अध्यायः 001

युधिष्ठिरेण भीष्मं प्रति पुनः शमादिकथनप्रार्थना ॥ 1 ॥ भीष्मादिनिधने स्वस्यैव हेतुत्वबुद्ध्या स्वोपालम्भनपूर्वकं शोचन्तं युधिष्ठिरं प्रति भीष्मेण जीवस्य कर्मण्यस्वातन्त्र्यमभिधाय तन्निदर्शनतया गौतमीलुब्धकादिसंवादानुवादः ॥ 2 ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं चैव(व्यासं)ततो जयमुदीरयेत् ॥ 001c
वैशम्पायन उवाच । 001
'शरतल्पे महात्मानं शयानमपराजितम् । 001a
युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत् ॥' 001c
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह । 002a
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥ 002c
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह । 003a
स्वकृतात्का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥ 003c
शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते । 004a
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ 004c
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् । 005a
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ 005c
अतः कष्टतरं किन्नु मत्कृते यत्पितामहः । 006a
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥ 006c
तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः । 007a
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः ॥ 007c
वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः । 008a
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ 008c
इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप । 009a
इमामवस्थां सम्प्राप्तं यदसौ त्वां न पश्यति ॥ 009c
सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा । 010a
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ 010c
दुर्योधनो हि समरे सहसैन्यः सहानुजः । 011a
निहतः क्षत्रधर्मेऽस्मिन्दुरात्मा कुलपांसनः ॥ 011c
न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ । 012a
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः ॥ 012c
अहं हि समरे वीर गमितः शत्रुभिः क्षयम् । 013a
अभविष्यं यदि पुरा सह भ्रातृभिरच्युत । 013c
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम् ॥ 014a
नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप ॥ 014c
अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात् । 015a
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम् ॥ 015c
भीष्म उवाच । 016
परतन्त्रं कथं हेतुमात्मानमनु पश्यसि । 016a
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ 016c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 017a
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ 017c
गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता । 018a
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥ 018c
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः । 019a
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥ 019c
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः । 020a
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ 020c
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा । 021a
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥ 021c
गौतम्युवाच । 022
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया । 022a
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ 022c
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । 023a
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ 023c
नास्यामृतत्वं भवितैवं हतेऽस्मिञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते ॥ 024a
अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्युं लोके को न गच्छेदनन्ते ॥ 024c
लुब्धक उवाच । 025
जानाम्यहं नेह गुणागुणज्ञाः सदायुक्ता गुरवो वै भवन्ति । 025a
स्वर्गस्य ते सूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ 025c
शममीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति । 026a
श्रियः क्षयः शोचतां नित्यशो हि तस्माच्छुचं मुञ्च हते भुजङ्गे ॥ 026c
गौतम्युवाच । 027
न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सञ्जना हि । 027a
नित्यायस्तो बालजनो न चाहं धर्मोपैति प्रभवाम्यस्य नाहम् ॥ 027c
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना । 028a
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥ 028c
लुब्धक उवाच । 029
हत्वा लाभः श्रेय एवाव्ययः स्यात्सद्यो लाभः स्याद्बलिभ्यः प्रशस्तः । 029a
कालाल्लाभो यस्तु सद्यो भवेत श्रेयोलाभः कुत्सिते त्वीदृशि स्यात् ॥ 029c
गौतम्युवाच । 030
काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा । 030a
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम् ॥ 030c
लुब्धक उवाच । 031
अस्मादेकाद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः । 031a
कृतागसं धर्महेतोस्त्यजन्ति सरीसृपं पापमिमं त्यज त्वम् ॥ 031c
गौतम्युवाय 032
नास्मिन्हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै । 032a
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥ 032c
