ । kk-13-01-006-002a
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥ kk-13-01-006-002c
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः । kk-13-01-006-003a
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह ॥ kk-13-01-006-003c
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः । kk-13-01-006-004a
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥ kk-13-01-006-004c
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः । kk-13-01-006-005a
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसङ्कुलः ॥ kk-13-01-006-005c
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः । kk-13-01-006-006a
विमोक्षितो महासत्रात्पशुतामप्युपागतः ॥ kk-13-01-006-006c
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा । kk-13-01-006-007a
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ॥ kk-13-01-006-007c
नाभिवादयते ज्येष्ठं देवरातं नराधिप । kk-13-01-006-008a
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः ॥ kk-13-01-006-008c
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् । kk-13-01-006-009a
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितोदिशम् ॥ kk-13-01-006-009c
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता । kk-13-01-006-010a
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता ॥ kk-13-01-006-010c
तपोविघ्नकरी चैव पञ्चचूडा सुसम्मता । kk-13-01-006-011a
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥ kk-13-01-006-011c
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा । kk-13-01-006-012a
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः ॥ kk-13-01-006-012c
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी । kk-13-01-006-013a
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥ kk-13-01-006-013c
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः । kk-13-01-006-014a
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत ॥ kk-13-01-006-014c
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च । kk-13-01-006-015a
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥ kk-13-01-006-015c
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव । kk-13-01-006-016a
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ॥ kk-13-01-006-016c
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ । kk-13-01-006-017a
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥ kk-13-01-006-017c
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि । kk-13-01-006-018a
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे ॥ kk-13-01-006-018c
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ । kk-13-01-006-019a
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान् kk-13-01-006-019c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानदर्मपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
13-6-7 शुनःशेपो देवांस्तोषयित्वा तैर्मोक्षितः सन्पुत्रतां विश्वामित्रस्यानुसम्प्राप्त इत्युत्तरेण सम्बन्धः ॥ 13-6-8 नाभिवादयते न नमस्कुर्वन्ति । अनुस्वारलोप आर्षः । देवरातं देवैर्विश्वामित्राय दत्तं तेन च ज्येष्ठं कृतं सन्तम् । शप्ता येनेति शेषः ॥ 13-6-9 बन्धुभिर्मुक्तः । वसिष्ठशापेन चण्डालतां गतत्वात् । दिवं येन नीतः ॥ 13-6-11 पञ्च चूडाः वलयभेदा यस्याः सा ॥ 13-6-14 त्रिशङ्कुं याजयन्विश्वामित्रो वसिष्टपुत्रैः शप्तः श्वपचस्य याजकस्त्वं श्वपचो भविष्यसीति । तं शापमृतं कर्तुं विश्वामित्रः कस्याञ्चिदापदि श्वजाघनीं चौर्येणार्जयित्वा पक्तुमारेभे । तामिन्द्रः श्येनरूपेण हृतवान् । तावतैवायं शापान्मुक्तो ववर्ष चेन्द्र इति । देवसेनानामग्रगः श्रेष्ठ इन्द्रः ॥ 13-6-15 ज्वलति तारारूपेण ॥ स्थाने युक्तम् । कथं ब्राह्मण्यं प्राप्तवान्विश्वामित्र इति शेषः ॥