अध्यायः 002
भीष्मेण युधिष्ठिरं प्रति गार्हस्थ्याश्रयणेनातिथिसत्कारस्य श्रेयःसाधनतायां सुदर्शनोपाख्यानकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । kk-13-01-002-001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । kk-13-01-002-001a
श्रुतं मे महदाख्यानमिदं मतिमतांवर ॥ kk-13-01-002-001c
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप । kk-13-01-002-002a
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥ kk-13-01-002-002c
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः । kk-13-01-002-003a
इत्येतद्धर्ममाचक्ष्व तत्त्वेनापि च पार्थिव ॥ kk-13-01-002-003c
भीष्म उवाच । kk-13-01-002-004
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । kk-13-01-002-004a
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ kk-13-01-002-004c
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः । kk-13-01-002-005a
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ kk-13-01-002-005c
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत । kk-13-01-002-006a
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ kk-13-01-002-006c
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः । kk-13-01-002-007a
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ kk-13-01-002-007c
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः । kk-13-01-002-008a
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ kk-13-01-002-008c
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः । kk-13-01-002-009a
महाभागो महातेजा महासत्वो महाबलः ॥ kk-13-01-002-009c
पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः । kk-13-01-002-010a
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः । kk-13-01-002-010c
धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥ kk-13-01-002-010e
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः । kk-13-01-002-011a
दुर्जयो नाम विख्यातः सर्वशस्त्रभृतांवर ॥ kk-13-01-002-011c
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः । kk-13-01-002-012a
दुर्योधनो नाम महान्राजा राजर्षिसत्तमः ॥ kk-13-01-002-012c
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः । kk-13-01-002-013a
विषये वासवस्तस्य सम्यगेव प्रवर्षति ॥ kk-13-01-002-013c
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः । kk-13-01-002-014a
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत् ॥ kk-13-01-002-014c
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः । kk-13-01-002-015a
व्याधितो वा कृशो वाऽपि तस्मिन्नाभून्नरः क्वचित् ॥ kk-13-01-002-015c
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः । kk-13-01-002-016a
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥ kk-13-01-002-016c
यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः । kk-13-01-002-017a
न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ kk-13-01-002-017c
तं नर्मदा देवनदी पुण्या शीतजला शिवा । kk-13-01-002-018a
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत ॥ kk-13-01-002-018c
तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना । kk-13-01-002-019a
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥ kk-13-01-002-019c
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर । kk-13-01-002-020a
दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥ kk-13-01-002-020c
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् । kk-13-01-002-021a
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युति ॥ kk-13-01-002-021c
सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया । kk-13-01-002-022a
नियुक्ता पितृसन्देशादारिराधयिषुः शिखिम् ॥ kk-13-01-002-022c
तस्या मनोहरं रूपं दृष्ट्वा देवो हुताशनः । kk-13-01-002-023a
मन्मथेन समादिष्टः पत्नीत्वे यतते मिथः ॥ kk-13-01-002-023c
भज मामनवद्याङ्गि कामात्कमललोचने । kk-13-01-002-024a
रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने ॥ kk-13-01-002-024c
तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम् । kk-13-01-002-025a
भ्रूलताललितं कान्तमनङ्गो बाधते हि माम् ॥ kk-13-01-002-025c
ललाटं चन्द्ररेखाभं शिरोरुहविभूषितम् । kk-13-01-002-026a
दृष्ट्वा ते पत्रलेखान्तमनङ्गो बाधते भृशम् ॥ kk-13-01-002-026c
बालातपेन तुलितं सस्वेदपुलकोद्गमम् । kk-13-01-002-027a
बिम्बाधरोष्ठवदनं विबुद्धमिव पङ्कजम् । kk-13-01-002-027c
अतीव चारुविभ्रान्तं मदमावहते मम ॥ kk-13-01-002-027e
दन्तप्रकाशनियता वाणी तव सुरक्षिता । kk-13-01-002-028a
ताम्रपल्लवसङ्काशा जिह्वेयं मे मनोहरा ॥ kk-13-01-002-028c
समाः स्निग्धाः सुजाताश्च सहिताश्च द्विजास्तव । kk-13-01-002-029a
द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि ॥ kk-13-01-002-029c
मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् । kk-13-01-002-030a
स्तनौ ते संहतौ भीरु हाराभरणभूषितौ ॥ kk-13-01-002-030c
पक्वबिल्वप्रतीकाशौ कर्कशौ सङ्गमक्षमौ । kk-13-01-002-031a
गम्भीरनाभिसुभगे भज मां वरवर्णिनि ॥ kk-13-01-002-031c
भीष्म उवाच । kk-13-01-002-032
सैवमुक्ता विरहिते पावकेन महात्मना । kk-13-01-002-032a
ईषदाकम्पहृदया व्रीडिता वाक्यमब्रवीत् ॥ kk-13-01-002-032c
ननु नाम कुलीनानां कन्यकानां विशेषतः । kk-13-01-002-033a
माता पिता प्रभवतः प्रदाने बान्धवाश्च ये ॥ kk-13-01-002-033c
पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ । kk-13-01-002-034a
सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः kk-13-01-002-034c
साऽहं नात्मवशा देव पितरं वरयस्व मे । kk-13-01-002-035a
अथ नातिचिराद्राजा कालाद्दुर्योधनस्तदा kk-13-01-002-035c
यज्ञसम्भारनिपुणान्मन्त्रीनाहूय चोक्तवान् । kk-13-01-002-036a
यज्ञं यक्ष्येऽहमिति वै सम्भारान्सम्भ्रियन्तु मे ॥ kk-13-01-002-036c
ततः समाहिते तस्य यज्ञे ब्राह्मणसत्तमैः । kk-13-01-002-037a
विप्ररूपी हुतवहो नृपं कन्यामयाचत ॥ kk-13-01-002-037c
न तु राजा प्रदानाय तस्मै भावमकल्पयत् । kk-13-01-002-038a
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः । kk-13-01-002-038c
इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः ॥ kk-13-01-002-038e
अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः । kk-13-01-002-039a
आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत ॥ kk-13-01-002-039c
ततः स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः । kk-13-01-002-040a
मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत् । kk-13-01-002-040c
यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः ॥ kk-13-01-002-040e
सम्मन्त्रकुशलैस्तैस्तैर्ब्राह्मणैर्वेदपारगैः । kk-13-01-002-041a
ऋत्विग्भिर्मन्त्रकुशलैर्यज्यतां वा हुताशनः ॥ kk-13-01-002-041c
अथ ऋक्सामयजुषां ब्राह्मणैर्वेदपारगैः । kk-13-01-002-042a
वेदतत्वार्थकुशलैस्ततः सोमपुरस्करैः ॥ kk-13-01-002-042c
गुह्यैश्च नामभिः सर्वैराहूतो हव्यवाहनः । kk-13-01-002-043a
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥ kk-13-01-002-043c
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् । kk-13-01-002-044a
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥ kk-13-01-002-044c
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् । kk-13-01-002-045a
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ kk-13-01-002-045c
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् । kk-13-01-002-046a
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ kk-13-01-002-046c
अयाचत च तं शुल्कं भगवन्तं विभावसुम् । kk-13-01-002-047a
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति ॥ kk-13-01-002-047c
तमाह भगवानग्निरेवमस्त्विति पार्थिवम् । kk-13-01-002-048a
ततः सान्निध्यमद्यापि माहिष्मत्यां विभावसोः ॥ kk-13-01-002-048c
दृष्टं हि सहदेवेन दिशं विजयता च तत् । kk-13-01-002-048e
ततस्तां समलङ्कृत्य कन्यामहतवाससम् । kk-13-01-002-049a
ददौ दुर्योधनो राजा पावकाय महात्मने ॥ kk-13-01-002-049c
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम् । kk-13-01-002-050a
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ kk-13-01-002-050c
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया । kk-13-01-002-051a
अभवत्प्रीतिमानग्निर्गर्भं चास्यां समादधे ॥ kk-13-01-002-051c
तस्याः समभवत्पुत्रो नाम्नाऽग्नेयः सुदर्शनः ॥ kk-13-01-002-052a
सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः । kk-13-01-002-053a
शिशुरेवाध्यगात्सर्वं परं ब्रह्म सनातनम् ॥ kk-13-01-002-053c
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः । kk-13-01-002-054a
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ kk-13-01-002-054c
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् । kk-13-01-002-055a
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥ kk-13-01-002-055c
स गृहस्थाश्रमरतस्तया सह सुदर्शनः । kk-13-01-002-056a
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ kk-13-01-002-056c
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो । kk-13-01-002-057a
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशाम्पते ॥ kk-13-01-002-057c
तामेवौघवतीं राजन्स पावकसुतोऽब्रवीत् । kk-13-01-002-058a
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥ kk-13-01-002-058c
येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः । kk-13-01-002-059a
अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ kk-13-01-002-059c
एतद्व्रतं मम सदा हृदि सम्परिवर्तते । kk-13-01-002-060a
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥ kk-13-01-002-060c
