अध्यायः 005
इन्द्रेण पुनर्ब्राह्मण्यप्राप्तये तपस्यते मतङ्गाय ब्राह्मण्यस्य दुष्प्रापत्वकथनपूर्वकमितराभीष्टवरदानम् ॥ 1 ॥
भीष्म उवाच । kk-13-01-005-001
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः । kk-13-01-005-001a
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत ॥ kk-13-01-005-001c
तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत् । kk-13-01-005-002a
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥ kk-13-01-005-002c
मतङ्ग उवाच । kk-13-01-005-003
इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः । kk-13-01-005-003a
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम् ॥ kk-13-01-005-003c
शक्र उवाच । kk-13-01-005-004
चण्डालयोनौ जातेन नावाप्यं वै कथञ्चन । kk-13-01-005-004a
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः ॥ kk-13-01-005-004c
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः । kk-13-01-005-005a
अध्यतिष्ठद्गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥ kk-13-01-005-005c
सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः । kk-13-01-005-006a
त्वगस्थिभूतो धर्मात्मा स ततापेति नः श्रुतम् ॥ kk-13-01-005-006c
तं तपन्तमभिद्रुत्य पाणिं जग्राह वासवः । kk-13-01-005-007a
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥ kk-13-01-005-007c
शक्र उवाच । kk-13-01-005-008
मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते । kk-13-01-005-008a
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः ॥ kk-13-01-005-008c
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् । kk-13-01-005-009a
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः ॥ kk-13-01-005-009c
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा । kk-13-01-005-010a
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ॥ kk-13-01-005-010c
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥ kk-13-01-005-011ac
बह्वीस्तु संसरन्योनीर्जायमानः पनुः पुनः । kk-13-01-005-012a
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥ kk-13-01-005-012c
तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः । kk-13-01-005-013a
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः ॥ kk-13-01-005-013c
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् । kk-13-01-005-014a
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे ॥ kk-13-01-005-014c
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्दुरासदम् । kk-13-01-005-015a
सुदुर्लभं सदावाप्य नानुतिष्ठन्ति मानवाः ॥ kk-13-01-005-015c
ये पापेभ्यः पापतमास्तेषामधम एव सः । kk-13-01-005-016a
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥ kk-13-01-005-016c
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् । kk-13-01-005-017a
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥ kk-13-01-005-017c
एकारामो ह्यहं शक्र निर्न्द्वद्वो निष्परिग्रहः । kk-13-01-005-018a
अहिंसादममास्थाय कथं नार्हामि विप्रताम् ॥ kk-13-01-005-018c
दैवं तु कथमेतद्वै यदहं मातृदोषतः । kk-13-01-005-019a
एतामवस्थां सम्प्राप्तो धर्मज्ञः सन्पुरन्दर ॥ kk-13-01-005-019c
नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् । kk-13-01-005-020a
यदर्थं यत्नवानेव न लभे विप्रतां विभो ॥ kk-13-01-005-020c
एवं गते तु धर्मज्ञ दातुमर्हसि मे वरम् । kk-13-01-005-021a
यदि तेऽहमनुग्राह्यः किञ्चिद्वा सुकृतं मम ॥ kk-13-01-005-021c
वैशम्पायन उवाच । kk-13-01-005-022
वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा । kk-13-01-005-022a
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम् ॥ kk-13-01-005-022c
यथा कामविहारी स्यां कामरूपी विहङ्गमः । kk-13-01-005-023a
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥ kk-13-01-005-023c
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर । kk-13-01-005-024a
कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये ॥ kk-13-01-005-024c
शक्र उवाच । kk-13-01-005-025
मतङ्ग गम्यतां शीघ्रमेवमेतद्भविष्यति । kk-13-01-005-025a
स्त्रियः सर्वास्त्वया लोके यक्ष्यन्ते भूतिकर्मणि ॥ kk-13-01-005-025c
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि । kk-13-01-005-026a
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति ॥ kk-13-01-005-026c
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत । kk-13-01-005-027a
प्राणांस्त्यक्त्वा मतङ्गोपि प्राप तत्स्थानमुत्तमम् ॥ kk-13-01-005-027c
एवमेव परं स्थानं मर्त्यानां भरतर्षभ । kk-13-01-005-028a
ब्राह्मण्यं नाम दुष्प्रापमिन्द्रेणोक्तं महात्मना ॥ kk-13-01-005-028c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चमोध्यायः ॥ 5 ॥
13-5-1 सहस्रं वत्सरान् ॥ 13-5-7 अभिद्रुत्य गत्वा ॥ 13-5-8 परिपन्थिभिः कामाद्यैश्चोरैः संवृतमतो दुःसंरक्ष्यमपीत्यर्थः ॥ 13-5-9 अपूजयन् ब्राह्मण्यमिति शेषः ॥ 13-5-10 ब्राह्मणेभ्यस्तद्द्वारा देवादयस्तृप्यन्तीत्यर्थः ॥ 13-5-11 यद्यद्वाञ्छति तत्तत्कुरुते ॥ 13-5-15 नानुतिष्ठन्ति तदुचितान् शमदमादीन्न सेवन्तेऽतः प्राप्तमपि दुःसंरक्ष्यमिति भावः ॥ 13-5-16 अवजानीते अवज्ञां करोति । न रक्षतीति यावत् ॥ 13-5-19 दैवं प्राक्कर्म । यत् यतः एतां अब्राह्मणत्वरूपाम् ॥