अध्यायः 003

भीष्मेण युधिष्ठिरं प्रति ब्राह्मण्यस्य क्षत्रियादिदौर्लभ्ये दृष्टान्ततया मतङ्गोपाख्यानकथनारम्भः ॥ 1 ॥ तत्रेन्द्रमतङ्गसंवादानुवादारम्भः ॥ 2 ॥

युधिष्ठिर उवाच । kk-13-01-003-001
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् । kk-13-01-003-001a
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः ॥ kk-13-01-003-001c
भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा । kk-13-01-003-002a
'सर्वेषामेव जातानां सतामेतन्न संशयः ॥' kk-13-01-003-002c
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर । kk-13-01-003-003a
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप ॥ kk-13-01-003-003c
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम । kk-13-01-003-004a
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि ॥ kk-13-01-003-004c
'ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप ।' kk-13-01-003-005a
तपसा वा सुमहता कर्मणा वा श्रुतेन वा । kk-13-01-003-005c
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह ॥ kk-13-01-003-005e
भीष्म उवाच । kk-13-01-003-006
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः । kk-13-01-003-006a
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ kk-13-01-003-006c
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पनः । kk-13-01-003-007a
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥ kk-13-01-003-007c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-003-008a
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥ kk-13-01-003-008c
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत् । kk-13-01-003-009a
मतङ्गो नाम नाम्नाऽऽसीत्सर्वैः समुदितो गुणैः ॥ kk-13-01-003-009c
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परन्तप । kk-13-01-003-010a
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना ॥ kk-13-01-003-010c
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके । kk-13-01-003-011a
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥ kk-13-01-003-011c
तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी । kk-13-01-003-012a
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति ॥ kk-13-01-003-012c
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते । kk-13-01-003-013a
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥ kk-13-01-003-013c
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् । kk-13-01-003-014a
स्वयोनिं मानयत्येष भावो भावं नियच्छति ॥ kk-13-01-003-014c
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः । kk-13-01-003-015a
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥ kk-13-01-003-015c
ब्रूहि रासभि कल्याणि माता मे येन दूषिता । kk-13-01-003-016a
केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत् । kk-13-01-003-016c
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ kk-13-01-003-016e
गर्दभ्युवाच । kk-13-01-003-017
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह । kk-13-01-003-017a
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥ kk-13-01-003-017c
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः । kk-13-01-003-018a
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ kk-13-01-003-018c
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि । kk-13-01-003-019a
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव ॥ kk-13-01-003-019c
मतङ्ग उवाच । kk-13-01-003-020
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत् । kk-13-01-003-020a
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ kk-13-01-003-020c
ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम् । kk-13-01-003-021a
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥ kk-13-01-003-021c
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः । kk-13-01-003-022a
ततो गत्वा महारण्यमतपत्सुमहत्तपः ॥ kk-13-01-003-022c
ततः स तापयामास विबुधांस्तपसाऽन्वितः । kk-13-01-003-023a
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥ kk-13-01-003-023c
तं तथा तपसा युक्तमुवाच हरिवाहनः । kk-13-01-003-024a
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ kk-13-01-003-024c
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि । kk-13-01-003-025a
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम् ॥ kk-13-01-003-025c
मतङ्ग उवाच । kk-13-01-003-026
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः । kk-13-01-003-026a
गच्छेयं तदवाप्येह वर एष वृतो मया ॥ kk-13-01-003-026c
भीष्म उवाच । kk-13-01-003-027
एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः । kk-13-01-003-027a
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया ॥ kk-13-01-003-027c
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः । kk-13-01-003-028a
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम् ॥ kk-13-01-003-028c
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते । kk-13-01-003-029a
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥ kk-13-01-003-029c
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् । kk-13-01-003-030a
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥ kk-13-01-003-030c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

13-3-1 वृत्तमाचारः । शीलं विनयः ॥ 13-3-4 ब्राह्मण्यं चेदिच्छेत्तर्हि केन प्राप्नुयात्तदिति अनुषज्य व्याख्येयम् ॥ 13-3-7 पर्याये आवृत्तौ जन्मनाम् ॥ 13-3-9 तुल्यवर्णः अन्यवर्णजोऽपि जातकर्मादिसंस्कारयोगात्तुल्यवर्णत्वं गतः । नाम प्रसिद्धम् ॥ 13-3-10 यज्ञकारः यज्ञं कारयन् आर्त्विज्यं कुर्वन्नित्यर्थः । प्रायात् अग्निचयनार्थमिष्टका आनेतुमित्यर्थाद्गम्यते ॥ 13-3-11 बालं अशिक्षितम् ॥ 13-3-14 बाले त्वयि । भावः जातिस्वभावः । भावं वुद्धिं नियच्छति मार्गान्तरादपकर्षति । भावं भावोऽधिगच्छतीति थ.ध.पाठः ॥ 13-3-15 करुणं रासभीवच इति ध.पाठः ॥ 13-3-19 संसिद्धौ संसिद्ध्यर्थम् ॥ 7-3-20 अन्त्ययोनिश्चण्डालजातिः । अयोनिस्तदन्यः कुत्सितयोनिः । तयोर्हीनकर्मतया कुशलित्वं नास्तीत्यर्थः ॥ 13-3-23 सुचरितात्तपसश्च हेतोः स्थानं ब्राह्मण्यं सुखेन प्रेप्सुर्विबुधांस्तापयामासेति सम्बन्धः ॥13-3-24 हरिवाहन इन्द्रः ॥ एतदाद्यध्यायत्रयं झ. पाठे २७-२८-२९ तमाध्यायतया वर्तन्ते |