लुब्धक उवाच । 033
वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव । 033a
शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का ॥ 033c
भीष्म उवाच । 034
असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति । 034a
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम् ॥ 034c
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः । 035a
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ 035c
सर्प उवाच । 036
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश । 036a
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥ 036c
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया । 037a
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन ॥ 037c
लुब्धक उवाच । 038
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् । 038a
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥ 038c
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा । 039a
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥ 039c
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग । 040a
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥ 040c
सर्प उवाच । 041
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा । 041a
तथाहमपि तस्मान्मे नैष दोषो मतस्तव ॥ 041c
अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः । 042a
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥ 042c
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी । 043a
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ 043c
लुब्धक उवाच । 044
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत । 044a
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥ 044c
असत्यपि कृते कार्ये नेह पन्नग लिप्यते । 045a
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ 045c
सर्प उवाच । 046
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे । 046a
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ 046c
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः । 047a
अन्यः प्रयोक्ता स्यादत्र किन्नु जन्तुविनाशने ॥ 047c
लुब्धक उवाच । 048
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् । 048a
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ 048c
सर्प उवाच । 049
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः । 049a
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम् ॥ 049c
भीष्म उवाच । 050
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते । 050a
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ 050c
प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम् । 051a
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥ 051c
यथा वायुर्जलधरान्विकर्षति ततस्ततः । 052a
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ 052c
सात्विका राजसाश्चैव तामसा ये च केचन । 053a
भावाः कालात्मकाः सर्वे प्रवर्तन्ते ह जन्तुषु ॥ 053c
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि । 054a
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ 054c
प्रवृत्तयश्च लोके या तथैव च निवृत्तयः । 055a
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ 055c
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः । 056a
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः ॥ 056c
सरितः सागराश्चैव भावाभावौ च पन्नग । 057a
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः ॥ 057c
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे । 058a
अथ चैवं गते दोषे मयि त्वमपि दोषवान् ॥ 058c
सर्प उवाच । 059
निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम् । 059a
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु ॥ 059c
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते । 060a
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ 060c
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा । 061a
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम् ॥ 061c
भीष्म उवाच । 062
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । 062a
नानागसं मां पाशेन सन्तापयितुमर्हसि । 062c
लुब्धक उवाच । 063
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम । 063a
नैव तावददोषत्वं भवति त्वयि पन्नग ॥ 063c
मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने । 064a
उभयं कारणं मन्ये न कारणमकारणम् ॥ 064c
धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् । 065a
त्वां चैवाहं वधिष्यामि परपापस्य कारणम् ॥ 065c
मृत्युरुवाच । 066
विवशौ कालवशगावावां निर्दिष्टकारिणौ । 066a
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ 066c
लुब्धक उवाच । 067
युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ । 067a
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम् ॥ 067c
मृत्युरुवाच । 068
या काचिदेव चेष्टा स्यात्सर्वा कालप्रचोदिता । 078a