प्रमाणं यदि वामोरु वचस्ते मम शोभने । kk-13-01-002-061a
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥ kk-13-01-002-061c
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे । kk-13-01-002-062a
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥ kk-13-01-002-062c
तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः । kk-13-01-002-063a
न मे त्वद्वचनात्किञ्चिन्न कर्तव्यं कथञ्चन ॥ kk-13-01-002-063c
जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम् । kk-13-01-002-064a
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥ kk-13-01-002-064c
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने । kk-13-01-002-065a
अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ kk-13-01-002-065c
आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि । kk-13-01-002-066a
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः ॥ kk-13-01-002-066c
इत्युक्ता तेन विप्रेणि राजपुत्री यशस्विनी । kk-13-01-002-067a
विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते ॥ kk-13-01-002-067c
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये । kk-13-01-002-068a
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ kk-13-01-002-068c
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् । kk-13-01-002-069a
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर ॥ kk-13-01-002-069c
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः । kk-13-01-002-070a
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥ kk-13-01-002-070c
स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया । kk-13-01-002-071a
नान्यमात्मप्रदानात्स तस्या वव्रे परं द्विजः ॥ kk-13-01-002-071c
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः । kk-13-01-002-072a
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥ kk-13-01-002-072c
ततो विहस्य विप्रर्षिः सा चैवोपविवेश ह । kk-13-01-002-073a
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ kk-13-01-002-073c
अथेध्मान्समुपादाय स पावकिरुपागमत् । kk-13-01-002-074a
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ kk-13-01-002-074c
ततस्त्वाश्रममागम्य स पावकसुतस्तदा । kk-13-01-002-075a
तां व्याजहारौघवतीं क्वासि यातेति चासकृत् ॥ kk-13-01-002-075c
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा । kk-13-01-002-076a
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ kk-13-01-002-076c
उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च । kk-13-01-002-077a
तूष्णीम्भूताऽभवत्साध्वी विप्रकोपाच्च शङ्किता ॥ kk-13-01-002-077c
अथ तां किन्न्विति पुनः प्रोवाच स सुदर्शनः । kk-13-01-002-078a
क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥ kk-13-01-002-078c
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता । kk-13-01-002-079a
कथं न प्रत्युदेत्यद्य स्मयमाना यथापुरम् ॥ kk-13-01-002-079c
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् । kk-13-01-002-080a
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम् ॥ kk-13-01-002-080c
अनया छन्द्यमानोऽहं भार्यया तव सत्तम । kk-13-01-002-081a
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया ॥ kk-13-01-002-081c
आत्मप्रदानविधिना मामर्चति शुभानना । kk-13-01-002-082a
अनूरूपं यदत्रान्यत्तद्भवान्कर्तुमर्हति ॥ kk-13-01-002-082c
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात् । kk-13-01-002-083a
हीनप्रतिज्ञमत्रैवं वधिष्यामीति चिन्तयन् ॥ kk-13-01-002-083c
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा । kk-13-01-002-084a
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥ kk-13-01-002-084c
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम । kk-13-01-002-085a
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥ kk-13-01-002-085c
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति । kk-13-01-002-086a
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ kk-13-01-002-086c
प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु । kk-13-01-002-087a
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥ kk-13-01-002-087c
निःसन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम् । kk-13-01-002-088a
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ kk-13-01-002-088c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । kk-13-01-002-089a
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ kk-13-01-002-089a
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः । kk-13-01-002-090a
सुकृतं दुष्कृतं चापि कर्म कर्मवतांवर ॥ kk-13-01-002-090c
यथैषा नानृता वाणी मयाऽद्य समुदीरिता । kk-13-01-002-091a
