अध्यायः 370

ब्राह्मणसन्देशश्रवणरुष्टेन नागेन पत्नीसुवाक्येन रोषत्यागपूर्वकम् ब्राह्मणम् प्रति प्रस्थानम् ॥ 1 ॥ नाग उवाच 001
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि । 001a
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते ॥ 001c
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि । 002a
सन्दर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥ 002c
सुरासुरगणानां च देवर्षीणां च भामिनि । 003a
ननु नागा महावीर्याः सौरभेयास्तरस्विनः ॥ 003c
वन्दनीयाश्च वरदा वयमप्यनुयायिनः । 004a
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः ॥ 004c
नागभार्योवाच 005
आर्जवेन विजानामि नासौ देवोऽनिलाशन । 005a
एकं तस्मिन्विजानामि भक्तिमानतिरोपण ॥ 005c
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा । 006a
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते ॥ 006c
हित्वा त्वद्दर्शनं किञ्चिद्विघ्नं न प्रतिपालयेत् । 007a
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते ॥ 007c
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि । 008a
आशाच्छेदेन तस्याद्य नात्मानं दग्धुमर्हसि ॥ 008c
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम् । 009a
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥ 009c
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत् । 010a
वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥ 010c
भूप्रदानेन च गतिं लभत्याश्रमसम्मिताम् । 011a
न्याय्यस्यार्धस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते ॥ 011c
अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम् । 012a
न याति निरयं कश्चिदिति धर्मविदो विदुः ॥ 012c
नाग उवाच 013
अभिमानैर्न मानो मे जातिदोषेण वै महान् । 013a
रोषः सङ्कल्पजः साध्वि दग्धो वागग्निना त्वया ॥ 013c
न च रोषादहं साध्वि पश्येयमधिकं तमः । 014a
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः ॥ 014c
रोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् । 015a
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥ 015c
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् । 016a
धर्षणारोषसंविग्नाः कार्तवीर्यसुता हताः ॥ 016c
जामदग्न्येन रामेण सहस्रनयनोपमः । 017a
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥ 017c
तदेष तपसां शत्रुः श्रेयसां विनिपातकः । 018a
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव ॥ 018c
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि । 019a
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता ॥ 019c
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः । 020a
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति ॥ 020c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्यधिकत्रिशततमोऽध्यायः ॥ 370 ॥

12-370-1 कथं त्वमनुपश्यसीति ट. पाठः ॥ 12-370-3 सौरभेयाः दिव्यगन्धवहाः ॥ 12-370-6 स्तोककः चातकः ॥ 12-370-7 त्वद्दर्शनं विनास्य कोपि विघ्नो माभूदित्यर्थः । अतिथिं त्यक्त्वा न कश्चित्स्वकुले आस्ते इत्यर्थः । नहि त्वां दैवतं किञ्चिद्द्वितीयं प्रतिपालयेदिति ट. पाठः ॥ 12-370-9 भ्रूणहत्यैव भ्रूणहत्ययैव ॥ 12-370-10 दानेनाभ्युदयो महानिति ट. पाठः ॥ 12-370-11 लभत्याश्रमसम्पदमिति ट. पाठः ॥ 12-370-12 नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा कामकृताः क्रिया इति ट. पाठः ॥ 12-370-14 तस्य रोषस्य विशेषेणाधिक्येन ॥