अध्यायः 371
नागब्राह्मणयोः संलापः ॥ 1 ॥
भीष्म उवाच 001
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति । 001a
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥ 001c
तमतिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर । 002a
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥ 002c
भोभो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि । 003a
इह त्वमभिसम्प्राप्तः कस्यार्थे किं प्रयोजनम् ॥ 003c
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज । 004a
विविक्ते गोमतीतीरे कं वा त्वं पर्युपाससे ॥ 004c
ब्राह्मण उवाच 005
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् । 005a
पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम् ॥ 005c
तस्य चाहमसान्निध्ये श्रुतवानस्मि तं गतम् । 006a
स्वजनात्तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥ 006c
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् । 007a
आवर्तयामि तद्ब्रह्म योगयुक्तो निरामयः ॥ 007c
नाग उवाच 008
अहो कल्याणवृत्तस्त्वं साधुः सज्जनवत्सलः । 008a
अवाच्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥ 008c
अहं स नागो विप्रर्षे यथा मां विन्दते भवान् । 009a
आज्ञापय यथास्वैरं किं करोमि प्रियं तव ॥ 009c
भवन्तं स्वजनादस्मि सम्प्राप्तं श्रुतवानहम् । 010a
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥ 010c
सम्प्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति । 011a
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि ॥ 011c
वयं हि भवता सर्वे गुणक्रीता विशेषतः । 012a
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥ 012c
ब्राह्मण उवाच 013
आगतोऽहं महाभाग तव दर्शनलालसः । 013a
कञ्चिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम ॥ 013c
अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो गतिम् । 014a
वासार्थिनं महाप्रज्ञं चलच्चित्तमुपास्मि ह ॥ 014c
प्रकाशितस्त्वं स गुणैर्यशोगर्भगभस्तिभिः । 015a
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ॥ 015c
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन । 016a
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति तद्भवान् ॥ 016c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 371 ॥
12-371-3 क्षाम्य क्षमस्व ॥ 12-371-5 धर्मारण्यं मुनिं मां विद्धि । द्विजानां सर्पाणां श्रेष्ठ । धर्मारण्याद्धि मां विद्धि इति ट. पाठः ॥ 12-371-6 श्रुतवानस्मि तां गतिमिति ठ. पाठः ॥ 12-371-7 अक्लेशकरणं क्लेशनिवारकम् ॥ 12-371-8 श्रुत्वाद्य त्वं महाभाग परं यत्नेन पश्यसीति ट. पाठः ॥ 12-371-13 अनर्थज्ञः अर्थानभिज्ञः । कञ्चिदर्थं हि तत्वज्ञेति ट. पाठः ॥ 12-371-15 आत्मन्यात्मप्रकाशिभिरिति ट. पाठः ॥