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ kk-13-01-002-091c
ततो नादः समभवद्दिक्षु सर्वासु भारत । kk-13-01-002-092a
असकृत्सत्यमित्येवं नैतन्मिथ्येति सर्वतः ॥ kk-13-01-002-092c
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः । kk-13-01-002-093a
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः ॥ kk-13-01-002-093c
स्वरेण विप्रः शैक्षेण त्रींल्लोकाननुनादयन् । kk-13-01-002-094a
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥ kk-13-01-002-094c
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ । kk-13-01-002-095a
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ kk-13-01-002-095c
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति । kk-13-01-002-096a
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ kk-13-01-002-096c
न चास्ति शक्तिस्त्रैलोक्ये कस्य चित्पुरुषोत्तम । kk-13-01-002-097a
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ kk-13-01-002-097c
रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा । kk-13-01-002-098a
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ kk-13-01-002-098c
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी । kk-13-01-002-099a
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ kk-13-01-002-099c
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति । kk-13-01-002-100a
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः । kk-13-01-002-100c
अनया सह लोकांश्च गन्ताऽसि तपसार्जितान् ॥ kk-13-01-002-100e
यत्र नावृत्तिमभ्येति शाश्वतांस्ताननुत्तमान् । kk-13-01-002-101a
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे ॥ kk-13-01-002-101c
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् । kk-13-01-002-102a
पञ्चभूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः । kk-13-01-002-102c
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥ kk-13-01-002-102e
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः । kk-13-01-002-103a
तव शुश्रूषया राजन्राजपुत्र्या च निर्जिताः ॥ kk-13-01-002-103c
भीष्म उवाच । kk-13-01-002-104
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् । kk-13-01-002-104a
युक्तं प्रगृह्य भगवान्वासवोप्याजगाम तम् ॥ kk-13-01-002-104c
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च । kk-13-01-002-105a
बुद्धिः कालो मदो मोहः कामक्रोधौ तथैव च ॥ kk-13-01-002-105c
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै । kk-13-01-002-106a
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ kk-13-01-002-106c
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम् । kk-13-01-002-107a
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ kk-13-01-002-107c
सुदत्तं सुकृतं वाऽपि कम्पयेदप्यनर्चितः ॥ kk-13-01-002-108a
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् । kk-13-01-002-109a
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ kk-13-01-002-109c
एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम् । kk-13-01-002-110a
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत् ॥ kk-13-01-002-110c
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् । kk-13-01-002-111a
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम् ॥ kk-13-01-002-111c
इदं यः कथयेद्विद्वानहन्यहनि भारत । kk-13-01-002-112a
सुदर्शनस्य चरितं पुण्याल्ँलोकानवाप्नुयात् ॥ kk-13-01-002-112c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
13-2-15 दुर्गतो दरिद्रः ॥ 13-2-21 चकमे कामयामास ॥ 13-2-38 असवर्णः अक्षत्रियः । दित्सां दातुमिच्छाम् ॥ 13-2-39 प्रणश्यत नादृश्यत ॥ 13-2-43 दर्शयामासेति शेषः । 13-2-45 कल्यं प्रातः ॥ 13-2-49 अहतं नवं वासो यस्यास्ताम् ॥ 13-2-50 वसोर्धारां सन्ततां घृतधाराम् ॥ 13-2-53 दृशाभ्यां दृग्भ्यां सहितं सदृशं वक्रं तस्मिन् पूर्णेन्दोरुपमा सादृश्यं यस्य पूर्णेन्दुसदृशोपमः ॥ 13-2-57 गृहस्थश्च गृहस्थ एव ॥ 13-2-59 आत्मनः शरीरस्य ॥ 13-2-62 प्रमाणं हितज्ञापकम् ॥ 13-2-63 किञ्चिन्न कर्तव्यमिति न अपि तु कर्तव्यमेव ॥ 13-2-64 पृष्ठतस्तस्याप्रत्यक्षं गृहेऽन्वगमत् ॥ 13-2-65 ब्राह्मणस्तद्रूपी मृत्युः ॥ 13-2-69 एतद्रतप्रदानम् ॥ 13-2-70 राज्ञि राजकन्ये ॥ 13-2-71 छन्द्यमानः प्रलोभ्यमानः ॥ 13-2-77 विप्रकाराच्च शङ्कितेति थ. पाठ ॥ 13-2-82 अनुरूपं स्त्रीदूषणानुगुणं दण्डम् ॥ 13-2-83 कूटमुद्गरो लोहदण्डः । हीनप्रतिज्ञं त्यक्तातिथिव्रतम् ॥ 13-2-89 गुणाः इन्द्रियाणि तदभिमानिन्यो देवता इत्यर्थः ॥ 13-2-94 शैक्षेण उदात्तादिधर्मवता ॥ 13-2-100 अर्धेन ओघवती नाम नदी भविष्यतीति शेषः । योगो हीति योगसिद्धेयमतः शरीरद्वयं करिष्यतीत्यर्थः ॥ 13-2-103 राजन्निति ऋषिराजत्वात् राजजामानृत्वाद्वा सम्बोधनम् ॥ 13-2-105 बुद्धिरित्यादावपि जितेत्याद्यनुषङ्गः ॥ 7-2-111 बुभूषता भूतिमिच्छता ॥