अध्यायः 373
नागेन ब्राह्मणम् प्रति सूर्येण स्वम् प्रति तद्बिम्बप्रविष्टतेजस उञ्छवृत्तिमुनिस्वरूपत्वकथनकथनम् ॥ 1 ॥
सूर्य उवाच 001
नैष देवोऽनिलसखो नासुरो न च पन्नगः । 001a
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ॥ 001c
एष मूलफलाहारः शीर्णपर्णाशनस्तथा । 002a
अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः ॥ 002c
भवश्चानेन विप्रेण संहिताभिरभिष्टुतः । 003a
स्वर्गद्वारे कृतोद्योगो येनासौ त्रिदिवं गतः ॥ 003c
असङ्गतिरनाकाङ्क्षी नित्यमुञ्छशिलाशनः । 004a
सर्वभूतहिते युक्त एष विप्रो भुजङ्गमाः ॥ 004c
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः । 005a
प्रभवन्तीह भूतानां प्राप्तानामुत्तमां गतिम् ॥ 005c
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज । 006a
संसिद्धो मानुषः कामं योसौ सिद्धगतिं गतः । 006c
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते ॥ 006e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 373 ॥
12-373-1 अनिलसखो वह्निः ॥