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः ॥ 078c
तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ । 079a
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥ 079c
भीष्म उवाच । 080
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये । 080a
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा ॥ 080c
न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः । 081a
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ 081c
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् । 082a
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ 082c
यदनेन कृतं कर्म तेनायं निधनं गतः । 083a
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ 083c
कर्मदायादवाल्ँलोकः कर्मसम्बन्धलक्षणः । 084a
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ 084c
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । 085a
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ 085c
यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् । 086a
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥ 086c
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् । 087a
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ 087c
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप । 088a
स्वकर्मप्रत्ययाल्ँलोकान्मत्वाऽर्जुनकमब्रवीत् ॥ 088c
नैव कालो न भुजगो न मृत्युरिह कारणम् । 089a
स्वकर्मभिरयं बालः कालेन निधनं गतः ॥ 089c
मया च तत्कृतं कर्म येनायं मे मृतः सुतः । 090a
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥ 090c
भीष्म उवाच । 091
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः । 091a
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥ 091c
एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप । 092a
स्वकर्मप्रत्ययाल्ँलोकांस्त्रीन्विद्धि समितिञ्जय ॥ 092c
नैव त्वया कृतं कर्म नापि दुर्योधनेन वै । 093a
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥ 093c
वैशम्पायन उवाच । 094
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः । 094a
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ ॥ 094c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

13-1-2 धर्मो बहुविधाकार इति ट. पाठ ॥ 13-1-5 सीदे सीदामि सदा वर्षमिवाम्बुदम् इति थ.पाठः ॥ 13-1-6 मत्कृते मन्निमित्तम् । प्रत्यमित्रैः अमित्राणां प्रतिकूलैरस्मदीयैरर्जुनशिखण्डिप्रभृतिभिः ॥ 13-1-19 अथ तं साधुपाशेनेति ध. पाठः ॥ 13-1-20 केन हेतुना केनोपायेन ॥ 13-1-21 हेतुमेवाह अग्नाविति ॥ 13-1-22 प्राप्तव्यमविचिन्तयन्निति झ.पाठः ॥ 13-1-23 प्लवन्ते दुःखार्णवं तरन्ति । मज्जन्ति च तत्रैव । वस्त्रं क्लिन्नमिवोदके इति ट. पाठः ॥ 13-1-24 उत्सर्गे प्राणोत्सर्गे ॥ 13-1-29 श्रेयः परलोकहितं तदेवाऽव्ययो लाभः सच शत्रून् हत्वैव लभ्य इत्यध्याहृत्य योज्यम् । बलिभ्यः सर्वेभ्यः प्रशस्तः श्रेष्ठश्च स्यात् । शत्रुवधाल्लोकत्रयेपि मान्यो भवतीत्यर्थः ॥ 13-1-31 त्यजन्ति नाशयन्ति ॥ 13-1-32 मे पुत्रको जीवितं न सम्प्राप्स्यते । गुणं पुण्यम् । जीवं जीवन्तम् ॥ 13-1-33 शूली यज्ञं हत्वेति सम्बन्धः ॥ 13-1-35 संस्तभ्य धैर्यमालम्ब्य ॥ 13-1-36 अचूचुदत् प्रेरितवान् ॥ 13-1-37 दष्टो दष्टवान् । किल्बिषं चेदस्ति तर्हि प्रयोक्तुरेव न प्रयोज्यस्य मम शरस्येवेत्यर्थः ॥ 13-1-39 चेतनत्वात्किल्बिषीत्यवश्यं वध्योऽसीत्यर्थः ॥ 13-1-42 आयुधं हि अयस्कान्तवत्प्रहर्तारं प्रयोजयति । तेनायुधकर्तापि प्रयोजकस्तस्य चायं कारयिता प्रहर्तुकामः प्रयोजक इत्यन्योन्यप्रयोज्यत्वान्न कस्यचिद्धन्तृत्वमित्यर्थः ॥ 13-1-43 समवाये समुदाये ॥ 13-1-45 यतः कृतेऽपि असति दुष्टे कार्ये दोषे हेतुः कर्ता न लिप्यते तव मते । तस्मात् चोरादिरत्रैव राज्ञां वध्यः प्रायश्चित्ती च न स्यात् ॥ 13-1-46 कारणे कर्तरि सति कुठारोद्यमनादिकार्येण छिदिक्रिया जायते असत्यपि कर्तरि तरुशाखान्तनिघर्षेण कार्येण तज्जेनाग्निना वनदाहक्रिया जायते । तस्माच्छाखाया इव ममापि कर्तृत्वं अप्रयोजकत्वान्न दोषहेतुः विशेषाभावादित्यर्थः ॥ 13-1-49 एवमृत्विगादिवदन्यप्रेर्यत्वान्नाहं किल्बिषी किन्तु मम प्रयोजक एवेति भावः ॥ 13-1-53 कालात्मकाः कालस्येवाऽऽत्मा स्वभावो येषान्ते । कालानुसारिण इत्यर्थः ॥ 13-1-57 भावाभावावैश्वर्यानैश्वर्ये ॥ 13-1-63 मे मया ॥13-1-67 भो मृत्युपन्नगौ यदि युवां कालवशौ तर्हि मे मम तटस्थस्य परोपकर्तरि हर्षः अपकर्त्रोश्च युवयोरुपरि द्वेषो वा यथा स्यातां तथा ब्रूतम् । एतदहं वेदितुमिच्छामीत्यध्याहारपूर्वकं योज्यम् । एवं सर्वस्य परवशत्वे उपकर्त्रपकर्त्रोः स्तुतिनिन्दे न स्यातामिति भावः 13-1-68 ईश्वराधीनो जनः सदसद्वा कुर्वाणो न स्तुत्यो न वा निन्द्य इति भावः ॥ 13-1-69 दोषेण युक्ताविति शेषः । गन्तव्यौ ज्ञातव्यौ ॥ 13-1-70 धर्मस्यार्थः फलं तत्र विषये ॥ 13-1-74 कर्मैव दायादः पुत्रवत्तारकं तद्वान् । कर्मसम्बन्धः कर्मफलयोगः तदेव लक्षणं पुण्यपापवत्ताज्ञापकं यस्य तथा ॥ 13-1-78 कर्मैव प्रत्ययः कारणं येषां तान् लोकान् स्वर्गनरकादीन् ॥ 13-1-80 तत्कर्म पुत्रशोकप्रदम् ॥