अध्यायः 375

भीष्मेण युधिष्ठिरम् प्रत्युञ्छवृत्त्युपाख्यानोपदेशपरम्पराक्रमकथनपूर्वकमुञ्छवृत्तिब्राह्मणस्य वनप्रवेशकथनम् ॥ 1 ॥ भीष्म उवाच 001
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः । 001a
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ॥ 001c
स तेन कृतसत्कारो धर्ममेवाधितस्थिवान् । 002a
तथैव च कथामेतां राजन्कथितवांस्तदा ॥ 002c
भार्गवेणापि राजेन्द्र जनकस्य निवेशने । 003a
कथैषा कथिता पुण्या नारदाय महात्मने ॥ 003c
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने । 004a
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ॥ 004c
देवराजेन च पुरा कथितैषा कथा शुभा । 005a
समस्तेभ्यः प्रशस्तेभ्यो विप्रेभ्यो वसुधाधिप ॥ 005c
यदा च मम रामेण युद्धमासीत्सुदारुणम् । 006a
वसुभिश्च तदा राजन्कथेयं कथिता मम ॥ 006c
पृच्छमानाय तत्त्वेन मया चैवोत्तमा तव । 007a
कथेयं कथिता पुण्या धर्म्या धर्मभृतांवर ॥ 007c
तदेव परमो धर्मो यन्मां पृच्छसि भारत । 008a
आसीद्धीरो ह्यनाकाङ्क्षी धर्मार्थकरणे नृप ॥ 008c
स च किल कृतनिश्चयो द्विजो भुजगपतिप्रतिदेशितात्मकृत्यः । 009a
यमनियमसहो वनान्तरं परिगणितोञ्छशिलाशनः प्रविष्टः ॥ 009c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां शान्तिपर्वणि मोक्षधर्मपर्वणि उञ्छवृत्त्युपाख्याने पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 375 ॥

12-375-7 मयाप्यद्य तवानघेति ट. पाठः ॥ 12-375-9 यमा अहिंसादयः नियमाः शौचादयः । वनान्तरं वनमध्यं प्रविष्टः । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् । परिगणितं परिमितमुञ्छशिलार्जितमन्नमश्नन् फणिपत्युक्तामुञ्छवृत्तेर्गतिं प्रापेति शेषः । शमनियमसमाहितो वनान्तमिति ट. पाठः ॥

समाप्तं च मोक्षधर्मपर्व ॥ 3 ॥ शान्तिपर्व च समाप्तम् ॥ 12 ॥