अध्यायः 372

आश्चर्यकथनम् प्रार्थितेन नागेन सूर्यमण्डले तत्तुल्यतेजोन्तरप्रवेशदर्शनकथनम् ॥ 1 ॥ ब्राह्मण उवाच 001
विवस्वतो गच्छति पर्ययेण वोढुं भवांस्तं रथमेकचक्रम् । 001a
आश्चर्यभूतं यदि तत्र किञ्चिद्दृष्टं त्वयाशंसितुमर्हसि त्वम् ॥ 001c
नाग उवाच 002
आश्चर्याणामनेकानां प्रतिष्ठा भगवान्रविः । 002a
यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसम्मताः ॥ 002c
यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः । 003a
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ 003c
यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् । 004a
विजृम्भत्यम्बरे तत्र किमाश्चर्यमतः परम् ॥ 004c
विभज्यं तं तु विप्रर्षे प्रजानां हितकाम्यया । 005a
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ 005c
यस्य मण्डलमध्यस्थो महात्मा परमत्विषा । 006a
दीप्तः समीक्षतेऽलोकान्किमाश्चर्यमतः परम् ॥ 006c
शुक्रो नामासितः पादो यश्च वारिधरोऽम्बरे । 007a
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ 007c
योऽष्टमासांस्तु शुचिना किरणेनोक्षितं पयः । 008a
प्रत्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥ 008c
यस्य तेजोविशेषेषु स्वयमात्मा प्रतिष्ठितः । 009a
यतो बीजं मही चेयं धार्यते सचराचरम् ॥ 009c
यत्र देवो महाबाहुः शाश्वतः पुरुषोत्तमः । 010a
अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥ 010c
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु । 011a
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥ 011c
पुरा मध्याह्नसमये लोकांस्तपति भास्करे । 012a
प्रत्यादित्यप्रतीकाशः सर्वतः समदृश्यत ॥ 012c
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् । 013a
आदित्याधिमुखोऽभ्येति गगनं पाटयन्निव ॥ 013c
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः । 014a
अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥ 014c
तस्याभिगमनप्राप्तौ हस्तौ दत्तौ विवस्वता । 015a
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चितार्थिना ॥ 015c
ततो भित्त्वैव गगनं प्रविष्टो रश्मिमण्डलम् । 016a
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥ 016c
तत्र नः संशयो जातस्तयोस्तेजःसमागमे । 017a
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥ 017c
ते वयं जातसन्देहाः पर्यपृच्छामहे रविम् । 018a
क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥ 018c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 372 ॥

12-372-4 विसृजत्यम्बरे तोयमिति ट. पाठः ॥ 12-372-5 तं वातं पुरोवातादिरूपेण विभज्य परिणामं नीत्वा ॥ 12-372-6 महात्मान्तर्यामी ॥ 12-372-7 पादइव पादोऽवयवः नीलमेघरूपेणाप्ययमेव वर्षतीत्यर्थः ॥ 12-372-9 यतः सूर्यात् । बीजम् औषधम् ॥ 12-372-12 प्रत्यादित्यप्रतीकाशः आदित्यान्तरतुल्यतेजस्कः । समदृश्यत दृष्टः ॥ 12-372-15 दत्तः प्रत्यर्चिनार्चिनेति ट. पाठः ॥ 12-372-16 भित्त्वैव रविमण्डलमिति ट. पाठः ॥