अध्यायः 004
मतङ्गेन ब्राह्मण्यप्राप्तये वर्षशतं तपश्चरणम् ॥ 1 ॥ तम्प्रतीन्द्रेण प्राणिनां कथञ्चिन्मानुषत्वलाभेपि नानानीचयोनिषु परिभ्रमणपूर्वकं क्रमेण त्रैवर्णिकत्वमात्रप्राप्तिकथनेन ब्राह्मण्यस्य दुर्लभत्वोक्तिः ॥ 2 ॥
भीष्म उवाच । kk-13-01-004-001
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः । kk-13-01-004-001a
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः ॥ kk-13-01-004-001c
तमुवाच ततः शक्रः पुनरेव महायशाः । kk-13-01-004-002a
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे ॥ kk-13-01-004-002c
मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि । kk-13-01-004-003a
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव ॥ kk-13-01-004-003c
'विमार्गतो मार्गमाणः सर्वथा न भविष्यसि' । kk-13-01-004-004a
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते । kk-13-01-004-004c
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥ kk-13-01-004-004e
मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया । kk-13-01-004-005a
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥ kk-13-01-004-005c
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति । kk-13-01-004-006a
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः ॥ kk-13-01-004-006c
पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते । kk-13-01-004-007a
स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ kk-13-01-004-007c
ततो दशशते काले लभते शूद्रतामपि । kk-13-01-004-008a
शूद्रयोनावपि ततो बहुशः परिवर्तते ॥ kk-13-01-004-008c
ततस्त्रिंशद्गणे काले लभते वैश्यतामपि । kk-13-01-004-009a
वैश्यतायां चिरं कालं तत्रैव परिवर्तते । kk-13-01-004-009c
ततः षष्टिगुणे काले राजन्यो नाम जायते ॥ kk-13-01-004-009e
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् । kk-13-01-004-010a
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते ॥ kk-13-01-004-010c
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् । kk-13-01-004-011a
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ kk-13-01-004-011c
ततस्तु त्रिशते काले लभते जपतामपि । kk-13-01-004-012a
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ kk-13-01-004-012c
ततश्चतुःशते काले श्रोत्रियो नाम जायते । kk-13-01-004-013a
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ kk-13-01-004-013c
तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक । kk-13-01-004-014a
अतिमानातिवादौ च प्रविशेते द्विजाधमम् ॥ kk-13-01-004-014c
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् । kk-13-01-004-015a
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत् ॥ kk-13-01-004-015c
मतङ्ग सम्प्रधार्यैवं यदहं त्वामचूचुदम् । kk-13-01-004-016a
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥ kk-13-01-004-016c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥
13-4-11 काण्डपृष्ठतां शस्त्रजीवित्वम् ॥ 13-4-12 जपतां गायत्रीमात्रसेविनां कुले जन्मेति शेषः ॥ 13-4-13 श्रोत्रियः अधीतवेदः ॥ 13-4-14 तत् तदा श्रोत्रियत्वलाभेऽपि ॥ 13-4-15 ते शोकादयः । एनं श्रोत्रियम् ॥