अध्यायः 374
ब्राह्मणेन नागामन्त्रणपूर्वकमिष्टदेशम् प्रति प्रस्थानम् ॥ 1 ॥
ब्राह्मण उवाच 001
आश्चर्यं नात्र सन्देहः सुप्रीतोस्मि भुजङ्गम । 001a
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥ 001c
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम । 002a
स्मरणीयोस्मि भवता सम्प्रेषणनियोजनैः ॥ 002c
नाग उवाच 003
अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् । 003a
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥ 003c
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ । 004a
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत ॥ 004c
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह । 005a
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥ 005c
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः । 006a
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥ 006c
ब्राह्मण उवाच 007
एवमेतन्महाप्राज्ञ विदितात्मन्भुजङ्गम । 007a
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥ 007c
स एव त्वं स एवाहं योऽहं स तु भवानपि । 008a
अहं भवांश्च भूतानि सर्वे यत्र गताः सदा ॥ 008c
आसीत्तु मे भोगिपते संशयः पुण्यसञ्चये । 009a
सोहमुञ्छव्रतं साधो चरिष्याम्यर्थसाधनम् ॥ 009c
एष मे निश्चयः साधो कृतं कारणमुत्तमम् । 010a
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ॥ 010c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 374 ॥
12-374-4 उक्तानुक्ते पृष्टे अपृष्टेपि मयैव वात्सल्यात्कृते सति ॥ 12-374-6 अहं त्वयि भक्तिमानिति शेषः ॥ 12-374-8 यत्र चाहं स एव त्वमेवमाह भुजङ्गमेति ट. पाठः ॥